TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १०१ ते १५०
पञ्चपदान्वितः ।
भरणं स्तम्भशीर्षं च पदेन स्यात्समुच्छ्रितम् ।
छाद्यकेनावृतं कुर्यात्पदेनैकेन पट्टकम् ॥१०१॥
द्विपदस्थः प्रश्छाद्य विस्तारः पदेनैकेन लम्बनम् ।
ऊर्ध्वमन्तरपत्रस्य कथायामो यथास्थितम् ॥१०२॥
चतुष्पदेषु कर्णेषु ये कर्णाः पदिकाः स्थिताः ।
तेषु षिखरकाः कार्या विस्तारोच्छ्रायतः पदम् ॥१०३॥
कलशोनं तथा ग्रीवा पदार्धेन समुच्छ्रिता ।
द्विपदः सिंहकर्णस्तु विस्तारोच्छ्रायतः समः ॥१०४॥
शिखिरोऽध विधातव्या त्रिपदी कर्णमञ्जरी ।
ऊर्ध्वं च त्रिपदा स स्याद्द्विपदा स्कन्धविस्तृतिः ॥१०५॥
सार्छभागेन कर्तव्यं सग्रीवं कलशाण्डकम् ।
सिंहप्रासादवत्कर्णा विधेयाः शुभलक्षणाः ॥१०६॥
मूलमानेन विस्तीर्णा निर्गूढस्योपरि स्थिताः ।
द्वितीयश्च तृतीयश्च तदूर्ध्वं च समुच्छ्रितः ॥१०७॥
कर्णस्थकलशादूर्ध्वं कर्तव्या मूलमञ्जरी ।
विस्तारो दशभागांशानुच्छ्रायो द्वादशांशकः ॥१०८॥
लताभिः पञ्चभिर्युक्ता विचित्रैश्चापि कर्मभिः ।
षट्पदोऽस्य स्मृतः स्कन्धो ग्रीवा चास्य चतुष्पदा ॥१०९॥
विस्तारेण समाख्याता पादोनं पदमुच्छ्रिता ।
अण्डकां साङ्घ्रिभागेन षड्भागविस्तृतम् ॥११०॥
पादोनं चन्द्रि काभागं कलशश्च द्विभागिकः ।
प्रासादं ये सुभद्रा ख्यं कारयन्ति सुलक्षणम् ॥१११॥
कल्पकोटिसहस्राणि भद्रं तेषां शिवाग्रतः ।
सुभद्रः ।
सर्वपापक्षयकरस्त्रिषु लोकेषु कीर्तितः ॥११२॥
रिपुकेसरिसंज्ञोऽयं प्रासादः परिकीर्त्यते ।
चतुरश्रीकृते क्षेत्रे भागविंशतिभाजिते ॥११३॥
द्विपदा बाह्यभित्तिः स्यान्मध्यभित्तिश्च तावता ।
भ्रमणी द्विपदा कार्या विस्तारात्सर्वदिग्रताः ॥११४॥
गर्भोऽष्टविस्तृतः कर्णः कन्दसार्धभागिकः ।
चतुर्भागायतं भद्रं कुर्याद्भागेन निर्गतम् ॥११५॥
रथकोऽसौ समुद्दिष्टो विधातव्यश्चतुर्दिशम् ।
पार्श्वयोश्च प्रतिरथौ कार्यौ सार्धपदायतौ ॥११६॥
पदार्धेन विनिष्क्रान्तौ --- विविधेष्वपि ।
कर्णायामश्चतुर्भागो द्विपदं कर्णभद्र कम् ॥११७॥
पदार्धेन विनिष्क्रान्तं बाह्यकर्णे व्यवस्थितम् ।
पद पादेन विस्तीर्णं प्रविष्टं पदमात्रकम् ॥११८॥
कार्यं जलान्तरं मध्ये कर्णस्य तिलकस्य च ।
द्व्यंशस्तिलकविस्तारः पदेनैकेन निर्गमः ॥११९॥
सुवर्णिताः स्युस्तिलका भद्र कोणव्यवस्थिताः ।
अष्टभागं भवेद्भद्रं पदत्रयविनिर्गतम् ॥१२०॥
चतसृष्वपि तद्दिक्षु कर्तव्यं स्तम्भभूषितम् ।
ऊर्ध्वमानमथ ब्रूमः प्रतिपत्रं सुखावहम् ॥१२१॥
ऊर्ध्वप्रमाणं द्विगुणं कर्तव्यं द्विकलाधिकम् ।
भागैरेकोनविंशत्या मध्ये कार्यस्तलोदयः ॥१२२॥
एभ्यो मध्याद्विधातव्या वेदीबन्धाः सुशोभनाः ।
द्विपदः कुम्भकः सार्धं पदं तु कलशो भवेत् ॥१२३॥
मेखलान्तरपत्रे तु कार्ये सार्धपदोन्नते ।
नवभागोन्नता जङ्घा द्विपदा रूपपट्टिका ॥१२४॥
मेखलान्तरपत्रे तु विदधीत पदद्वयम् ।
मध्यं स्यात् षोडशपदं खुरकेऽस्य च ॥१२५॥
राजसेना तथा वेदी तद्वदासनपट्टकम् ।
पदैः पञ्चभिरेतानिन् विदध्यादूर्ध्वमानतः ॥१२६॥
चन्द्रा वलोकनं कुर्याद्द्विपदं भागमानतः ।
उपर्यासनपट्टस्य स्तम्भः स्यात्सप्तभागिकः ॥१२७॥
भरणं स्तम्भशीर्षं च द्विपदं चोर्ध्वमानतः ।
द्विपदः पट्टपिण्डः स्यात्त्रिपदश्छाद्यविस्तरः ॥१२८॥
ऊर्ध्वमन्तरपत्रस्य साम्प्रतं परिकीर्त्यते ।
चतुष्पदः कर्णशृङ्गमायामोच्छ्रायतः --- ॥१२९॥
ग्रीवाण्डकं च भागेन चन्द्रि कार्धपदेन च ।
कलशश्चार्धभागेन कर्तव्योऽत्र न संशयः ॥१३०॥
अस्योर्ध्वतः प्रकर्तव्या द्वितीया कर्णमञ्जरी ।
त्रिपदायामविस्तारा ग्रीवाण्डकलशा पदम् ॥१३१॥
भद्र कर्णाश्रिते द्व्यंशो विस्तारस्तिलके स्मृतः ।
उच्छ्रयस्त्रिपदस्तस्य द्वितीयः स्यात्तदूर्ध्वतः ॥१३२॥
सार्धद्विपद उच्छ्रायो विस्तारो द्विपदः स्मृतः ।
सप्तभागोन्नतं तद्वद्विस्तारादष्टभागिकम् ॥१३३॥
सिंहकर्णौ प्रकुर्वीत सुसूत्रमानपूर्वकम् ।
उरोमञ्जरिका कार्या द्वितीया तिलकोर्ध्वतः ॥१३४॥
अर्धभागायता मूले नवभागमितोच्छ्रया ।
तस्यास्तु स्कन्धविस्तारो भागैः स्यादर्धपञ्चमैः ॥१३५॥
ग्रीवार्धभागमुत्सेधाद्भागेनामूलसारकम् ।
चन्द्रि का चार्धभागेन कलशो भागमुच्छ्रितः ॥१३६॥
द्वितीया कर्णशृङ्गस्य स्यादूर्ध्वे मूलमञ्जरी ।
भागाद्वादशविस्तारा कलयाभ्यधिकोर्ध्वतः ॥१३७॥
स्कन्धःसप्तपदश प्रोक्तो ग्रीवा भागसमुछिता ।
अण्डस्य द्व्यंश उत्सेधो विस्तारः सप्तभागिकः ॥१३८॥
चन्द्रि कैकेन भागेन कलशस्तु द्विभागिकः ।
तलानागरिका कार्यानात्यन्तक्तनान्यत् कर्मात्र योजयेत् ॥१३९॥
जेस्मिन् विजयमिच्छन्ति भोगान् सुविपुलानपि ।
सर्वपापप्रणाशं च कार्यो वा रिपुकेसरी ॥१४०॥
रिपुकेसरी ।
इदानीं प्रेषकं नाम प्रासादमभिदध्महे ।
निर्मितं धनदस्यार्थे पूर्वं विश्वकर्मणा ॥१४१॥
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ।
विभज्यस्त्रिपदाकीर्णं चत्वारोऽपि विदिग्रताः ॥१४२॥
कर्णमकर्णगर्भाद्य सूत्रं तेन समानि च ।
रक्तानि दत्त्वा सूत्राणि तदग्रद्वितयः स्मृताः ॥१४३॥
सूत्रेण चतुरः कर्णान् दिक्स्थानुत्पातयेत् ततः ।
चत्वारोऽन्ये पुनः कर्णाः संसिद्धाः सर्वमेव हि ॥१४४॥
एवमष्टदला कर्णान् वृत्तानेवं प्रकल्पयेत् ।
भागप्रवेशविस्तारं कर्णान्ते च जलान्तरम् ॥१४५॥
शाला स्यात् षड्पदायामा त्रिपदोऽस्याश्च निर्गमः ।
द्विपदा बाह्यभित्तिः स्यात् षड्पदा कन्दविस्तृतिः ॥१४६॥
कन्दगर्भस्थितं तन्त्रं भ्रामयेत्कर्णकंवत ।
उत्पद्यते ततो वृत्तं समसूत्रं सुशोभनम् ॥१४७॥
कुर्वीत तस्य मध्ये तु कन्दं षोडशपत्रकम् ।
भित्तिकन्दान्तराले यच्छेषं स्याद्धमन्तिका ॥१४८॥
पुष्पकस्य तलन्यासः पञ्चपुष्पाकृतिर्भवत् ।
इदानीमूर्ध्वमस्यैव कथ्यते मानपूर्वकम् ॥१४९॥
एकोनत्रिंशदन्यूर्ध्वं सा स्युः पदान् पूर्वं यथाक्रमम् ।
अतो बहिर्विधातव्यः पीठबन्धः पदत्रयम् ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोर्य

  • n. (ऐति.) एक सुविख्यात राजवंश, जिसमें चंद्रगुप्त आदि दस राजा हुए थे । पुराणों के अनुसार, इस वंश के राजाओं ने १३७ वर्षो तक राज्य किया । इस वंश में निम्नलिखित राजा प्रमुख थेः 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site