TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

राजगृहं नाम त्रिंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


राजगृहं नाम त्रिंशोऽध्यायः - १ ते ५०
अष्टोत्तरशतं ज्येष्ठं मध्यं स्यान्नवतिं करान् ।

जघन्यं सप्ततिकरान् राजवेश्म प्रशस्यते ॥१॥
अतो हीनं न कर्तव्यं महतीं श्रियमिच्छता ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥२॥
भागार्धं शस्यते भित्तिरादिकोणसमाश्रिता ।
चतुष्को भागिको मध्ये चतुःस्तम्भसमन्वितः ॥३॥
अलिन्दस्तद्बहिः कार्यः स्तम्भैर्द्वादशभिर्वृतः ।
विंशत्या स्याद्वरैर्युक्तो द्वितीयोऽलिन्दकस्ततः ॥४॥
स्यादष्टाविंशतिस्तम्भस्तृतीयश्चाप्यलिन्दकः ।
षट्त्रिंशता चतुर्थश्च स्तम्भानां परिकीर्तितः ॥५॥
एवं स्तम्भशतं मध्ये प्रोक्तं पृथ्वीजये बुधैः ।
द्वाराणि चास्य चत्वारि पञ्चशाखानि जायते ॥६॥
चत्वारो निर्गमास्तस्य प्रोक्ताः सर्वे विभागिकाः ।
दिक्षु सर्वासु कर्तव्यमेवं भद्र निवेशनम् ॥७॥
अर्धेन मध्यभित्तेस्तु भित्तिर्भद्र स्त्रये भवेत् ।
भद्रे भद्रे धराणां स्याद् विंशतिश्चाष्टभिर्युता ॥८॥
मुखभद्रं भवेत्युक्तं वेदिकामत्तवारणैः ।
क्षेत्रभागोदयाद्या भूराभूमिफलकान्तरम् ॥९॥
आदिभूम्युदयार्धेन पीठं चास्य प्रकल्पयेत् ।
भागान्नवोदयं कृत्वा भागेनैकेन कुम्भिका ॥१०॥
कर्तव्याष्टांशयुक्तेन स्तम्भो भागचतुष्टये ।
पादयुक्तं विधातव्यो भागेनोत्कलकं तथा ॥११॥
हीरग्रहणकं कार्यं भागं पादविवर्जितः ।
सपादभागिकः पट्टः स्तम्भकेन समन्वितः ॥१२॥
पट्टार्धेन जयन्त्यः स्युर्भूमौभूमावयं क्रमः ।
कॢप्तभागोदयादर्धं भूमिष्वन्यासु हीयते ॥१३॥
पञ्चभागप्रमाणं तु सच्छाद्यं नवमं तलम् ।
वेदिकाया अधश्छाद्यं सार्धभागत्रयोन्मितम् ॥१४॥
कण्ठेन युक्तं कर्तव्यं वेदिका पिहिता यथा ।
तस्याः कण्ठे विधातव्यस्तन्मध्ये सार्धभागिकः ॥१५॥
वेदिकाविस्तरः कार्यो भागांस्तत्रार्धसप्तमान् ।
वेदिकोपरि घण्टा च सार्धभागाश्चतुर्दश ॥१६॥
भागद्वयं सपादं तु कण्ठः पट्टं तु पञ्चभिः ।
चतुर्भिश्च द्वितीयं च तृतीयं च त्रिभिस्ततः ॥१७॥
सद्मशीर्षश्च दातव्यो यथाशोभं यथारुचि ।
क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः ॥१८॥
उदयार्धेन भूमेः स्युरन्तराणि तलानि च ।
यथाशोभं तु कर्तव्यं पीठं तस्य सुशोभितम् ॥१९॥
सार्धभागद्वयं चास्य कार्या खुरघरण्डिका ।
जङ्घा भागचतुष्कं च ततश्छाद्यं प्रयोजयेत् ॥२०॥
भागद्वयं च पादोनं छाद्यपिण्डः प्रकीर्तितः ।
निर्गमोऽस्य चतुर्भागो हंसाख्यस्तस्य चोपरि ॥२१॥
पादोनभागं कर्तव्यं ततश्छाद्यं द्वितीयकम् ।
जङ्घा भूमिचतुष्केण प्रासादस्य प्रकल्पयेत् ॥२२॥
चतुर्थभूमिकामूर्ध्नि ततो मुण्डा निवेशयेत् ।
क्षणक्षणप्रवेशेन कार्याः शेषास्तु भूमिकाः ॥२३॥
वेदिका च यथोक्ता स्यात्सघण्टा कलशान्विता ।
रेखाशुद्ध्या च कर्तव्या मुण्डाः सर्वे यथायथम् ॥२४॥
अर्धोदयं त्रिधा कृत्वा तृतीयं दशधा भजेत् ।
वामनश्चातपत्रश्च कुबेरो भ्रमरावली ॥२५॥
हंसपृष्ठो महाभोगी नारदः शम्बुको जयः ।
अनन्तो दशमस्तेषां विधायकवशादमी ॥२६॥
विधातव्याः स्थपतिभिर्मुण्डरेखाप्रसिद्धये ।
तमङ्गवेदिकाजालमत्तवारणशोभितम् ॥२७॥
वितर्दिनिर्यूहयुतं चन्द्र शालाविभूषितम् ।
कर्माढ्यं बहुचित्रं च कुर्वीत पृथिवीजयम् ॥२८॥
प्रासादाश्च महान्तो ये विधेयास्ते समोदयाः ।
अर्धोदयेन लघवो ह्यवाकोणादयं क्रमः ॥२९॥
भूम्यष्टकादभ्युदयः क्षेत्रविस्तारसम्मितः ।
यतस्तव वधे प्रोक्तः प्रासादोऽन्यद्विभूषणम् ॥३०॥
बहवो निकरा येषु प्राङ्गणं तेषु दीयते ।
रेखायां प्रथमायां वा द्वितीयायामथापि वा ॥३१॥
तृतीयायां वा रेखायां तत्र संवरणाः स्मृताः ।
अयं भूम्युदयः कार्यः क्षेत्रे दशविभागिके ॥३२॥
न्यूनाधिकविभक्ते तु कार्यः स्यादनुसारतः ।
मुक्तकोणस्य लक्ष्माथ प्रक्रमागतमुच्यते ॥३३॥
चतुरश्रीकृते क्षेत्रे भागद्वादशकाङ्किते ।
भागश्चतुष्टो मध्येऽस्य चतुर्द्वारविभूषितः ॥३४॥
भागेन च ततोऽलिन्दो धरद्वादशकान्वितः ।
तद्वद् द्वितीयालिन्दोऽपि विंशत्या धारितो धरैः ॥३५॥
तृतीयश्च धरैरष्टाविंशत्यालिन्दको भवेत् ।
षट्त्रिंशता धरैर्युक्तः कार्योऽलिन्दश्चतुर्थकः ॥३६॥
चतुश्चत्वारिंशता स्याद् धरैर्युक्तश्च पञ्चमः ।
भागार्धं कारयेद् गित्तिं सार्धं भागं विमुच्य तु ॥३७॥
भागत्रयं ततः कुर्यात्प्राग्ग्रीवं दैर्घ्यविस्तृतौ ।
विस्तृतौ निर्गमे चैषां भद्रं भागेन कल्पयेत् ॥३८॥
भागिकं निर्गतं तस्मान्मध्येऽन्यद्भद्र मस्य हि ।
भागनिर्गमविस्तारं दिक्षु सर्वास्वयं विधिः ॥३९॥
चतुःपञ्चाशता स्तम्भैरेकैकं भद्र मन्वितम् ।
मध्ये वास्य चतुश्चत्वारिंशं स्तम्भशतं भवेत् ॥४०॥
षोडशाभ्यधिका च स्याद्भद्र स्तम्भशतद्वयी ।
एवं धराणां सर्वेषां भवेत् षष्ठं शतत्रयम् ॥४१॥
पृथ्वीजयवदत्रापि शेषनिर्माणमिष्यते ।
तृतीयभूमिकामूर्ध्नि निर्गमेष्वखिलेष्वपि ॥४२॥
प्राङ्गणानि विधेयानि विशेषोऽत्रैष कीर्तितः ।
सर्वतोभद्र संज्ञेऽथ शत्रुमर्दननामपि ॥४३॥
अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये ।
श्रीवत्सस्यापि मध्ये स्यात् स्तम्भाद्यं मुक्तकोणवत् ॥४४॥
सार्धं भागं परित्यज्य भागत्रितयविस्तृतम् ।
कर्णप्राग्ग्रीवमेतस्य भगेन च विनिर्गतम् ॥४५॥
भद्रं तस्यापि कर्तव्यं भागविस्तारनिर्गमम् ।
मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ॥४६॥
अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत् ।
प्रतिभद्रं धरास्त्रिंशद्भवन्त्यस्य दृढाः शुभाः ॥४७॥
शतं विंशमिदं सर्वधराणामिह कीर्तितम् ।
एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ॥४८॥
सर्वतोधद्र संज्ञस्य लक्ष्मेदानीं प्रचक्ष्महे ।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥४९॥
भागिकः स्याच्चतुष्कोऽस्य चतुःस्तम्भविभूषितः ।
स्तम्भैर्द्वाडशभिर्युक्तः प्रथमः स्यादलिन्दकः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T19:52:14.6870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अपसंद

  • वि. अप्रिय ; न आवडणारें . [ सं . अ + फा . पसंद ] 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.