संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

चतुःशालविधानं नामैकोनविंशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद्द्विमन्दिरम् ।
यत्र त्रिपञ्चमीषष्ठ्यस्तद्वदन्ति सुदक्षिणम् ॥१०१॥
चतुर्थीपञ्चमीषष्ठ्यो भये स्युस्तन्न वृद्धिकृत् ।
पूर्वाद्वितीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥१०२॥
याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् ।
साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥१०३॥
यत्र स्युर्द्वित्रिसप्तम्यस्तद्वेश्म व्यायतं स्मृतम् ।
यत्राद्या च चतुर्थी च सप्तम्यपि च तद्वियत् ॥१०४॥
द्विचतुःसप्तमीमूषमाप्यं स्याद्दक्षिणामुखम् ।
त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥१०५॥
तच्च याम्यापरमुखं धनधान्यसुखप्रदम् ।
सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्र संज्ञिते ॥१०६॥
मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरिते ।
त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥१०७॥
चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद्घनम् ।
पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥१०८॥
द्वितीयासप्तमीषष्ठ्यो यमिंस्तत्कफसंज्ञितम् ।
द्वारं वारुणमेतस्य हितं च स्याद्द्विजन्मनाम् ॥१०९॥
कर्णं स्यात्पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम् ।
चतुर्थीसप्तमीषष्ठ्यो मूषाः स्युः क्रुष्टसंज्ञिते ॥११०॥
सप्तमीपञ्चमीषष्ठीयुक्तं क्रान्तं यशस्करम् ।
आद्याष्टमी द्वितीया च मूषा प्रोक्ता क्रमागते ॥१११॥
आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः ।
यत्राष्टमी त्रिद्वितीये द्विभयं तदुदाहृतम् ॥११२॥
आद्याष्टमी चतुर्थी च यत्र तच्चक्रसंज्ञितं ।
तुर्याष्टमी द्वितीया च यत्र तन्मलयं विदुः ॥११३॥
तुर्याष्टमी तृतीया च यत्र तत्प्रोक्तमायतम् ।
आद्याष्टमी पञ्चमी च स्याद्यस्मिंस्तद्वनं स्मृतम् ॥११४॥
द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा ।
तद्भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥११५॥
त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्तितम् ।
यत्राष्ठमी तदागारं चतुर्थी पञ्चमी तथा ॥११६॥
यस्मिन्नाद्याष्टमीषष्ठ्यो वीरं तदिह कीर्तितम् ।
षष्ठ्यष्टमी द्वितीया च गृहे व्यायामनामनि ॥११७॥
षष्ठ्यष्टमीतृतीयाभिर्मूषाभिः प्रोक्तमायुतम् ।
षष्ठ्यष्टमीचतुर्थ्यः स्युर्यत्र तद्व्याहृतं विदुः ॥११८॥
षष्ठ्यष्टमीपञ्चमीभिर्दुर्गमं व्याधिकृन्मतम् ।
आद्याष्टमीसप्तमीभिः संयुक्तं क्षोभमुच्यते ॥११९॥
द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम् ।
त्रिसप्तम्यष्टमीभिस्तु मूषाभिः क्षोभणं भवेत् ॥१२०॥
चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम् ।
सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥१२१॥
षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम् ।
इत्युक्तानि त्रिभद्रा णि शस्तान्येतेषु यानि च ॥१२२॥
तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः ।
आद्याश्चतस्रो मूषाः स्युर्यत्र तत्कृतसंज्ञितम् ॥१२३॥
सर्वद्विगुणकृत्पूर्वप्रत्यग्द्वारं नचान्यथा ।
आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥१२४॥
तद्भवेत्पश्चिमद्वारं गृहं सर्वगुणान्वितम् ।
यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥१२५॥
तत्पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् ।
आद्यास्तिस्रस्तथाद्या च यस्मिंस्तद्गृहमुद्गतम् ॥१२६॥
द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा ।
द्व्याद्याश्चतस्रो यत्र स्युस्तन्मिश्रं प्रीतिवर्धनम् ॥१२७॥
प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा ।
आद्यास्तिस्रस्तथा पष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥१२८॥
तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् ।
आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥१२९॥
याम्याप्रत्यङ्मुखं शस्तं विघ्नं नाम कुलर्द्धितम् ।
आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥१३०॥
विपक्षं नाम धाम स्याद्द्वारमस्य च पश्चिमम् ।
द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥१३१॥
स्याद्याम्यपश्चिमद्वारमाहूतं नाम तद्गृहम् ।
आयाद्वितीयापञ्चम्यो यत्र षष्ठी च तद्भवेत् ॥१३२॥
रुचकं नाम याम्यप्रागद्वारं सकलकामदम् ।
एकत्रिपञ्चषष्ठ्यः स्युर्यत्र तद्वर्धमानकम् ॥१३३॥
प्राक्पश्चिमोत्तरद्वारं चातुवर्ण्यस्य वृद्धिदम् ।
यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद्गृहम् ॥१३४॥
स्यात्पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया ।
यस्मिन्नाद्याचतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥१३५॥
गुणैरुपेतं सकलैरुदग्द्वारं निकेतनम् ।
द्विचतुःपञ्चमीषष्ठ्यो यस्मिंस्तच्छलमुच्यते ॥१३६॥
दक्षिणं मुखमेतस्य पश्चिमं वा प्रशस्यते ।
चतसरस्त्र्यादयो यस्मिन्नायास्यं तदुदीरितम् ॥१३७॥
अप्रशस्तं वदन्त्येतत् तद्विदो भवनाधमम् ।
आद्यास्तिस्रः सप्तमी च मूषाः स्युर्यत्र तद्गृहम् ॥१३८॥
त्रिनाभमुत्तरद्वारं शस्तं सर्वगुणान्वितम् ।
आद्याद्वितुर्यासप्तम्यो यत्र तत्स्वस्तिकं स्मृतम् ॥१३९॥
प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्येऽपि शस्यते ।
आद्याचतुर्थीसप्तम्यो मूषाः स्युर्यत्र वेश्मनि ॥१४०॥
तदिह स्थिरमित्युक्तं द्वारं चैतस्य दक्षिणम् ।
द्व्याद्यास्तिस्रः सप्तमी च यत्र तत्सरलं विदुः ॥१४१॥
तद्भवेत्पश्चिमद्वारं सर्वदोषोज्झितं गृहम् ।
यत्राद्या च द्वितीया च पञ्चमी सप्तमी तथा ॥१४२॥
द्विगुणं नाम तद्वेश्म द्वारं चास्य यथेप्सितम् ।
आद्यातृतीयापञ्चम्यः सप्तम्यपि च यत्र तत् ॥१४३॥
नाद्यं नामातिशीलाद्यं प्रशस्तं सर्वदेहिनाम् ।
द्वितीया च तृतीया च पञ्चमी सप्तमी गृहे ॥१४४॥
यत्र तच्चित्रनामेष्टद्वारं चित्रगुणैर्वृतम् ।
आद्यावतुर्थीपञ्चम्यो यत्र स्युः सप्तमी तथा ॥१४५॥
तद्भ्रान्तं नाम पूर्वोदग्द्वारं भवनमृद्धिकृत् ।
यत्र द्वितीया तुर्या च पञ्चमी सप्तमी तथा ॥१४६॥
विधारणं गृहं तत्स्यात्सर्वकामविवर्धनम् ।
तृतीया यत्र तुर्या च पञ्चमी सप्तमी तथा ॥१४७॥
तत्साधारणमित्याहुः सर्वद्वारं सुखावहम् ।
आद्या द्वितीया षष्ठी च सप्तमी यत्र तन्नतम् ॥१४८॥
आद्या द्वितीया षष्ठी च त्र्यंशे स्यात्सप्तमी तथा ।
द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥१४९॥
आद्या तुर्या च षष्ठी च रोगे स्यात्सप्तमी तथा ।
यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी च तत् ॥१५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP