TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १०१ ते १५०
कुम्भं विदध्यादुपरि द्विस्तरं पङ्कजाननम् ।
भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ॥१०१॥
पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ ।
पुनश्छेदो भवेद्भागं --- कण्ठो विधीयते ॥१०२॥
पट्टिका स्तरमेकं तु तद्वदम्भोजपत्रिका ।
स्तराणां विंशतिर्घण्टा भवेद्गर्भार्धविस्तृता ॥१०३॥
चन्द्र शालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम् ।
एवं पद्मे महापद्मे स्वस्तिके वर्धमानके ॥१०४॥
तथैव सर्वतोभद्रे कुर्याद्घण्टामिमां वुधः ।
कुम्भं तु पञ्चदशभिः स्तरैः कुर्यात्समुन्नतम् ॥१०५॥
स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः ।
चतुर्भूमिकः ।
पञ्चभौममथ ब्रूमः प्रासादं राजपूजितम् ॥१०६॥
विस्तारेण विधातव्यः स हस्तानेकविंशतिम् ।
विभाजयेत्तथोत्सेधं पादोनत्रिशतं करान् ॥१०७॥
पीठं भागद्वयं सार्धं जङ्घा साराम्रा त्रिभागिकी ।
कुर्वीत कूटप्रस्तारं सार्धहस्तं च बुद्धिमान् ॥१०८॥
जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता ।
भूयोऽपि कूटप्रस्तारं सार्धहस्तं प्रकल्पयेत् ॥१०९॥
जङ्घा तृतीया कर्तव्या पादहीनं करत्रयम् ।
सार्धहस्तसमुत्सेधः कूटप्रस्तार इष्यते ॥११०॥
चतुर्थभूमिजङ्घा च सार्धहस्तद्वयोच्छ्रिता ।
कूटप्रस्तारकं कुर्यात्पूर्वमानेन बुद्धिमान् ॥१११॥
पञ्चम्यां भुवि कुर्वीत जङ्घा सा हि करद्वयम् ।
कुर्वीत कूटप्रस्तारं तथा प्रागागुदितो यथा ॥११२॥
कुर्याद्धस्तद्वयोत्सेधं कपोतमपि बुद्धिमान् ।
चतुर्भागसमुत्सेधा महाघण्टा विधीयते ॥११३॥
उपरिष्टाद्भवेत्तत्र प्रासादे पञ्चभूमिके ।
कुम्भं तदूर्ध्वं कुर्वीत स्तरानेकोनविंशतिम् ॥११४॥
संस्थानमेतत्कर्तव्यं सर्वतोभद्र संज्ञकौ ।
विभाजयेद्विशेषेण ततः स्तरविभाजनात् ॥११५॥
श्री बन्धपीठं कर्तव्यं सार्धहस्तद्वयोच्छ्रितम् ।
चतुर्दशस्तरं जङ्घा कर्तव्या स्तम्भसंयुता ॥११६॥
कर्तव्या द्विस्तरा माला लशुनं स्तरसम्मितम् ।
विदधीत स्तरं पद्मुभगण्डसमन्वितम् ॥११७॥
उच्छालं द्विस्तरं कुर्यादिडो भागं विधीयते ।
द्विस्तरं हीरकं कार्यं पट्टाश्चैव तथाविधाः ॥११८॥
पट्टिका स्तरमेकं च वसन्तं द्विस्तरं ततः ।
वसन्तपट्टिका भागं कपोतं त्रिस्तरं ततः ॥११९॥
छेदमेकस्तरं कुर्यात्स्तरमात्रं च मेठकम् ।
मकरं भागमेकं च भागं चरालपट्टिकाम् ॥१२०॥
कुर्वीत भागिकं छेदं ततः कण्ठं च भागिकम् ।
कण्ठं छेदं ततः कण्ठं च --- भागिकम् ॥१२१॥
वाख्यापट्टिकां भागं वेदीं विचक्षणः ।
कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥१२२॥
स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका ।
कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥१२३॥
विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम् ।
ऊर्ध्वतः पट्टिकायास्तु घण्टा पञ्चस्तरा भवेत् ॥१२४॥
नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता ।
भद्रा णि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥१२५
स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः ।
अवलम्बेन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥१२६॥
स्तम्भत --- त्रेण समानं भुवि सूत्रयेत् ।
मेढस्य निर्गमे दद्यादङ्गुलद्वितयं बुधः ॥१२७॥
पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः ।
सूत्रयेत् समसूत्रेण ततो मेढकस्य पट्टिका ॥१२८॥
षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता ।
यथा प्रवेश --- छेदस्यापि तथा भवेत् ॥१२९॥
अङ्गुलद्वितयं कार्यः पट्टिकाया विनिर्गमः ।
विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥१३०॥
अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका ।
पद्माख्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥१३१॥
अङ्गुलानि ततः पञ्च योनि --- निर्गमो भवेत् ।
घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ॥१३२॥
भेदस्ततः स्याद्भवति भूमिका तस्य चोपरि ।
द्वितीयाभूमिकाजङ्घा सद्यः स्यादष्टाभिः स्तरैः ॥१३३॥
मालाद्यैर्लशुनं चैकं भरणं कलशस्तथा ।
यथा माला तथोच्छालं वीरगण्डं स्तरं भवेत् ॥१३४॥
उच्छालहीरके पट्टसमे कुर्याद्विचक्षणः ।
पट्टिका भागिकोत्सेधा वासन्तं --- का तथा ॥१३५॥
कपोतं त्रिस्तरोत्सेधं छेदो सत्र्यंशवर्जितम् ।
छेदस्यार्धे भवेन्मेढो मकरः पट्टिका तथा ॥१३६॥
ततश्छेदं च कण्ठं च --- पट्टिकां तथा ।
मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधः ॥१३७॥
पुनः कण्ठं प्रकुर्वीत हीरकेण समन्वितम् ।
पट्टिका पद्मपूर्वा च त्रिभागेन कपोतके ॥१३८॥
कुर्याच्चतुःस्तरां घण्टां द्वाभ्यां कुम्भं तथोपरि ।
पुनश्छेदो भवेद्भागं जङ्घां कुर्वीत सप्तभिः ॥१३९॥
सीतमाठा विधातव्या मालोच्चो द्विस्तरो भवेत् ।
लशुनं भरणं कुम्भो गण्डश्चेति स्तरं स्तरम् ॥१४०॥
गण्डद्विगुणमुच्छालं हीरपट्टस्तथैव च ।
पट्टिका स्तरमेकं स्याद्वसन्तपट्टिकास्य च ॥१४१॥
पीठं दशगुणं कुर्याच्छेदमेण्ठौ स्तरं स्तरम् ।
स्तरं कुर्वीत राकर तथा मकरपट्टिकाम् ॥१४२॥
स्तरं छेदं च कण्ठं च पट्टिकां वेदिकां तथा ।
छेदं कुर्यात्पुनर्भागं कण्ठं तद्द्विगुणं ततः ॥१४३॥
पट्टिका स्तरमेकं स्याद्वसन्तपट्टिका स्तरम् ।
चतुःस्तरा भवेद्घण्टा प्राग्ग्राचकभूषिता ॥१४४॥
तस्योपरि पुनः कुम्भं घण्टार्धेनैव कारयेत् ।
छेदं भागं विजानीयाज्जङ्घा सप्तांशिका स्मृता ॥१४५॥
माला द्विभागिका कार्या भागिकं लशुनं भवेत् ।
भरणं कुम्भकं गण्डं कुर्याल्लशुनवद्बुधः ॥१४६॥
उच्छालं गण्डकं चैव हीरकान्तं च भागिकम् ।
सार्धं भागं भवेत्---पट्टिकार्धं स्तरं भवेत् ॥१४७॥
---तं भागमेकं स्याद्वसन्ताख्या च पट्टिका ।
कपोतं त्रिस्तरं कुर्यान्नासायुक्तं विचक्षणः ॥१४८॥
छेदमंशेन कुर्वीत मण्डमंशेन कारयेत् ।
मकरे पट्टिकां छेदं विदधीत स्तरं स्तरम् ॥१४९॥
कुर्वीत भागिकं कण्ठं पट्टिकां वेदिकामपि ।
भागं कुर्यात्पुनश्छेदं ततः कण्ठं द्विभागिकम् ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:09:21.1200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

normal cost

  • सामान्य परिव्यय 
  • प्रसामान्य परिव्यय 
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.