TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - १०१ ते १५०
तदा पयोधरा नेत्रा शालाभ्यामग्रपृष्ठयोः ।
नेत्राद्याश्चेत्यरशालास्यातां तु काया ॥१०१॥
पौरस्त्ययोरुभयोः साम्नमूत्कन्दो भागनिर्गतः ।
भागमन्तः प्रविष्टश्च विभाज्यः सोऽपि पूर्ववत् ॥१०२॥
शालयोः स्यांतमोमानभ्रमयोरपि पूर्ववत् ।
पार्श्वयोर्भ्रामण्यं चागौ द्वे च चेन्मूलशालायाः ॥१०३॥
शेषं तु पूर्ववत्सर्वदोर्दण्डा प्रासादाः प्रकीर्तिताः ।
दोर्दण्डयोस्तु पार्श्वेऽपि शालासुश्लिष्टकर्णयोः ॥१०४॥
राक्षसानिलयोः शाले कुर्यादाखण्डला भवेत् ।
अखण्डालायास्तु यदा पश्चाच्छाला विधीयते ॥१०५॥
पयो यं सरयोनि इव वच्छिदेति जगती भवेत् ।
शिवायं वारुणी यद्वा शालात्रयविभूषिता ॥१०६॥
शुण्डिकारालय मचेन्माहेन्द्री वंपका तदा ।
कोकैणेषु यमेलायासाद्यदा शालाचतुष्टय ॥१०७॥
भद्र त्रयोऽपि तिस्रस्ताः पूर्वभद्र ममालकम् ।
ये कर्ण व---कन्दाः स्युः सार्धद्व्यंशविनिर्गतः ॥१०८॥
चतुर्भिस्तेषु भक्तेषु शाला भागद्वयं भवेत् ।
भागं भागं भ्रमण्यः स्युः कर्णशाला इमा बहिः ॥१०९॥
त्रिनिष्क्रान्ता सृविस्तीर्णा भद्र कन्दास्थिते बहिः ।
चतुर्भित्त्येषुतैः शाला स्युरार्धो भ्रमस्तथा ॥११०॥
पदार्धसंमितः कुष्टौ जलमार्गो विधीयते ।
पृष्ठसाधोसिकास्तस्या द्वै कुलामोदिकाष्टमा ॥१११॥
भागार्धयलमाला--द्वितयशालिना ।
पृष्ठभद्रे ण जगतीतिलकाले केचिस्तुता ॥११२॥
एतस्यां शुण्डिकायां स्याच्छाला चेन्मुखभूषणम् ।
असौ --- पल्लवा नाम जगती जायते तदा ॥११३॥
तिलका गण्डकण्डेषु शाले द्वे भवतो यदा ।
तेदा सिद्धार्थसंमुखां तदा विद्याधरी भवेत् ॥११४॥
त्रिविस्तृतं द्विनिष्क्रान्तं पृष्ठशालातलं यदि ।
विद्याधर्याः पृष्ठभद्रे तदा यक्षं विनिर्दिशेत् ॥११५॥
षड्भागविस्तृते क्षेत्रे दशभागकृतायते ।
द्विभागायामविस्तारं कुर्याच्छालात्रयं बुधः ॥११६॥
तदग्रे तत्समं कुर्यान्मण्डपा अधिवाधिकात् ।
यथाकामं प्रकुर्वीत कर्मशोभाविभूतये ॥११७॥
---भागं भ्रमं कुर्यात्तासां पार्श्वचतुष्टये ।
विशेषकरणायंच शालानां मध्यमैरपि ॥११८॥
मत्तवारणसंयुक्ताः सुण्डिकागण्डमण्डिताः ।
इयं त्रिकूटा जगती ख्याता तृपुषपूर्या ॥११९॥
त्रिकूटा पूर्ववंशस्था त्रिभागायामविस्तृता ।
विदध्यात्सवमां शालां प्राग्वत्स्याच्चित्रकूटिका ॥१२०॥
यथा पृष्ठे तथाग्रेऽपि यदि शाला विधीयते ।
तदा सरनिकूटीति विज्ञेया जगती बुधैः ॥१२१॥
युक्ता प्राणास्य लाभ्यामग्रशालाविवर्जिता ।
उपमेवाजोत्तमा सा जगती विश्रुता भुवि ॥१२२॥
नैरृतानलवाय्वीशकर्णप्रासादकैर्युता ।
त्रिकूटैर्भवेन्नन्दै विभक्तषडला यथा ॥१२३॥
चित्रकूटा क्रमानर्यां द्विभजनं पूर्विविकूटवद् विचक्षणः ।
त्रिकूटायामतो रूपे सिद्धिद्व्यायामविस्तृतम् ॥१२४४॥
कर्णे कर्णे कृतं कन्दं चतुर्धा प्रविभाजयेत् ।
भागद्वयेन शाला स्याद्भागेन भ्रमणं तथा ॥१२५॥
मूलतार्धविस्तारं भवतच्चेह मानतः ।
याम्योत्तरे चतुर्भागविस्तार भागं निर्गताम् ॥१२६॥
--- भद्रं भागिकद्वयान्वितम् ।
शेषं तु भ्रमणं तत्र मध्यपार्श्वेषु कारयेत् ॥१२७॥
एवमग्रेऽपि शाले द्वे द्वारस्योभयपार्श्वयोः ।
कर्तव्ये भागनिष्क्रान्ते भागिकायामविस्तृती ॥१२८॥
पृष्ठभद्रं च कर्तव्यं सार्धांशद्वयविस्तृतम् ।
द्विभागनिर्गमं युक्तं शालया सार्धभागया ॥१२९॥
याम्योत्तरेण चास्यैव कार्यं शालाद्वयं ततः ।
प्रमाणे पसन्नकार्ये भागे प्रवेशनम् ॥१३०॥
शेषो भ्रमः स्याच्छालानां सप्तानां मध्यगस्ततः ।
स्याच्छैवी श्रयणी त्वेषा सर्वामरगणप्रिया ॥१३१॥
अस्या एव मुखे शाला यदा सञ्जायते तदा ।
त्रिविक्रमेति विख्याता जगती जायते शुभा ॥१३२॥
यदा सार्धविनिष्क्रान्ते सार्धांशद्वयविस्तृते ।
पार्श्वभद्र द्वये शाले भवेतां भागविस्तृते ॥१३३॥
--- साधभागिकं भ्रमणान्विते ।
लिप्यते चापि मा शाला क्रमायाता तदा भवेत् ॥१३४॥
शालायाः शुण्डिकाग्रे तु त्रिपथा सैव जायते ।
चतुर्यातो प्रोक्ता कथ्यन्ते वृत्तजातयः ॥१३५॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
मध्ये देवगृहं वृत्तं सार्धांशायामविस्तृति ॥१३६॥
भ्रमयेज्जगतीवृत्तं समगां भागिकं ततः ।
पूर्वोक्तविधिना कार्यं पार्श्वतो मत्तवारणम् ॥१३७॥
गोपुरद्वारशोभाढ्या जगती वलया भवेत् ।
वलयापृष्ठतः कन्दं मूलशालासमायतम् ॥१३८॥
पूर्वोक्तविधिना भक्तां शालां कुर्यात्तदर्धतः ।
कलशेयं समाख्याता जगती कलशाकृतिः ॥१३९॥
कर्णस्थं द्विपदायामं कर्णशालाचतुष्टयम् ।
चतुरश्रं भवेद्यत्र शातार्म्ये--- भिधीयते ॥१४०॥
सप्तभागायते क्षेत्रे चतुरश्रे समन्ततः ।
भागांस्त्रीन्वर्जयेदग्रे चतुरः पृव्यन्तरश्चतान् ॥१४१॥
सार्धांस्त्रीन्पार्श्वयोर्भागांस्त्यक्त्वा गर्भततोकयेत् ।
द्विभागायामविस्तारं वृत्तं स्याद्देवमन्दिरम् ॥१४२॥
भागमेकं भ्रमस्तस्य विधातव्यः समन्ततः ।
भ्रमण्याः पृष्ठतः कन्दो भागायामविभूषितः ॥१४३॥
तस्यार्धेन भवेच्छाला तदर्धेन परिक्रमः ।
गर्भाद्भागद्वयस्यान्त ईशानानलयोर्दिशोः ॥१४४॥
द्विभागौ भवतः कन्दावर्धभागप्रवेशितौ ।
पृष्ठशालोर्ध्वगे तिर्यक्सूत्रेण दत्ते भ्रमान्तिके ॥१४५॥
कर्णिकाद्वितयं कार्यं राक्षसानिलयोर्दिशोः ।
व्ययशालां च कुर्वीत पृष्ठशालासमां ततः ॥१४६॥
प्राक्पश्चात् कन्दगर्भस्था सूत्रद्वितययोगतः ।
कुर्वीत कर्णिकां तीक्ष्णां पार्श्वयोरुभयोरपि ॥१४७॥
शेषा भ पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत् ।
यदागभी करवीरेयमीशादित्रिदशप्रिया ॥१४८॥
एतस्या एव पृष्ठस्था यदा सन्त्यष्ट कर्णिकाः ।
वामशाले विधीयेते नलिनीति तदा भवेत् ॥१४९॥
दत्तंशस्य सालिख्यात्तद्यौ दृशभिः पदैः ।
सूत्राणि पातयेत्तस्य ततो दिक्षु विदिक्षु च ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T19:52:32.7630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अस्ल

  • वि. अस्सल पहा . 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.