TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २२०

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १५१ ते २२०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १५१ ते २२०
पट्टिका पद्मपूर्वा च विधातव्या स्तरं स्तरम् ।
कुर्वीत घण्टामुपरि चतुर्भागां विचक्षणः ॥१५१॥
तदर्धमूर्ध्वतः कुम्भं छेदमर्धेन तस्य च ।
जङ्घा षड्भागिका कार्या मात्ता गेन सुन कारयेन ॥१५२॥
लशुनं भरणं कुम्भं गण्डमुच्छालवाडके ।
हीरकं चेति कुर्वीत भागिकानि पृथक्पृथक् ॥१५३॥
सार्धभागं भवेत्पट्टः पट्टिकार्धस्तरोच्छ्रिता ।
वसन्तं भागमेकं स्याद्वसन्ताख्या च पट्टिका ॥१५४॥
कपोतं त्रिस्तरं कुर्याच्छेदं त्र्यंशोनशंसकाम् ।
मण्डको मकरश्चैव पट्टिका छेदकण्ठकौ ॥१५५॥
कण्ठं पट्टी च वेदी च च्छेदश्च स्यात्स्तरं स्तरम् ।
द्वितीयो द्विस्तरः कण्ठो भागिकी पट्टिका भवेत् ॥१५६॥
तथैव पद्मंज्ञा च स्यादुच्छ्रायेण पट्टिका ।
घण्टां कुर्याच्चतुर्भागां कुम्भमर्धेन तस्य च ॥१५७॥
छेदमेकेन भागेन जङ्घाम --- र्धभागिकीम् ।
मालामेकेन भागेन लशुनं सार्धभागिकम् ॥१५८॥
तथैव भरणं कुर्यात्कुम्भोच्छाले स्तरं स्तरम् ।
हीरकं भागिकं कुर्यात्पट्टं सार्धस्तरं ततः ॥१५९॥
पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः ।
कपोतं द्विस्तरं कुर्याद्वेदीमर्धस्तरं तथा ॥१६०॥
यथा छेदस्तथा मण्डो मकरश्च विधीयते ।
पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥१६१॥
भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी ।
छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥१६२॥
पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम् ।
तुङ्गस्य चलनं कार्यं द्विभागिकमनन्तरम् ॥१६३॥
घण्टा कार्या समुत्सेधात् त्रयस्त्रिंशद्विभागिकी ।
सर्वतोभद्र संयुक्ता चन्द्र शालाविभूषिता ॥१६४॥
कुर्वीत त्रिस्तरं पद्मं चित्रपत्रसमन्वितम् ।
तस्योपरि भवेत्कुम्भश्चतुर्दशविभागिकः ॥१६५॥
ग्रीवा द्विभागिका कार्या कर्णश्चैव तथाविधः ।
बीजपूरं ततः कार्यां साभासंयुक्तमर्धतः ॥१६६॥
पद्मचक्रं त्रिशूलं वा विधातव्यं यथोचितम् ।
प्रोत्तुङ्गग्राससंयुक्तं --- मकरमेढकैः ॥१६७॥
सोत्तुङ्गकूटाके कुर्यादेवं दिक्षु विदिक्षु च ।
भूमौ भूमौ विधातव्या शाला साध्यलतोरणम् ॥१६८॥
कोणे कोणे च --- करा भद्रे करिक्यकरानपि ।
--- कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥१६९॥
कुर्वीत सर्वतोभद्र मेवंलक्षणलक्षितम् ।
एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥१७०॥
सर्वतोभद्र इत्येते समारभ्यैकभूमिकान् ।
पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः ॥१७१॥
एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः ।
पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥१७२॥
षड्भूमिकादिको ब्रूमो यावद्द्वादशभूमिकम् ।
पञ्चभूमिकः ।
अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥१७३॥
चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते ।
पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥१७४॥
जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम् ।
कूटप्रस्तारमस्याहुः सोर्धहस्तोच्छ्रितं बुधाः ॥१७५॥
जङ्घा द्वितीया तु भवेत्तस्य हस्तचतुष्टयम् ।
द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥१७६॥
घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता ।
तृतीयकूटप्रस्तारं कुर्याद्भूयोऽपि पूर्ववत् ॥१७७॥
जङ्घा भवेच्चतुर्थी स सार्धां त्रे करत्रयम् ।
पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥१७८॥
हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी ।
कूटप्रस्तारकं कुर्यात्सार्धहस्तोच्छ्रितं ततः ॥१७९॥
षष्ठीहस्तत्रयं जङ्घा पादहीनं विधीयते ।
प्राग्वत्प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम् ॥१८०॥
तस्योपरि भवेद्घण्टा हस्तपञ्चकमुच्छ्रिता ।
कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥१८१॥
कुर्याद्भागैकविंशत्या कुम्भमाद्भरणैतम् ।
षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥१८२॥
षड्भूमिकः ।
पञ्चत्रिंशत्करः प्रोक्तो विस्तारात्सप्तभूमिकः ।
सार्धात्तेकान्नपञ्चाशत्कर्ण नित्योर्च्छ्रिता करात् ॥१८३॥
त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता ।
सार्धहस्तोच्छ्रितः कूटप्रस्तारोऽस्य विधीयते ॥१८४॥
द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायश्चतुष्करः ।
सार्धहस्तसमुत्सेधः कूटविप्रस्तार इष्यते ॥१८५॥
साधहस्तोच्छ्रिता वेदी जङ्घा सार्धकरत्रयम् ।
सार्धहस्तोच्छ्रितः कूट प्रस्तारः परिकीर्तितः ॥१८६॥
सपादहस्ता वेदी स्याज्जङ्घा त्र्यंशं करत्रयम् ।
सार्धहस्तस्तु कूटस्य प्रस्तारः स्यात्समुच्छ्रयात् ॥१८७॥
हस्तं स्याद्वेदिकाबन्धो जङ्घांशो हि करद्वयम् ।
सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ॥१८८॥
पादोनद्विकरा जङ्घा कूटं पादयुतः करः ।
हस्तमात्रोच्छ्रिता वेदी जङ्घा सार्धकरोच्छ्रिता ॥१८९॥
कूटप्रस्तारको हस्तं कपोतः स्यात्करत्रयम् ।
सपद्मशीर्षघण्टा तु सार्धं स्याद्धस्तपञ्चकम् ॥१९०॥
एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः ।
सप्तभूमिकः ।
अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ॥१९१॥
चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत् ।
उच्छ्रायः सप्तपञ्चाशत्कराः स्युस्त्रिंशवर्जिताः ॥१९२॥
नवहस्तान् प्रकुर्वीत सार्धान्प्रथमभूमिकाम् ।
द्वितीयाष्टौ सपादोर्धास्तृतीयाष्टौ करान् भवेत् ॥१९३॥
चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत् ।
पञ्चहस्ता ततः षष्ठी चतुर्हस्ता तु सप्तमी ॥१९४॥
ततोऽष्टमी त्रिहस्ता स्याद्वेदीबन्धः करद्वयम् ।
घण्टां चतुष्करां कुर्यादेवं स्यादष्टाभूमिकः ॥१९५॥
अष्टभूमिकः ।
अथोच्यते हस्तमानात्प्रासादो नवभूमिकः ।
विस्तारादेकपञ्चाशदुच्छ्रित्या स्याद्द्विसप्ततिः ॥१९६॥
कर्णप्रमाणं तस्योक्ता विस्तारोऽस्य चनुच्छ्रितिः ।
पञ्चहस्ता भवेद्घण्टा वेदिबन्धस्तदर्धतः ॥१९७॥
कुर्याद्धस्तत्रयं सार्धं नवमीमस्य भूमिकाम् ।
अष्टमीं चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥१९८॥
षष्ठीं षट् पादहीनांश्च सपादोनाम पञ्चमीम् ।
अष्टौ चतुर्थी पादोनान् हस्तात्राच तृतीयकाम् ॥१९९॥
विलोमेनैककथितः प्रासादो नवभूमिकः ।
नवभूमिकः ।
इदानीमभिधास्यामः प्रासादं दशभूमिकम् ॥२००॥
एकोनाशीतिरुत्सेधः सपादा विस्तृतिः पुनः ।
षट्पश्चाशत्कराः कर्णमानाद्ब्रूमोऽथ भागशः ॥२०१॥
एकादशकरोत्सेधा काया प्रथमभूमिका ।
सार्धान् दश द्वितीया स्यात्तृतीया तु करान् दश ॥२०२॥
सार्धानष्टौ चतुर्थी तु सप्तसार्धस्व पञ्चमी ।
षष्ठी सप्तकरा प्रोक्ता सप्तमी षट्करा भवेत् ॥२०३॥
पञ्चहस्ताष्टामी ज्ञेया नवमी तु चतुष्करा ।
त्रिहस्ता दशमी कार्या वेदी सांशं करद्वयम् ॥२०४॥
--- प्रमाणेन सार्धं करचतुष्टयम् ।
एवमेष समुद्दिष्टो विन्यासो दशभूमिके ॥२०५॥
दशभूमिकः प्रासादः ।
ब्रूमः समासादभीथैकादशभूमिकम् ।
पञ्चषष्टिकरः कार्यो द्विनवत्युच्छ्रितश्च सः ॥२०६॥
कर्णमानेन विज्ञेयः प्रासादः शास्त्रवेदिभिः ।
प्रथमा भूमिका तस्य चतुर्दशकरा भवेत् ॥२०७॥
द्वितीया द्वादशार्धं च तृतीयैकाडशोच्छ्रिता ।
नव सार्धांश्चतुर्थी स्यात्सपादानष्ट पञ्चमी ॥२०८॥
सप्तहस्ता भवेत्षष्ठी षड्ढस्ता सप्तमी ततः ।
पञ्चहस्ताष्टमी सार्धांश्चतुरो नवमी करान् ॥२०९॥
चतुर्हस्ता तु दशमी सार्धमेकादशी त्रयम् ।
सपादद्विकरा वेदी घण्टा सार्धचतुष्करा ॥२१०॥
प्रासादः कथितः सम्यगित्येकादशभूमिकः ।
एकादशभूमिकः ।
ब्रूमो द्वादशभौमं स सप्तषष्टिकरायतः ॥२११॥
उच्छ्रायात्पञ्चनवतिहस्तः स्यात्कर्णमानतः ।
आद्या चतुर्दशकरा भूमिकास्य विधीयते ॥२१२॥
द्वितीयैकादशकरान् तृतीयार्धयुतान् दश ।
दश हस्तांश्चतुर्थी स्यादष्टौ सार्धांस्तु पञ्चमी ॥२१३॥
सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी ।
अष्टमी षट्करा पञ्चहस्ता तु नवमी भवेत् ॥२१४॥
दशमी स्याच्चतुर्हस्ता त्रिहस्तैकादशी क्षितिः ।
द्वादशी द्वौ करौ सार्धौ वेदीबन्धः करद्वयम् ॥२१५॥
चतुर्हस्ता भवेद्घण्टा सर्वालङ्कारभूषिता ।
स्तम्भकर्णस्य मानेन कुम्भं कुर्याद्विचक्षणः ॥२१६॥
उच्छालं द्विगुणं स्तम्भात् हीरसार्धसङ्गुणाम् ।
इत्येते द्रा विडाः सम्यक्प्रासादा द्वादशोदिताः ॥२१७॥
एषां पद्ममहापद्मस्वस्तिका वर्धमानकः ।
सर्वतोभद्र लतास्तलबन्धान्निवेशयेत् ॥२१८॥
आरभ्यन्तामरेकस्या च द्वादशभूमिकात् ।
ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥२१९॥
द्वादशभूमिकः ।
पीठमूलच्छन्दकभूमिकाभि-
र्विनिर्मिता द्रा विडनामधेयाः ।
प्रासादमुख्याः कथिता यथा यथा-
वेत्यं स्वल्पिविभिरुच्यतेऽसौ ॥२२०॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे द्रा विडप्रासादाध्यायो नाम द्विषष्टितमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:10:21.7430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुतरा

  • n. श्र्वफल्क राजा की कन्याओं में से एक । 
RANDOM WORD

Did you know?

मृत व्यक्तिचे वेगवेगळ्या धर्मात वेगवेगळ्या दिवशी संस्कार कसे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site