TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २००

यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १५१ ते २००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १५१ ते २००
तस्योपरि मध्यगता प्राङ्गणवापी दृढा विधातव्या ।
शतपत्रविहितभूषा तन्मध्ये कर्णिका कार्या ॥१५१॥
तत्कोणेषु चतुर्ष्वपि रमणीया दारुदारिकाः कार्याः ।
मध्याम्बुजनिहितदृशः सालङ्काराः सशृङ्गाराः ॥१५२॥
पूर्वोक्तयन्त्रयोगात्पद्मासीने वसुन्धराधिपतौ ।
भृङ्गारामलवारिभिरङ्गणवापीं भ्रियाच्च ततः ॥१५३॥
तामिति भृत्वा वापीं तत्सलिलं तदनुपट्टगर्भगतम् ।
छाद्यस्तु गन्धरोध्रेष्वति रोहति सर्वतो नियतम् ॥१५४॥
मुखपट्टसमुत्कीर्णै रूपैश्चित्रैर्मनोरमैरखिलैः ।
अङ्गैर्वारि विमुञ्चति नासास्यश्रवणनेत्राद्यैः ॥१५५॥
प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं  ।
स्थितिं धत्ते यस्य क्षितिपतिलकस्याङ्गणभुवि  ।
करोत्येतद्वेत्थं स्थपतिरपि बुद्ध्या चतुरया ।
जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥१५६॥
चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा ।
गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥१५७॥
विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम् ।
विदधीत चारुरूपैः प्रवर्षकैर्व्याप्तमुपरिष्टात् ॥१५८॥
चित्राध्यायोदितवर्त्मना ततोऽलङ्कृतं च चित्रेण ।
तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥१५९॥
ऊर्ध्वविनिर्गमिताब्जैर्नालैस्तत्पट्टकन्दकोद्भूतैः ।
सच्छिद्र कर्णिकागतदिनकरकरनिर्मितोद्द्योतम् ॥१६०॥
आपूरयेत्ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम् ।
विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥१६१॥
नानारूपकयुक्त्याउपरचिततमङ्गतोरणद्वारम् ।
शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥१६२॥
कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम् ।
कुर्यादम्भोजवतीं वापीमाहार्ययोगेन ॥१६३॥
सामन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र ।
परराष्ट्रागतदूतास्तिष्टेयुर्निहितमिह निभृताः ॥१६४॥
अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम् ।
दृष्ट्वा मुदितः कुर्यात्पर्यङ्कारोहणं नृपतिः ॥१६५॥
तत्र स्थितस्य नृपतेः परिवारितस्य ।
वाराङ्गनाभिरभितो जलमग्नधाम्नि ।
पातालसद्मनि यथा भुजगेश्वरस्य ।
निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥१६६॥
पूर्वोक्तवापिकायां मध्ये स्तम्भैश्चतुर्भिरूपरचितम् ।
मुक्ताप्रवालयुक्तं पुष्पकमथ कारयेल्लटभम् ॥१६७॥
वापीं परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम् ।
गर्भस्वस्तिकभित्तिभिरूपहितशोभं समन्ततः कुर्यात् ॥१६८॥
पूर्वोक्तवारियोगात्पूर्णामाकर्णतो विधायैताम् ।
जलकलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥१६९॥
कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः ।
तद्भित्त्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ॥१७०॥
एकत्र मग्नैरपत्र दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः ।
क्रीडत्यलं केलिकरैः सहायैनृपः सुखं मज्जनपुष्करिण्याम् ॥१७१॥
वापीतलस्थितमथ त्रपयावनम्र- ।
माच्छादितस्तनभरं करपल्लवेन ।
गाढावसक्तवसनं जलरोधमुक्ता- ।
वालोकते प्रणयिनीजनमत्र धन्यः ॥१७२॥
रथदोलादिविधानं दारवमभिदध्महे वयं सम्यक् ।
यन्त्रभ्रमणककर्म प्रकीर्तितं पञ्चमं यत्तत् ॥१७३॥
तत्र वसन्तः प्रथमो मदननिवासो वसन्ततिलकश्च ।
विभ्रमकस्त्रिपुराख्यः पञ्चैते दोलकाः कथिताः ॥१७४॥
निखनेच्चतुरः स्तम्भान् समैकसूत्रोपगान् ऋजून् सुदृढान् ।
सदृशान्तरान् धरित्रीवशतः सुश्लिक्ष्णपीठगतान् ॥१७५॥
प्रासादस्योक्तदिशि प्रविदध्याद्विरचिताष्टकरदैर्घ्यम् ।
भूमिगृहं रमणीयं तदर्धतो विहितगाम्भीर्यम् ॥१७६॥
तद्गर्भतले स्तम्भो लोहमयाधारसंस्थितः कार्यः ।
भ्रमसहितः पीठयुतो ग्रस्तश्चच्छादकतुलाभिः ॥१७७॥
संस्थाप्योपरि पीठस्य कुम्भिकामतिदृढां विभक्तां च ।
धनुरुच्छ्रितैस्ततोऽमूमष्टभिरावृष्टयेद् भद्रैः ॥१७८॥
स्वेच्छमथ भूमिकोच्छ्रयमस्योर्ध्वे कल्प्लयेन्नितान्तमृजुम् ।
निदधीत वेष्टनोर्ध्वे पट्टयुतं स्तम्भशीर्षं च ॥१७९॥
हीरग्रहपर्यन्तं मदला गजशीर्षिका विधातव्या ।
सुदृढा प्रयत्नरचिता मनोभिरामा यथाशोभम् ॥१८०॥
पट्टस्योपरि काया चतुष्किका क्षेत्रमानतोऽभीष्टात् ।
तस्यामुपरि विधेयस्तलबन्धो दृढतरन्यासः ॥१८१॥
स्तम्भैर्द्वाडशभिरथ क्षेत्रे युक्त्या समुच्छ्रितैर्भव्यैः ।
रूपवतीकोणस्थितिरधिका भूः प्रथमिका कार्या ॥१८२॥
मध्ये भ्रमश्च तस्या गर्भस्तम्भप्रतिष्ठितः कार्यः ।
क्षेत्रप्रमाणवशतस्तां पश्चाच्छादयेत्पट्टैः ॥१८३॥
रथिकाशिखाग्रकेषु च फलकामरणस्य तद्वदुपरिष्टात् ।
भ्रमचक्राणि न्यस्येन्मध्ये स्तम्भे च पञ्चैव ॥१८४॥
अत उपरि यथाशोभं हि भूमिका पुष्पकाकृतिः कार्या ।
मध्यस्तम्भाधारा कृतकलशविभूषणा शिरसि ॥१८५॥
स्तम्भेऽवस्ताद् भ्रमि ते भृशं भ्रमत्यर्थभूमिका तत्र ।
रथिकाभ्रमरकयुक्ता परस्परं चक्रयन्त्रेण ॥१८६॥
वसन्तरथिकाभ्रमे समधिरूढवाराङ्गना- ।
परिभ्रमणसम्भृताभ्यधिकविभ्रमं भूपतिः ।
करोति नयनोत्सवस्त्रिदशधाम्नि यत्कीर्तनं ।
वसन्तसमये भवत्यमलकीर्त्तिधामैव सः ॥१८७॥
आरोप्य स्थिरमेकं स्तम्भं भूमीगृहादिरहितमथ ।
हस्तचतुष्कोच्छ्राया कार्योपरि भूमिका चास्य ॥१८८॥
मध्ये भ्रमरकयुक्तं शेषं पूर्ववदिहाचरेदखिलम् ।
पुष्पकमपि च स्तम्भे शिथिलं कलशोच्छ्रितं कुर्यात् ॥१८९॥
तस्योपरि च ग्रीवा चतुरासनसंयुता विधातव्या ।
घण्टास्तम्भौ कार्यौ स्तम्भेन महाबलौ तत्र ॥१९०॥
एवं पुष्पकभूमिकान्तरलस्थायी निगूढो जनो ।
यावद् भ्रामकयन्त्रचक्रनिकरं सम्यक् क्रमाचालयेत् ।
तावत्ता रथिकासना मृगदृशस्तत्र स्थिताः पुष्पके ।
कामावासकुतूहलार्पितदृशो भ्राम्यन्ति सर्वा अपि ॥१९२॥
अथ कोणगतान् स्तम्भांश्चतुरो विनिवेशयद् क्रजून् सुदृढान् ।
सुश्लिष्टपीठसंस्थान् समान्तरान् मेदिनीवशतः ॥१९२॥
तेषामुपरि लतान्तरसंयुक्ता भूमिका विधातव्या ।
रथिकास्तत्र चतस्रो जायन्ते पूर्ववद्दिक्स्थाः ॥१९३॥
तदुपरि तथार्धभूमिः कार्या सुश्लिष्टदारुसन्धाना ।
मध्यभ्रमरकयुक्ता सरूपका मत्तवारणयुता च ॥१९४॥
नानाविधकर्मवती वसन्ततो बाह्यरेखा स्यात् ।
अन्योन्ययन्त्रपरिघट्टनदोल्यमान- ।
निश्शेषचक्ररथिकाभ्रमणाभिरामम् ।
दृष्ट्वा वसन्ततिलकं सुरमन्दिराणां ।
भूषायमाणमुपयाति न विस्मयत्वं ॥१९५॥
प्रविधाय रङ्गभूमिं प्रथमां शास्त्रान्तराधरस्यार्थे ।
चतुरश्रा रूपवती सचतुर्भद्रा विधेया भूः ॥१९६॥
प्रतिकोणमागतस्या भद्रे षु भवन्ति संयता भ्रमराः ।
अत उपरिष्टाद्भूम्या भ्रमराश्चाष्टासनाः कार्याः ॥१९७॥
रेखाः शुद्धाः कार्या बहिरन्तश्चित्रिताश्चान्याः ।
पीठेषु मध्यगस्थास्ततोऽपरा भूमिकाः कार्याः ॥१९८॥
पीठस्य मध्यसंस्थैरन्योन्यारालियोजितैश्चक्रैः ।
सर्वे वेगाद् भ्राम्यन्ति सान्तना विभ्रमे भ्रमराः ॥१९९॥
दोलासनो विहितवारवधूकृताति- ।
चित्रेण यस्त्रिदशधामसु विभ्रमेण ।
पृथ्वीपतिमुदमुपैति समुल्लसन्ती ।
कीर्त्तिर्न माति भुवनत्रितयेऽपि तस्य ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T19:58:06.2200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

myrionemoid

  • Bot. मिरिओनिमाभ 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.