संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पट्टं तथैव कुर्वीत स्तरस्यार्धेन पट्टिका ।
वसन्तः स्तरमेकं स्याद् स्तरं वासन्तपट्टिका ॥५१॥
कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः ।
छेदमर्धस्तरं विद्यान्मेढं तत्तुल्यमेव च ॥५२॥
मकरं स्तरमेकं च भागार्धं पट्टिका ततः ।
भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥५३॥
पट्टिका वेदिका चैव स्तरमेकं विधीयते ।
छेदं भागार्धिकं कुर्यात्कण्ठकं सार्धभागिकम् ॥५४॥
भागेन पट्टिकां कुर्यात्तथा कमलपत्रिकाम् ।
कूटं ततः परं कुर्यान्नासिका च विभूषितम् ॥५५॥
तृतीयजङ्घामद्वा स्याच्चतुर्भिः कल्पिता स्तरैः ।
स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ॥५६॥
भरणं स्तरमेकं च कुम्भमेकस्तरं तथा ।
वीरगण्डसमोपेतमुच्छालं स्यात्तदूर्ध्वतः ॥५७॥
स्तरमेकं प्रकुर्वीत वीरगण्डसमुच्छ्रितम् ।
ततश्च हीरकं कुर्याद्भागेनैकेन बुद्धिमान् ॥५८॥
सार्धभागेन पट्टिः स्यात्पट्टिकार्धं स्तरं तथा ।
स्तरमेकं वसन्तं स्यात्स्तरं वासन्तपट्टिका ॥५९॥
कपोतो द्विस्तरश्छेदोऽर्धस्तरो मेण्ढकः स्तरः ।
भागिको मकरः कार्यः पट्टिका चार्धभागिका ॥६०॥
भेदोऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः ।
पट्टिकोवेदिकास्त्रयोऽप्यर्धस्तरं पृथक् ॥६१॥
कण्ठश्चार्धस्तरः कार्यः पीठिका चार्धभागिका ।
अर्धभागेन कर्तव्या तदूर्ध्वं पद्मपत्रिका ॥६२॥
विचित्रलक्षणोपेतं ततः कूटं विधीयते ।
स्तरमेकं भवेच्छेदः स्यात्कण्ठोऽप्येवमेव हि ॥६३॥
पट्टिका स्तरमेकं स्यात्ततो वेदी स्तरद्वयम् ।
छेदः स्तरं भवेद्भूयः कण्ठः स्याद्द्विस्तरं ततः ॥६४॥
कर्तव्ये स्तरमेकैकं पट्टिका पद्मपत्रिका ।
घण्टा ततःपरं कार्या मानतो विंशतिस्तरा ॥६५॥
एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत् ।
त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥६६॥
त्रिभूमिकः ।
हस्तान्पञ्चदश क्षेत्रं विस्तारात्तु प्रकल्पयेत् ।
उच्छ्रायेण तु हस्तानां स्यात्पादैकविंशतिः ॥६७॥
द्विहस्तं कारयेत्पीठं जङ्घां हस्तत्रयोच्छ्रिताम् ।
सार्धहस्तं भवेत्कूटं सर्वालङ्कारभूषितम् ॥६८॥
द्वितीयजङ्घा कर्तव्या पादहीनं करत्रयम् ।
सपादहस्तं कुर्वीत कूटमन्यत्तदूर्ध्वतः ॥६९॥
तृतीयजङ्घा कर्तव्या सार्धं हस्तद्वयं ततः ।
ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥७०॥
जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः ।
ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥७१॥
जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रिता ।
हस्तं च कूटप्रस्तारो वेदीबन्धस्तथाविधः ॥७२॥
गर्भार्धविस्तृता घण्टा कार्या हस्तत्रयोच्छ्रिता ।
चतुर्दशस्तरः कुम्भः सर्वेषामुपरि स्थितः ॥७३॥
सूचिकाहस्तसङ्ख्यैषा विभागः कथ्यतेऽधुना ।
पीठं हस्तद्वयोत्सेधं जङ्घालङ्कृतिरुच्यते ॥७४॥
दशभागो भवेदेकमुच्छालं द्विस्तरं ततः ।
वीरगण्डं स्तरं विद्याद्द्विस्तरं हीरकं भवेत् ॥७५॥
पट्टस्तथैव विज्ञेयोत्सेधकी पट्टिका ततः ।
वसन्तं द्विस्तरं --- वासन्तपट्टिवा ॥७६॥
कपोतस्त्रिस्तरः कार्यो भागं छेदो विधीयते ।
मेढं स्तरं प्रकुर्वीत स्तरं कण्ठस्य पट्टिका ॥७७॥
कुर्वीत भागिकीं देवा ततच्छेदे च भागिकम् ।
पुनः कण्ठं प्रकुर्वीत द्विस्तरं पट्टिकां ततः ॥७८॥
स्यात्पद्मपत्रिकाप्येवं घण्टा पञ्चस्तरा ततः ।
वोचोत्रं लक्षणोपेतं ततः कुम्भं निवेशयेत् ॥७९॥
जङ्घास्तम्भं द्वितीया विदध्यादष्टभागिकम् ।
मालां --- द्विस्तरं कुर्याद्भागिकं लशुनं ततः ॥८०॥
भरणं स्तरमेकं च कलशं तत्प्रमाणतः ।
वीरगण्डेन संयुक्तं तावांश्चोच्छालकं भवेत् ॥८१॥
द्विस्तरं तत्तु विज्ञेयं वीरगण्डः स्तरं भवेत् ।
हीरकं द्विस्तरं विद्यात्पद्मं चैव तथाविधम् ॥८२॥
पट्टिका स्तरमेकं स्याद्वसन्तं द्विस्तरं ततः ।
वसन्तपट्टिकां भागं कपोतं त्रिस्तरोच्छ्रितम् ॥८३॥
कुर्वीत भागिकं भेदं स्तरमेकं च मेढकम् ।
मकरं स्तरमेकं च तथा मकरपट्टिकाम् ॥८४॥
भेदः स्तरं भवेत्कण्ठः स्तरं भागं च पट्टिका ।
वेदिका स्तरमेकं च च्छेदमर्धेन कारयेत् ॥८५॥
कण्ठं सार्धस्तरं कुर्यात्स्तरमेकं च पट्टिकाम् ।
आभाजपत्रिकां भागं कुर्याद्घण्टां चतुःस्तराम् ॥८६॥
प्राग्ग्रीवभूषिता सा स्यात्कुम्भं कुर्यात्तदूर्ध्वतः ।
जङ्घास्तम्भस्तृतीयायां सप्तांशश्चतुर --- कः ॥८७॥
ततो मालाथ लशुनं भरणं कुम्भकाण्डकौ ।
उच्छालं गण्डको हीरं प्रत्येकं स्युः स्तरं स्तरम् ॥८८॥
पद्मं सार्धस्तरं विद्याद्भागेऽर्धे पट्टिकां तथा ।
भागमेकं वसन्तः स्याद्भागं वासन्तपट्टिका ॥८९॥
कपोतं त्रिस्तरं कुर्याच्छेदमेकस्तरं ततः ।
ततश्च मेढकं मरं विदधीत स्तरं स्तरम् ॥९०॥
तत्पट्टिका तु भागार्धं भेदं भागार्धमेव च ।
कण्ठो वेदि पट्टिका च त्रीण्येतानि स्तरं स्तरम् ॥९१॥
स्तरस्यार्धं भवेच्छेदः कण्ठः सार्धस्तरं ततः ।
भागार्धं पट्टिका कार्या तावती पद्मपत्रिका ॥९२॥
चतुर्भागा भवेद्घण्टा गुणद्वारसमन्विता ।
द्विस्तरं कारयेत्कुम्भं घण्टायाः स्थितमूर्ध्वतः ॥९३॥
एवं भूमिस्तृतीयैषा चतुर्थी कथ्यतेऽधुना ।
कर्तव्या पट्टरा जङ्घा महास्तम्भसमन्विता ॥९४॥
मालाथ लशुनं तद्वद्भरणं कुम्भ एव च ।
उच्छालं गण्डकं हीरमिति प्रा---पृथक् पृथक् ॥९५॥
सार्धभागं भवेत्पाडः पट्टिकार्धस्तरं ततः ।
वसन्तं स्तरमेकं स्यात्तत्संज्ञः पट्टिका स्तरम् ॥९६॥
कपोतं द्विस्तरं विद्याच्छेदं चार्धस्तरं ततः ।
मेढं तथैव कुर्वीत मकरं च स्तरं बुधः ॥९७॥
पट्टिकां मकराख्यां च च्छेदमेकस्तरं विदुः ।
स्तरमेकं भवेत्कण्ठः स्तरस्यार्धं च पट्टिका ॥९८॥
तथैव वेदिकां कुर्याच्छेदमर्धस्तरं पुनः ।
साधभागं प्रकुर्वीत कण्ठदेशं विचक्षणः ॥९९॥
पट्टिका मद्यसंज्ञा तु स्तरमेकं विधीयते ।
घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP