TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

आयादिनिर्णयो नाम षड्विंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


आयादिनिर्णयो नाम षड्विंशोऽध्यायः - १ ते ५०
इदानीमभिधास्यामः सूत्रपातविधेः क्रमम् ।
शस्ते मासि सिते पक्षे विदध्यात्तं शुभेऽहनि ॥१॥
चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः ।
ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥२॥
श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद्गृहे ।
कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्त्तिके ॥३॥
मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः ।
माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा ॥४॥
द्वितीया पञ्चमी मुख्या सप्तमी नवमी तथा ।
एकादशीत्रयोदश्यस्तिथयः स्युः शुभावहाः ॥५॥
चन्द्र ताराबलं भर्तुरनुकूलं च शस्यते ।
इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि ॥६॥
कार्या पुरनिवेशे च प्रारम्भे भवनस्य च ।
शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च ॥७॥
आद्रि येत सिते पक्षे शोभने लग्न एव हि ।
रवौ कन्यातुलालिस्थे गृहं वरुणदिङ्मुखम् ॥८॥
न कुर्यात्तद्धि शून्यं स्यान्न च वृद्धिर्भवेत्प्रभोः ।
न दक्षिणमुखं कुम्भमृगधन्विस्थिते रवौ ॥९॥
कुर्वीत निष्फलं तत्स्यान्नृपदण्डवधादिकृत् ।
न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ ॥१०॥
तद्धनघ्नं कलिक्षुद्र राजचौरार्तिकृद्यतः ।
रवौ मिथुनसिंहस्थे न कर्किस्थेऽप्युदङ्मुखम् ॥११॥
कुर्यात्तद्धि दरिद्र त्वं दद्याच्चरणदासताम् ।
आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ॥१२॥
गृहमानवशात्सम्यक्कर्तुः स्थानबलाबलम् ।
नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ॥१३॥
तदलाभे करैः कार्यं सम्यगायविशुद्धये ।
यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ॥१४॥
क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिहाङ्गुलैः ।
अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ॥१५॥
पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः ।
गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ॥१६॥
देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् ।
दैर्घ्यं हन्यात्पृथुत्वेन हरेद्भागं ततोऽष्टभिः ॥१७॥
यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् ।
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ॥१८॥
ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् ।
अन्योन्याभ्हिमुखास्ते च कामं स्वच्छन्दचारिणः ॥१९॥
पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ।
वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ॥२०॥
ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ।
कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ॥२१॥
गजे भद्रा णि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ।
वृषस्थाने गजं कुर्यात्सिंहं वृषभहस्तिनोः ॥२२॥
न कुर्याद्वृषमन्यत्र शस्यते सर्वतो ध्वजः ।
कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥२३॥
क्षत्त्रियस्य गजः शस्तो वृषभः शस्यते विशः ।
शूद्र स्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥२४॥
एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः ।
प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ॥२५॥
चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु ।
सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥२६॥
सार्यश्वगजपर्याणेष्विभं वृषभमेव च ।
अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ॥२७॥
याने च वाहने चैव मतिमान् योजयेद्गजम् ।
प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ॥२८॥
कुण्डेषु च ध्वजं दद्याद्देवोपकरणेषु च ।
आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ॥२९॥
महानसे वृषं दद्याज्जलाधारे जलाशये ।
स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥३०॥
एतद्गृहे तथा दद्याद्गृहोपकरणेषु च ।
वृषभं गजशालायां प्रदद्याद्गजमेव वा ॥३१॥
वृषं तुरगशालासु गोशालागोकुलेषु च ।
गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ॥३२॥
अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः ।
धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ॥३३॥
स्वगणानां श्वपाकानां स्ववेश्मानां खरः शुभः ।
नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥३४॥
कुलालरजकादीनां तथा गर्दभजीविनाम् ।
गृहादिषु क्षेत्रफलं गणयेदष्टभिर्भजेत् ॥३५॥
त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः ।
पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥३६॥
साम्याधिक्यन्यूनताभिरायतः स्याद्यथाक्रमम् ।
व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥३७॥
भागं त्रिभिर्हरेत्तत्र यच्छेषं सॐऽशको भवेत् ।
चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥३८॥
तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् ।
इन्द्रो यमश्च राजा च त्रयो नामाभिरंशकाः ॥३९॥
स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च ।
गणयेत्स्वामिनक्षत्राद्यावत्स्याद्भवनस्य भम् ॥४०॥
नवभिर्भाजिते तस्मिञ्शेषं तारा प्रकीर्तिता ।
जन्मसम्पद्विपत्क्षेमपापसाधकनैधनीः ॥४१॥
मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले ।
त्रिसप्तपञ्चमीर्भर्तुर्गृहतारा विवर्जयेत् ॥४२॥
आद्याद्वितीयाष्टम्यस्तु ताराः स्युरिह मध्यमाः ।
तथा ऋक्षेऽपि चानिष्टे चन्द्रे ऽष्टमगतेऽपि च ॥४३॥
नयते दुरितं तारा चतुःषण्णवती नृणाम् ।
सुरराक्षसमर्त्याख्या ऋक्षाणां स्युर्गणास्त्रयः ॥४४॥
यद्गणर्क्षो भवेद्भर्ता तद्गणर्क्षं गृहं शुभम् ।
मृगाश्विरेवतीस्वात्यो मैत्रं पुष्यपुनर्वसू ॥४५॥
हस्तः श्रवण इत्येष देवाख्यो नवको गणः ।
विशाखा कृत्तिकाश्लेषा नैऋतं वारुणं मघा ॥४६॥
चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः ।
आर्द्राभरण्यौ रोहिण्यौ तिस्रः पूर्वास्तथोत्तराः ॥४७॥
इति नक्षत्रनवकं विज्ञेयं मानुषे गणे ।
गणसाम्यं शुभा तारा यस्यायातृ व्ययोऽल्पकः ॥४८॥
हितॐऽशकश्च तद्वेश्म भर्तुः शुभफलप्रदम् ।
आयो व्ययश्च योनित्वं ताराश्च भवनांशकाः ॥४९॥
गृहनामेति चिन्त्यानि करणानि गृहस्य षट् ।
त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T19:47:20.1100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gamma function

  • गामा फल 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site