TransLiteral Foundation
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २००

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १५१ ते २००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १५१ ते २००
विभजे स्यात् ततो मानं पूर्वप्रासादसन्निभम् ।
स्वरूपं तस्य वक्ष्यामः श्रीवत्समिव तं भवेत् ॥१५१॥
यद्वा विमानरुचकवर्धमानादिसद्मना ।
छन्देनैकस्य कस्यापि प्रासादस्य विभाजयेत् ॥१५२॥
भूस्तम्भपरिकर्माणि विस्तारोसेधमेखलाः
सिंहकर्णरथा घण्टा तथा कुम्भाग्रषण्डकम् ॥१५३॥
यत्किञ्चित्तत्प्रमाणेन यथैवाद्यं तथा भवेत् ।
वलभ्यः ।
सुपर्णस्य स्वरूपं च प्रमाणं चाभिधीयते ॥१५४॥
विभक्तं सिंहरूपेण सर्वभद्रं निवेशयेत् ।
भागैश्चतुर्भिर्निष्क्रान्तं भद्रं गभयितः समम् ॥१५५॥
द्वौ भागौ मूलकर्णौ तो षड्भागा भद्र विस्तृतिः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला तस्य भागिका ॥१५६॥
मूलजङ्घात्रिभागेन कुरवेदिसमुच्छ्रितिः ।
सच मध्ये तु शृङ्गे द्वे कर्तव्ये वामदक्षिणे ॥१५७॥
उच्छ्रायाद्द्विपदे स्यातां विभक्ते सर्वतोदिशम् ।
मूलकर्णेषु शृङ्गाणां त्रिपदा स्यात्समुच्छ्रितिः ॥१५८॥
--- सेवापि चतुरङ्गुलमेव वा ।
कुर्याज्जाला विस्तारं श्रीवत्से नन्दने यथा ॥१५९॥
विस्ताराद्द्विगुणोत्सेधः स्कन्धः षड्भागविस्तृतः ।
उत्सेधस्य त्रिभागेन जङ्घोत्सेधो विधीयते ॥१६०॥
तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् ।
मेखलान्तरपत्रं च विदध्यात्सार्धभागिकम् ॥१६१॥
विभाज्या दशभिर्भागैः पूर्ववत्स्कन्धविस्तृतिः ।
सार्धद्विगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥१६२॥
चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् ।
श्रीवार्धभागमुत्सेधात्कुमुदं कुम्भकं पुनः ॥१६३॥
अस्मिन्नामलसारं च यथा चाद्ये तथा भवेत् ।
श्रीवत्सः ।
पद्मनाभमथ ब्रूमः पद्मशालाभिरन्वितम् ॥१६४॥
द्वितीयः पद्मको ह्येष पद्ममालाधरः शुभः ।
सर्वमन्यत्प्रमाणं तु पद्मस्वस्तिकयोर्यथा ॥१६५॥
पद्मनाभः ।
वैराजमथ वक्ष्यामि स विज्ञेयो विमानवत् ।
रूपशिख---मुत्सेधस्तम्भग्रीव---रूपकम् ॥१६६॥
सभातोरणनिर्यूहसिंहकर्णाश्च तादृशैः ।
साधारं चतुरश्रं च तं कुर्यात्पञ्चभूमिकम् ॥१६७॥
विमानसदृशाकारो वैराजोऽयमुदाहृतः ।
वैराजः ।
ब्रूमोऽथ वृत्तकं मूले चतुरश्रः प्रकीर्तितः ॥१६८॥
जङ्घामूले ततोऽष्टाभिस्त्रिर्वृत्तो भागतृतीयके ।
मूलमध्याग्रतः पूर्णं तं कुर्यात्सर्वतोदिशम् ॥१६९॥
भद्रा कारं च भद्रे षु विभागे चतुरश्रके ।
अष्टाश्रिवज्जकाकारा वृत्ते स्वस्तिकसन्निभम् ॥१७०॥
यथा मूलविभागेन लतिनः स्वस्तिकोदयः ।
तथा वृद्धिप्रमाणाभ्यामयमप्याद्यवद्भवेत् ॥१७१॥
वृत्तकः ।
नन्द्यावर्तमथ ब्रूमो दशधा तं विभाजयेत् ।
पादोमध्यंशविस्तारो कर्णौ कुर्वीत पार्श्वयोः ॥१७२॥
चतुर्भागप्रविस्तारं भद्र मस्य प्रकल्पयेत् ।
सपादपदिकं कुर्याच्छालाकर्णान्तरे रथम् ॥१७३॥
जलाधाररथं कर्णतः शालान्तेषु यथेष्टतः ।
ष---सु शिखरायामास्तन्मध्ये वलभी भवेत् ॥१७४॥
जलमार्गं च कुर्वीत शालाकर्णान्तमूलयोः ।
प्रमाणमन्यथा किञ्चिद्भूसिंहस्येव कारयेत् ॥१७५॥
सुपर्णः ।
प्रमाणमथ सिंहस्य लक्षणं चाभिधीयते ।
दशधा क्षेत्रविस्तारं विभजेत् सर्वतः समम् ॥१७६॥
द्विभागौ मूलकर्णौ तु कर्तव्यौ वामदक्षिणौ ।
मूलभद्र स्य विस्तारः षड्भिर्भागैर्विधीयते ॥१७७॥
विस्तारो द्विगुणः कार्यः स्कन्धोत्सेधप्रमाणतः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला सार्धभागिकी ॥१७८॥
खुरकं वेदिबन्धं च तत्त्रिभागेन कल्पयेत् ।
भागत्रयोच्छ्रितानि स्युः शृङ्गाणि च चतुर्दिशम् ॥१७९॥
सिंहस्य कर्णवन्मध्ये वलभ्या भूषयेद्बुधः ।
सर्वमन्यत्प्रमाणं च सर्वतोभद्र वद्भवेत् ॥१८०॥
सिंहः ।
विचित्रकूटं वक्ष्यामो दशधा तं विभाजयेत् ।
द्विभागिको मूलभद्र स्य हस्ततुल्याङ्गुलो भवेत् ॥१८१॥
शालामध्यप्रदेशे तु वलभीं सन्निवेशयेत् ।
कूटे द्वे सर्वतो न्यस्येच्छ्लिष्टे---मूलक---योः ॥१८२॥
एष भेदः समुद्दिष्टः शाला स्यात्कूटवर्जिता ।
प्रमाणमन्यत्सर्वं तु विज्ञेयं चित्रकूटवत् ॥१८३॥
चित्रकूटः ।
योगपीठमथ ब्रूमस्त्रिविष्टपमिवोत्तमम् ।
विभजेद्भागविंशत्या चतुरश्रं समन्ततः ॥१८४॥
कोष्ठान्यद्भागविस्तारा कुर्याद्दिक्षु विदिक्षु च ।
भागिकौ जलमार्गौ च विदध्याद्वामदक्षिणौ ॥१८५॥
विस्तारात्तेषु गर्भः स्याद्भागत्रितयसंमितः ।
पञ्चभागोच्छ्रिता जङ्घा कपोतान्तरवर्जिता ॥१८६॥
खुरकं वेदिबन्धं च कुर्याद्भागत्रयोच्छ्रितम् ।
विस्तारात्कुर्याद्दिक्षु द्विगुणोच्छ्रायः कार्योऽयं पञ्चभूमिकः ॥१८७॥
सिंहकर्णै रथैर्घण्टाभ्रमिकास्तम्भतोरणैः ।
रचनास्य विधातव्या कथिता पुष्पके तथा ॥१८८॥
सान्धारः केवलं कार्यः प्रासादोऽयं विचक्षणैः ।
योगपीठः ।
घण्टानादमथ ब्रूमः स भवेत्पञ्चभूमिकः ॥१८९॥
अष्टाश्रिकोणः कर्तव्यः संस्थानात्पुष्पकोऽपरः ।
भैरवो भद्र काली च स्थाप्य चात्र पाठको ॥१९०॥
घण्टानादः ।
पताकिनमथ ब्रूमो वातोद्भूतमिवार--- ।
लतिनं लतिनाकारं विभक्तं सर्वतोदिशम् ॥१९१॥
तं चण्डिकायाः कुर्वीत रुचकं वर्धमानकम् ।
वृक्षपताकिनं वक्ष्यामि --- भृतं शाखिनं यथा ॥१९२॥
पताकिनः ।
गुहाधरमथ ब्रूमः श्रीपुष्टिसौखदायिनम् ।
विभक्ते दशधा क्षेत्रे भद्रं स्याद्गर्भमानतः ॥१९३॥
अर्धेन मूलगर्भस्य कार्यो भद्र स्य निर्गमः ।
सार्धभागप्रविष्टारौ कर्णौ द्वौ द्वौ च पार्श्वयोः ॥१९४॥
जलाधा मूलकर्णान्ते कर्तव्यः पार्श्वयोर्द्वयोः ।
तद्द्वारमध्यदेशे तु विन्यस्येत्स्तम्भतोरणम् ॥१९५॥
विस्तारद्विगुणोत्सेधश्चतुःशृङ्गश्चतुर्मुखः ।
भूग्रीवामेखलाजङ्घाः कुम्भकामलसारके ॥१९६॥
सिंहस्येव प्रकुर्वीत गुहाधारस्ततो भवेत्
द्वारभेदेन नामास्य प्रासादस्य विनिर्मितम् ॥१९७॥
गुहाधरः ।
कथयामोऽथ शालाकं दशधा तं विभाजयेत् ।
द्विभागिकौ मूलकर्णौ षड्भागा भद्र विस्तृतिः ॥१९८॥
द्वाराणि भद्र मध्ये स्युर्मूलद्वारसमानि तु ।
चतुर्बाहुश्चतुर्द्वारो द्वितीयो रुचको ह्यसौ ॥१९९॥
द्वारमानेन नामास्य शालाक इति कीरितम् ।
प्रमाणमन्यद्यत्किञ्चिद्भद्र कस्येव तद्भवेत् ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:02:48.5870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

expert opinion

  • विशेषज्ञ राय 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.