TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - ५१ ते १००
प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि ।
मल्लं निम्नप्रमाणेन पादकोणे निवेशयेत् ॥५१॥
भृङ्गमुख्यपदद्वन्द्वमध्ययोर्वायुकोणयोः ।
न्यस्येत्स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥५२॥
पीठिका निर्गता बाहुयुग्मात्तत्राग्रयोगतः ।
स्तम्भिन्यौ रोपयेद्ब्राह्मं पृथक्पदयुगं श्रिते ॥५३॥
प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ ।
बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥५४॥
प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात् ।
योजयेद्भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥५५॥
मल्लात्पश्चिमदिग्भागे वरुणस्याश्रितां पदम् ।
भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥५६॥
स्युः पर्जन्यान्तरिक्षद्वार्यक्ष्मणां पदमाश्रिताः ।
क्रमान्नन्दोपनन्दाख्यजयाख्यविजयाभिधाः ॥५७॥
विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः ।
त्रयस्त्रयः प्रतिक्षोभा योज्या दार्ढ्याय बाह्यतः ॥५८॥
निक्षिपन्नखिलं द्र व्यं भावयेत् पददेवताः ।
प्राप्नोति तत्तदाख्यां तद्द्रव्यं पूजां च तद्गताम् ॥५९॥
पीठीपृष्ठसमं कन्यापार्श्वयोरुभयोरपि ।
कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥६०॥
संश्रित्यानुसरद्वन्द्वं पीठीं चोपरि सङ्ग्रहात् ।
बध्नीयात्कीलकैर्लौहैर्यन्त्रनिश्चलताकृते ॥६१॥
यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः ।
प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्र भे ॥६२॥
स्नातस्य विधिवद्वस्त्रच्छन्नस्यालेपितस्य च ।
श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥६३॥
रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः ।
प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥६४॥
स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः ।
गन्धमाल्यार्चितान् विप्रांस्तर्पयेद्दक्षिणादिभिः ॥६५॥
ततो मङ्गलघोषेण वादित्रनिनदेन च ।
पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥६६॥
अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः ।
नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥६७॥
स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः ।
वन्देरन्वन्दिनश्चैनं सेवेरन् गणिका अपि ॥६८॥
प्रविशन्तं निजं स्थानमनुगच्छेन्नराधिपः ।
सुराधिपं बलामात्यपौरजानपदान्वितः ॥६९॥
प्रोद्यत्कलकलारावसुस्वराः पुरुषा यदि ।
उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥७०॥
तदा भवति भूपालो जयी नन्दन्ति च प्रजाः ।
राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥७१॥
मुञ्चत्युत्थापितः कृच्छ्राद्यदि शय्यां स गौरवात् ।
तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥७२॥
स्खलन्तो दुःखिता दीना निःश्वसन्तः पदे पदे ।
वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥७३॥
भूमौ यदैकदेशेन ह्रसितः पतति ध्वजः ।
न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥७४॥
दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते ।
स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥७५॥
वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत ।
तादृशद्र व्यविध्वंसः पौराणां भवति ध्रुवम् ॥७६॥
पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने ।
समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥७७॥
शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः ।
प्राग्वत्प्रदक्षिणं न्यस्येत्प्रागग्रं शयने निजे ॥७८॥
कुर्यात्तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः ।
भ्रमे कुष्ये च संयोगं यथाभागविकल्पितम् ॥७९॥
कुष्ये संयोज्यमानश्चेद्ध्वजो निपतति क्षितौ ।
तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥८०॥
कुष्ययोगे यदा शक्रो वामतः परिवर्तते ।
तदा स्यात्स्थपतेर्मृत्युर्भवेद्भङ्गश्च दक्षिणे ॥८१॥
स्ववेधं प्रतिपद्येत तद्यष्टिर्यदि कृच्छ्रतः ।
प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥८२॥
निष्कुष्य योजितः शक्रध्वजो विघटते यदि ।
विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥८३॥
स्फुटेद्भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः ।
तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः ॥८४॥
अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम् ।
यथावन्न्यासमायाति योगं चेद्वासवध्वजः ॥८५॥
धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः ।
निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥८६॥
यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः ।
तस्याङ्गान्यखिलान्येव कुटन्यादीनि योजयेत् ॥८७॥
ऐन्द्रं बलाकं यक्षेशं सर्पमादं दिगाह्वयम् ।
मयूरं चेन्द्र शीर्षं च पिटकाष्टकमित्यदः ॥८८॥
स्वप्रमाणेन कर्तव्यं स्पष्टरूपसमन्वितम् ।
तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥८९॥
मूलादन्वग्रमायातैः स्ववंशैर्विदलैर्दृढैः ।
गुणैश्च वेष्टयेदेनं घनैरशिथिलैर्ध्वजम् ॥९०॥
साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः ।
विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥९१॥
अस्मिन्नष्टौ दिशः कृत्वा वंशव्यवहिते ततः ।
न्यस्येद्दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥९२॥
पञ्चमांशगते कुष्याद्वज्रिणः पिटके कृते ।
शेषाण्यप्यष्टभागोनान्यस्मिन्न्यस्येद्यथाक्रमम् ॥९३॥
बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ ।
स्ववर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥९४॥
भङ्गपातविपर्या ससिद्धयः पिटकोद्भवाः ।
पीडार्त्तिमृत्यवेऽत्यर्थमेकैकस्य प्रकीर्तिताः ॥९५॥
शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च ।
वसुमत्याश्च धाम्नां च नृपते राष्ट्रस्य च ॥९६॥
केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्तिताः ।
विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥९७॥
छादितं छदिभिः पूर्वं कुट्टनीसहितं शुभम् ।
यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥९८॥
अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्र शीर्षकम् ।
साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥९९॥
ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् ।
दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:22.5870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सनीज

  • स्त्री. नवारीची बांधणी ; पट्टा ; बंद . सनीजा , चापी बंदुखाच्या - वाडसमा ४ . २८ . [ फा . ] 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site