TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः - १ ते ५०
अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते ।
लोहं हस्तत्रिभागेन कनीयसम् ॥१॥
व्यंशवृद्धानावेवं स्युराहस्तात्रतवाविधे ।
ह्रस्वमध्योत्तमाख्यानि त्रीणि त्रीण्यकल्पकादिभिः ॥२॥
लिङ्गनामभिः प्रासाद् स्यानुसारतः ।
अतश्च द्विगुणानि स्युवारुणाजानि प्रमाणतः ॥३॥
त्रिगुणान्यस्माज्जातानि मृत्तिकाप्रभवानि च ।
स्वस्य कनिष्ठस्य पदेन परिवर्तनात् ॥४॥
कनिष्ठायाने हीनं च कर्तव्यं लक्षणं बुधैः ।
सप्तमे यदि वा तिर्यग्रज्जलोधसनिभाम् ॥५॥
स्तम्भद्रा तौ दैतकैवलेषा विष्णुवारिता ।
पक्षरेखा विधातव्या लक्षणोद्धरणार्धनी ॥६॥
पक्षक्षेत्रे कृते षोढा त्यक्तार्धांशकरैर्वृता ।
पुत्रार्थिनां पक्षलेखा हिता राद्यपिर्थिनानामपि ॥७॥
अष्टभिर्नवभिर्वास्मिन् भक्ते त्यक्त्वांशकावधः ।
स्यात्पक्षलेखा षड्भिश्च सप्तभिश्चेष्टकामदा ॥८॥
यथा षोडशभिर्भक्ते विहायाधॐऽशकद्वयम् ।
पशुरेखासरैर्नन्दैः स्तर्यैः शक्रैश्च शस्यते ॥९॥
लिङ्गेऽङ्गुलानि यावन्ति यवत्र्यंशैस्तदुन्मितैः ।
लक्षणाद्वारणा कार्यमन्तरं लक्ष्यरेखयोः ॥१०॥
रेखान्तरेषु मांशस्य नर्थाशे पूर्वकसम्मितम् ।
खातं कुर्वीत रेखायां विस्तारं च विचक्षणः ॥११॥
कुर्यान्न लक्षणे द्वारं लिङ्गे लोहेच्चरत्रजे ।
बाणलिङ्गे चले चापि तथातोजाहिलक्षणम् ॥१२॥
पूजांशमेकादशधा भक्त्वोर्ध्वं सर्वतः समाम् ।
तिर्यक् तथैकनवतिं भागानां शिरसो भजेत् ॥१३॥
भवेत्सहस्रं लिङ्गानां सैकमित्यसमैः पदैः ।
सहस्रलिङ्गमित्युक्तं पञ्चाङ्कव्यङ्कमेवता ॥१४॥
अर्था विभागं ववधा लिङ्गे सर्वमे भावयेत् ।
ऊर्ध्वं भागत्रयं त्यक्त्वा भागभागेन कल्पयेत् ॥१५॥
भागेन शकास्य ग्रीवाः कुर्यात्ततः परम् ।
भागद्वयेन स्कन्धांशपणै युग्मपटानि च ॥१६॥
पुष्पसंस्थे च माशासु विहिते चतसृष्वपि ।
चतुर्मुखं भवेल्लिङ्गमर्चितं सर्वकामदम् ॥१७॥
त्रिमुखं तु ललाटानाङ्गान्यंशेन साङ्घ्रिणा ।
पृथक्पृथक् विधेयानि शेषांशात्स्कन्धकल्पना ॥१८॥
एकचक्रे तु साधेन ललाटादीनि कल्पयेत् ।
नवभक्ते त्यजेद् द्वौ द्वौ विभागौ पार्श्वयोर्द्वयोः ॥१९॥
विधिरेष चतुर्वक्त्रे विभक्ते पार्श्वयोर्द्वयोः ।
साधं सार्धं त्यजेद् भूषामेकवक्त्रेर्धशस्य च ॥२०॥
चन्द्रा र्धालङ्कृतं कार्यं कूटाकूटधरं शिरः ।
शिरसो वर्तते कार्या पूर्वप्रोक्तेन वर्त्मना ॥२१॥
एकत्र चातुरो स्यातां विसृते मुखनिर्गमः ।
स्याद्वा विभागै राकेन्द्रि काराख्यैर्यथाक्रमम् ॥२२॥
मुखलिङ्गं न कर्तव्यं लिङ्गात्सर्वसमादृते ।
सर्वेषां मुखलिङ्गानां द्विदलं पीठमिष्यते ॥२३॥
तैज दैर्घ्य जायन्ते त्रयस्त्रिंशत् सहोदितैः ।
लौहानि तद्वद्दारूत्थान्यश्ममृत्प्रभवानि च ।
तेषां यवनवाल्यायान्यान्तराणि च ततोऽपि षट् ।
चतुराद्याश्चतुर्वृद्धा हस्तैः सहस्तपद्धतः ॥२५॥
ये प्रासादा निरन्धारा नवलिङ्गानि तेष्विह ।
पञ्च --- द्वादशाद्येषु साधारेष्वा शतार्धतः ॥२६॥
एकाद्येकोत्तरैहस्तैः शैलजानि प्रचक्षते ।
प्रासादगर्भमानाद्वा पञ्चदशैस्त्रिभिरुत्तमम् ॥२७॥
नवांशैः पञ्चभिर्मध्यं कनीयोऽर्धेन तद्भवेत् ।
प्रभेदैरन्तरस्तेषां यथायोगं त्रिभिस्त्रिभिः ॥२८॥
षडन्यानि भवन्त्येवं नवलिङ्गानि पूर्ववत् ।
तेभ्योऽप्यवान्तरैर्भेदैः प्राग्वत् सत्रिविधैर्युता ॥२९॥
दिशानया दारुजानि --- यल्लोहजानि च ।
दैर्घ्ये षोडशधा भक्ते चतुर्भिः सुरपूजितम् ॥३०॥
लिङ्गं विष्कम्भतो नाद्यं भूतैः स अंशतैः शुभैः ।
भवेत् सर्वसमं षड्भिराद्याख्यं चतुरश्रकम् ॥३१॥
कोणे कर्णार्धसूत्रेण लाञ्छिते शेषलोपमात् ।
अष्टाश्रि स्यात् सप्तभक्ते हानातुणेशयोरन्थ ॥३२॥
गर्भसीमार्धसूत्रेण वर्तनाद् वृत्तनिर्मिता ।
अधोमध्योर्ध्वभागाः स्युश्चतुरश्रादिकाः क्रमात् ॥३३॥
ब्रह्मविष्णुमहेशानां दैर्घ्याल्लिङ्गे समोत्तमाः ।
नमस्तेष्वपि लिङ्गानां थुथुभागतः ॥३४॥
पूनाधेवै विधातव्यौ भागौ ब्रह्मशिवाश्रयौ ।
लिङ्गस्य दैर्घ्यजं पीठे विस्तारोऽसौ विधीयते ॥३५॥
लिङ्गविस्तारतश्चान्यत् पार्श्वपीठे विशिष्यते ।
तत्समो ब्रह्मणो भागात् संप्रदायापहृत्य वा ॥३६॥
रुद्र भागो विधातव्यो ब्रह्मभागेऽपि तद्वशात् ।
एवं कृते परिहृतस्त्वाय दोषो भवेदिह ॥३७॥
कर्तुः करेष्टेतुश्च स्यात् तस्मिन् परिहृते शुभम् ।
ऊर्ध्वं त्र्यंशस्य दानेन वर्तनाद्बालचन्द्र माः ॥३८॥
कुक्कुटाण्डचतुर्यस्य त्रपुसम्भवे तु ।
अष्टमांस्या स तुच्छत्रं दानादर्धस्य वर्तनात् ॥३९॥
कृतेऽष्टांशे चतुर्धास्मिन् भागवृद्ध्या तदुच्यते ।
पुण्डरीकं विशालाख्यं श्रीवत्सं शक्रसर्वनम् ॥४०॥
लिङ्गेषु लक्षणैर्द्वार कर्तव्यः स च कथ्यते ।
रुद्र भागं त्रिधा भक्त्या द्वाभ्यां लक्षणमुद्धरेत् ॥४१॥
शिरोर्धायतो लिङ्गे लक्षणापि तदिष्यते ।
यद्वायताननं षष्ठे कर्तव्यं नवमांशके ॥४२॥
--- वायं --- वाकारपक्षरे विवर्जितम् ।
पार्श्वरेखात्रिभागेन विस्तृतं चतुरश्रकम् ॥४३॥
प्राग्वदष्टास्ति वृत्तं च षडश्रिच्छत्रमस्तकम् ।
शत्रुमर्दनसंज्ञेन च्छत्रेण समलङ्कृतम् ॥४४॥
लिङ्गमिन्द्रा र्चितं शस्तमैन्द्र दिग्विजयार्थिनाम् ।
प्रतिष्ठाप्यमिदं शत्रोर्यद्वा स्तम्भनमिच्छता ॥४५॥
लोकपालैश्चेति कुर्यात् --- त्र्यंशार्धार्धलक्षणम् ।
ऐन्द्रे वज्राभमध्येऽस्य पक्षरेखा विधीयते ॥४६॥
स्वदैर्घ्यदलरुद्रा शैंः! पञ्चभिश्चित्रभावनाम् ।
विस्तृतं चतुरश्रं स्यान्मध्ये वृत्ते च पूर्ववत् ॥४७॥
अश्रिभिः सप्तभिर्युक्तं वृत्तं स्वास्त्रविवर्जितम् ।
प्राग्विस्तारार्धविस्तारि लक्ष्मस्योतमस्तकम् ॥४८॥
यद्वैकादशभिर्भक्ते पक्षयोश्च छिभिस्त्रिभिः ।
लुप्तैरंशैस्तदेवांशेनोच्छ्रितं छत्रमिष्यते ॥४९॥
इदमग्न्यार्चितं लिङ्गं कृत्वाग्नेर्योजयेद्दिशम् ।
चिकीर्षुणारिसन्तापं प्रतिष्ठाप्यमिदं सदा ॥५०॥


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T19:55:43.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अटकळणें

  • अ.क्रि. अडक ( ख ) ळणें पहा . 
  • v i  Conjecture; estimate. Stumble. 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.