TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १४०

राजगृहं नाम त्रिंशोऽध्यायः - १०१ ते १४०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


राजगृहं नाम त्रिंशोऽध्यायः - १०१ ते १४०
विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका ।
कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः ॥१०१॥
अस्य भद्र द्वयं कार्यं भागनिर्गतविस्तृतम् ।
कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् ॥१०२॥
भागेन निर्गतं कार्यं भद्रं तस्यापि मध्यतः ।
भागत्रितयविस्तीर्णं भागेनैकेन निर्गतम् ॥१०३॥
भद्र मस्यापि मध्येऽन्यद्भागेनायतनिर्गतम् ।
स्तम्भाः षट्त्रिंशदन्तः स्युर्भद्रे ष्वष्टौ शतद्वयम् ॥१०४॥
अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे ।
पृथ्वीतिलकबन्मध्यमेतस्य परिकीर्त्यते ॥१०५॥
सपादं भागमुत्सृज्य भागत्रितयविस्तृतम् ।
भागेन निर्गतं चास्य भद्र माद्यं प्रकल्पयेत् ॥१०६॥
तस्यापि मध्यवर्तन्यद्भागनिर्गतविस्तृतम् ।
अन्वितं दशभिः स्तम्भैः सुदृढैस्तद्विधीयते ॥१०७॥
सर्वास्वपि च दिक्ष्वेवं विधेया भद्र कल्पना ।
अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया ॥१०८॥
प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते ।
पञ्चविंशतिहस्ताङ्के सार्धभागत्रयाङ्किते ॥१०९॥
मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः ।
अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ॥११०॥
पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत् ।
भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् ॥१११॥
विधिरेष समग्रासु दिक्षु कार्योऽस्य सिद्धये ।
स्तम्भैर्द्वात्रिंशता युक्तो बहिरन्तरयं भवेत् ॥११२॥
धराणां चैव सर्वेषां चतुःषष्टिः प्रकल्पना ।
अथ लक्ष्मीविलासस्य सम्यग्लक्ष्माधुनोच्यते ॥११३॥
प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत् ।
प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ॥११४॥
किन्त्वस्य पार्श्वभद्रा णि भद्रा णामेव कारयेत् ।
कोणेष्वपि च भद्रा णि पार्श्वयोरुभयोस्तथा ॥११५॥
भागस्य निर्गमोऽप्येषां विशेषोऽस्मादयं मतः ।
भद्र मस्य दशस्तम्भैर्मध्यं षोडशभिर्धरैः ॥११६॥
चतुर्द्वारं भवेदेतदिच्छया क्षणमध्यगम् ।
द्वारमन्यद्विधातव्यं स्वपदे स्यात्सुशोभितम् ॥११७॥
भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूषणः ।
अर्धाष्टमीभिश्च भवेत्पृथ्वीतिलकसंज्ञकः ॥११८॥
स्यात्सार्धपञ्चमीभिस्तु श्रीनिवासोऽत्र भूमिभिः ।
लक्ष्मीविलाससंज्ञोऽर्धपञ्चमीभिर्विधीयते ॥११९॥
प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते ।
राज्ञां पृथ्वीजयादीनि निवासभवनानि च ॥१२०॥
क्षोणीविभूषणादीनि विलासभवनानि च ।
यान्युक्तानि निवासाय विलासाय च भूभृताम् ॥१२१॥
तेषां पृथ्वीजयादीनां द्वारमानमथोच्यते ।
चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः ॥१२२॥
स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः ।
स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते ॥१२३॥
स्यात्सप्तविंशतितमः सपादः सचतुष्करः ।
गृहभागो भवेद्भूमिः प्रथमा राजवेश्मनाम् ॥१२४॥
भूच्छ्राये नवधा भक्ते तदंशकचतुष्टयम् ।
निर्गमश्छाद्यकस्यांशद्वयं पादोनमुच्छ्रयः ॥१२५॥
तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता ।
हीरग्रहणपिण्डार्धबाहल्या सा प्रशस्यते ॥१२६॥
तस्याः स्वमेव बाहल्यं पादोनं विस्तृतिः स्मृता ।
अन्तरावणिकातुल्यो मदलाया विनिर्गमः ॥१२७॥
स्वनिर्गमात्तथा चास्याः सपादः स्यात्समुच्छ्रयः ।
भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥१२८॥
भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः ।
लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः ॥१२९॥
तत्त्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग्भवेत् ।
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥१३०॥
आध्माता चेत्यभू प्रोक्ता लुमाः सप्त मनीषिभिः ।
ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता ॥१३१॥
अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः ।
स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् ॥१३२॥
स्तम्भाभावे पुनर्न्यस्येत्कुड्यपट्टेऽपि तां सुधीः ।
सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः ॥१३३॥
कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः ।
छाद्ये कर्णात्क्वचित्कार्या मकराननभूषिताः ॥१३४॥
तेऽपि विद्याधरोपेताः क्वचित्सगजतुण्डिकाः ।
सकुभ्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥१३५॥
तत्र भागद्वयं कुर्याद्भागानर्धचतुर्थकान् ।
तत्र पादोनभागेन राजितासनकं भवेत् ॥१३६॥
ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते ।
कूटागारसमांशार्धं कार्योऽत्रासनपट्टकः ॥१३७॥
स स्यादभीष्टोविस्तारो भागोच्चं मत्तवारणम् ।
स्वोदयस्य त्रिभागेन तिर्यक् कार्योऽस्य निर्गमः ॥१३८॥
रूपकैः करणायाभिः सुपुत्रैरपि शोभितम् ।
वेदिकादिकमप्यस्य रूपपत्राचितं शुभम् ॥१३९॥
आयसीभिः शलाकाभिः कीलकैश्च दृढीकृतम् ।
एतानि अप्ञ्चदशराजनिवेशनानि पृथ्वीजयप्रभृति यानि निरूपितानि ।
यो लक्षणेन सहितं परिमाणमेषां जानाति तस्य नृपतिः परितोषमेति ॥१४०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजगृहं नाम त्रिंशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:24.4770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Beard protective system

  • बेअर्ड रक्षम पद्धति 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site