TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १०१ ते १५०
ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा ।
निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥१०१॥
सपत्तनपुरारामगन्धर्वत्रिदशासुरम् ।
निखिलं जगदालेख्यमस्मिन्नद्रि द्रुमाकुलम् ॥१०२॥
ध्वजाग्रे रश्मिभिर्नद्धं सुविन्यस्तं च भूतले ।
विन्यसेत्तमसम्मूढमधोभागसमाश्रितम् ॥१०३॥
प्रमोदगीतवादित्रनटनर्तकसंयुतः ।
तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥१०४॥
पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रि यः ।
अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥१०५॥
कृत्वोपलेपनं तस्मिन्नुल्लेखाभ्युक्षनैस्ततः ।
संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत्तत्र पावकम् ॥१०६॥
तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च ।
द्र व्याणि वाचनीयानि समिधश्च पलाशजाः ॥१०७॥
सौवर्णौ स्रक्स्रुवाविन्द्र भक्तं च बलयोऽपि च ।
इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥१०८॥
पुत्रदारपशुद्र व्यसैन्ययुक्तस्य भूपतेः ।
विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥१०९॥
सुस्वनःसुमहार्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् ।
कान्तिमान् सुरभिर्जिघ्नन् होतारं शस्यतेऽनलः ॥११०॥
तप्तकाञ्चनसच्छायो लाक्षाभः किंशुकच्छविः ।
प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥१११॥
ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः ।
सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥११२॥
स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः ।
सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥११३॥
धूम्रो विवर्णः परुषः पीतो वा नीलकोऽथवा ।
विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥११४॥
मन्दार्चिर्द्युतिमुक्तोऽसृग्वसागन्धः स्फुलिङ्गवान् ।
धूमावृतः सफेनश्च हुतभुग्न जयावहः ॥११५॥
दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा ।
हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥११६॥
होमे वोत्सर्पयेत्पीठं दह्यमानो यदाग्निना ।
भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥११७॥
सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् ।
यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥११८॥
दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् ।
आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥११९॥
हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः ।
वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥१२०॥
सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः ।
कुर्वन्त्युपद्र वं दर्भा दुष्प्रलूनाश्च ये तथा ॥१२१॥
दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च ।
बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥१२२॥
माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् ।
कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥१२३॥
विस्रावीण्युद्धतान्युग्रखण्डितस्फुटितानि च ।
दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥१२४॥
अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते ।
बलौ च शक्रभक्ते च क्षुन्मारः केशभाजि च ॥१२५॥
यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् ।
भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥१२६॥
वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् ।
पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद्बलिम् ॥१२७॥
ध्वजनैरृतदिग्भागे द्विजमुख्यानुपस्थितान् ।
शीलवृत्तयुतान् भूरिगन्धमाल्यैः स्वलङ्कृतान् ॥१२८॥
वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् ।
मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥१२९॥
शुक्लाम्बरान्दर्शनीयान् गौरप्रायान् बलान्वितान् ।
अमुण्डाजटिलाक्लीबादीक्षितान् व्याधिताकृशान् ॥१३०॥
यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा ।
साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥१३१॥
शक्रं ते चाष्टभिः कुम्भैः सुदृढैर्वारिपूरितैः ।
स्वर्चितैरभिषिञ्चेयुर्मूले चाकृष्टमण्डलैः ॥१३२॥
स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः ।
राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥१३३॥
कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् ।
दोषान् जनपदस्यापि दशाहं विषहेत वै ॥१३४॥
सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् ।
ध्वजोच्छ्रायं शुचिर्भूपः सबलः प्रतिपालयेत् ॥१३५॥
सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रि यः ।
कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥१३६॥
ॐ नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा ।
सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः ।
तथा नृपस्य देवेन्द्र जयायोत्तिष्ठ पूजितः ॥१३७॥
स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् ।
कारयेद्देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥१३८॥
स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः ।
पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥१३९॥
सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः ।
हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥१४०॥
गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः ।
हृष्टोत्कृष्टोद्गतध्वानैर्गजस्यन्दनवाजिभिः ॥१४१॥
तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः ।
दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छयेत् ॥१४२॥
यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च ।
नृपक्षिवाहनादीनां निमित्तान्यवलोकयत् ॥१४३॥
कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् ।
चित्रपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥१४४॥
अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम् ।
अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥१४५॥
सममूर्ध्वसमश्लिष्टमनवक्षतमद्रुतम् ।
अविलम्बितविभ्रान्तमृजुमार्गसमुद्गतम् ॥१४६॥
इत्थं शक्रवजोत्थानं कृं राज्ञो जयावहम् ।
पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥१४७॥
यदा शक्रध्वजः प्राचीमुच्छ्रितः प्रतिपद्यते ।
तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥१४८॥
आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः ।
प्रारब्धकार्यनिष्पत्तिरयत्नाच्चोपजायते ॥१४९॥
दक्षिणां दिशमायाते केतने नमुचिद्विषः  ।
तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:22.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

poorly differentiated

  • अल्प विकसित 
RANDOM WORD

Did you know?

मराठीत जुन्या कवींच्या साधारण किती कविता उपलब्ध असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.