संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


सार्धद्विभागविस्तारौरकैर्वामदक्षिणौ ।
कार्यौ भद्रं चतुर्भागं भागार्धं सलिलान्तरम् ॥५१॥
स्तम्भद्वयं भवेत्तस्य सर्वभूम्यन्तरेषु च ।
एकः स्तम्भो विमाने स्याद्द्वौ स्तम्भौ वृषभे पुनः ॥५२॥
एष भेदः समाख्यातो विमानस्य वृषस्य च ।
वृषभः ।
मुक्तकोणमथ ब्रूमस्तं भागैरष्टभिर्भजेत् ॥५३॥
मूलकर्णावुभौ भागौ भवतो वामदक्षिणौ ।
मध्यशृङ्गं चतुर्भागं प्रमाणं जठरस्य च ॥५४॥
कर्णशृङ्गान्तयोर्मध्ये कुर्वीत सलिलान्तरम् ।
रथकौ पार्श्वयोः पूर्णौ भद्र देशे जलान्तरम् ॥५५॥
विस्तारोत्सेधजङ्घाश्च सग्रीवामलसारकः ।
लतिनामिव कर्तव्याः प्रमाणेन समन्ततः ॥५६॥
मुक्तकोणः ।
ब्रूमोऽथ नलिनीं तस्याः प्रमाणं लक्षणान्वितम् ।
तस्यां तु मार्गस्यश्च देवगर्भः सुरालयः ॥५७॥
भित्तिविस्तृतिरायामो मुक्तकोणे यथा तथा ।
मध्यदेशे तु यच्छृङ्गं --- कर्णान्तरे च यत् ॥५८
मुक्तकोणे यथा तच्च भेदः कर्मविभेदनात् ।
चतुरश्रे स्मृतो मध्ये कर्णशृङ्गे विचक्षणैः ॥५९॥
नलिनः ।
ब्रमोऽथ मणिकं तस्य शालालिङ्गसमुद्गता ।
अलिन्दकार्धसीमायां सर्वतः स्याच्चतुष्किका ॥६०॥
श्रेयः पुष्टिसुखार्थोऽयं मणिकोऽत्र विमानवत् ।
दशधा क्षेत्रसीम्नः स्याद्विभागः सर्वतोदिशम् ॥६१॥
रथ --- कर्णिकार्धं च जलवर्त्माथ भद्र कम् ।
मूलगर्भस्तथोत्सेधो घण्टा स्तम्भान्तविस्तृता ॥६२॥
भूमिजङ्घासमुत्सेधः कपोताद्द्वारनिर्गमः ।
सिंहकर्णा विमानानि स्तम्भचित्रादिकास्तथा ॥६३॥
तोरणान्यथ माल्यानि तस्यालङ्करणानि च ।
नीलोत्पलदलाकारा मञ्जर्यः सर्वशोभनाः ॥६४॥
विमानमपरं ह्येतद्योनिरेकस्तयोर्द्वयोः ।
केवलं भद्र भेदेन मणिको द्रा विडोऽप्ययम् ॥६५॥
मणिकः ।
प्रासादमथ वक्ष्यामो गरुडं सर्वसुन्दरम् ।
दशधा क्षेत्रविस्तारं तस्य पूर्वं विभाजयेत् ॥६६॥
द्वौ भागौ रथिकाः कार्या मूलकर्णाद्विनिस्सृताः ।
भद्रं षड्भागविस्तारं पक्षवंशादिभेदितम् ॥६७॥
अलिन्दनिर्गमः कार्यः सीमार्धेन चतुर्दिशम् ।
मूलसीमा तु कर्तव्या सलिलान्तरवर्जिता ॥६८॥
स्यान्मूलसीमविस्तारात्स्कन्धः स्याद्द्विगुणोच्छ्रितिः ।
प्रासादस्य समुच्छ्रायात्त्रिभागेन समेखलाम् ॥६९॥
जङ्घामन्तरपत्रेण कुं युक्तं कुर्वस्तसा ।
जीरकं वेदिबन्धं च भागत्रयसमुच्छ्रितम् ॥७०॥
अलिम्बानां समुत्सेधं शेखरार्धेन कारयेत् ।
षड्भागं स्कन्धविस्तारं विदधीत विचक्षणः ॥७१॥
ग्रीवार्धभागमुत्सेधाद्भागमामलसारकम् ।
कुमुदं चार्धभागेन कुम्भः स्यादेकभागिकः ॥७२॥
गरुडः ।
अथोच्यते वर्धमानो दशधा तं विभाजयेत् ।
पादोनांशद्वयं कुर्यात्पार्श्वयोः कर्णविस्तृतिम् ॥७३॥
सपादपदविस्तारौ रथकौ वामदक्षिणौ ।
चतुर्भागोन्मितं भद्रं विस्तारेण प्रकीर्तितम् ॥७४॥
विस्तारो द्विगुणोच्छ्रायं स्कन्धं यावत्प्रकल्पयेत् ।
खुरकस्याथ जङ्घाया मञ्जरीस्कन्धयोरपि ॥७५॥
ग्रीवामलसारकादेः प्रमाणं गरुडे यथा ।
वर्धमानः ।
द्वाविंशतिकरायामः शङ्खावर्तोऽथ कथ्यते ॥७६॥
मूलसीमावृत्तनाहस्तस्य स्यात्पद्मके यथा ।
भित्तिगर्भस्य विस्तारः पादेनार्धनवकमात् ॥७७॥
अलिन्दमग्रतः कुर्यात्सिंहकर्णविभूषितम् ।
उत्सेधत्र्यंशतो जङ्घा वेद्यं तत्र विभागतः ॥७८॥
आस्कन्धं वेदिकाबन्धाद्विस्तृतेर्द्विगुणोच्छ्रितिः ।
मेखलान्तरपत्रं च जङ्घामध्ये विधीयते ॥७९॥
भ्रमयेत्कर्णसूत्रेण बहिर्वृत्तं समन्ततः ।
कर्णदिक्पालयोर्मध्यं वृत्तसूत्रेण वर्तयन् ॥८०॥
अवशिष्टं तलच्छन्दं स्वस्तिकस्येव कारयेत् ।
ग्रीवाममलसारं च कलशं वारिनिर्गमम् ॥८१॥
कुर्वीत स्वस्तिकस्येव विस्तारोत्सेधमानतः ।
शूलसीमानुसारेण च्छेदे संवरणं भवेत् ॥८२॥
तद्रू पमेव लतिनं वर्तयेद्वलनाकृतिम् ।
शङ्खावर्तः ।
ब्रूमोऽथ पुष्पकं स स्याद्विमानसदृशाकृतिः ॥८३॥
तावत्प्रमाणस्तद्वृद्धिः पञ्चभूश्चतुरश्रकः ।
विमानेन मानयुक्त यन्मञ्जर्या यच्च लक्षणम् ॥८४॥
तत्कार्यमत्र मञ्जर्या नतु कार्यं जलानतरम् ।
पुष्पकः ।
गृहराजमथ ब्रूमः स स्यात्कैलाससन्निभः ॥८५॥
विटङ्कनिर्गमाधारनिर्यूहैः सर्वतो वृतः ।
वलभ्या भूषितो मध्ये गवाक्षद्वारसंयुतः ॥८६॥
कपोतस्तम्भपर्यन्तः शालाभञ्जीविराजितः ।
वेदिकाखण्डशालाद्यं क---परितो भवेत् ॥८७॥
कुवीत्य मल्लकच्छाद्यैः सिंहकर्णैश्च भूषितः ।
अलिन्दभेदतः प्राहुर्गृहराजमितं बुधाः ॥८८॥
कैलासस्येव संस्थानं स्यादस्योर्ध्वमधोऽपि च ।
गृहराजः ।
ब्रूमोऽथ स्वस्तिकं तस्य पूर्ववन्मानलक्षणम् ॥८९॥
तेनैव लतिनं सर्वं कुर्वीतैनं विचक्षणः ।
यथा मूले विभक्ताः स्युर्लतिनस्वस्तिकादयः ॥९०॥
तथैषां स्कन्धभक्तानां मध्ये रेखां प्रकल्पयेत् ।
प्रासादः स्वस्तिको नाम स्यादेवं लक्षणान्वितः ॥९१॥
सुधानासोदयः स्वस्य कर्तव्यः स---भागिकः ।
स्कन्धं यावत्समुत्सेधो विस्ताराद्द्विगुणो भवेत् ॥९२॥
त्यवृद्भागोच्छ्रिता जङ्घा मेखला चा---भागिकी ।
मध्यशाला द्विभागाश्च मूलसूत्रविभागतः ॥९३॥
कर्णा द्विभागिकाश्चैवं जलमार्गस्तु षोडश ।
अष्टौ शाला भवन्त्यस्मिन् कर्णाश्चाष्टौ समन्ततः ॥९४॥
प्राग्ग्रीवं बाह्यतः कुर्यात्सुखभागविचक्षणः ।
कलशश्चण्डिका ग्रीवा तद्वदामलसारकः ॥९५॥
ऊर्ध्व ऊर्ध्वप्रमाणं च यथैवाद्य तथा भवेत् ।
स्वस्तिकः ।
रुचकं ब्रूमहे तस्य विभागो दशधा भवेत् ॥९६॥
भागद्वयमितौ कर्णौ भद्रं षड्भागसम्मितम् ।
तेषां विनिर्गमं विद्याद्धस्तामात्रा प्रमाणतः ॥९७॥
कुर्यादुदकमार्गांश्च प्रासादे रुचके क्वचित् ।
स्कन्धावशिष्टमुत्सेधो विस्ताराद्द्विगुणो भवेत् ॥९८॥
वेदिकायास्तु विस्तारः स्कन्धे षड्भागिकः स्मृतः ।
तृतीयांशेन कुर्वीत जङ्घामूर्ध्वं सुरोदयान् ॥९९॥
जङ्घायाश्च त्रिभागेन कार्या खुरखरण्डिका ।
मेखलान्तरपत्रं च कुर्यादध्यर्धभागिकम् ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP