TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १ ते ५०
भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम् ।
चतुरश्रीकृतानां च वृत्तानां वृत पूर्वशः ॥१॥
केषाञ्चिन्निर्गमस्तत्र जायते भागसंख्यया ।
केषाञ्चित्पुनरेष स्याद्वृत्तमध्यमधिष्ठितः ॥२॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
चतुर्भूमियुतस्याथ लक्ष्म त्संशस्य कथ्यते ॥३॥
चत्वारश्चतुरश्राः स्युर्निषधो मलयाचलः ।
माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥४॥
कोणा शंभोतरो द्व्यंशं भार्दशंभोर्धभागिकः ।
विस्तारायामतः प्रोक्तो भद्रं पञ्चांशविस्तृतम् ॥५॥
कार्या पादोनभागेन भद्र स्यैतस्य निर्गमाः ।
कार्या पल्लम्बिका तस्य पादभागेन विस्तृता ॥६॥
भागेन कर्णिका कार्या विस्तृत्या निर्गमेण च ।
प्रतिभद्रं च भागार्धनिर्गतं तत्र कल्पयेत् ॥७॥
पादोनभागद्वितयं प्रतिभद्र स्य विस्तृतिः ।
षड्भिर्भागैर्भवेद्गर्भो भित्तिरस्य द्विभागिका ॥८॥
तलच्छन्दस्य लक्ष्मोक्तमूर्ध्वमानमथोच्यते ।
विस्तृतेर्द्विगुणं तच्च चतुर्भागाधिकं भवेत् ॥९॥
वेदीबन्धो भवेदस्य सार्धभागद्वयोच्छ्रितः ।
तत्तु भागद्वयं सार्धं विभजेदर्धपञ्चमैः ॥१०॥
भागद्वयेन कुम्भः स्यात्कलशो भागिकः स्मृतः ।
भागार्धेनान्तरं पत्रं कपोतली तु भागिकी ॥११॥
उक्तोऽयं वेदिकाबन्धो भागैरित्यर्धपञ्चमैः ।
अर्धपञ्चमभागैः स्याज्जङ्घोच्छालकसंयुता ॥१२॥
त्रिभि --- भूत्सेधः सवरण्डिकः ।
द्वितीयास्य भवेद्भूमिरर्धपञ्चमभागिका ॥१३॥
कुम्भः सोच्छालका --- यापि तावता ।
तृतीया स्याद्भूर्विधेया स्यासादा चतुरङ्गिका ॥१४॥
चतुर्थी चतुरो भागाच्चः समु--- ।
कुम्भः सोच्छालकः कूटस्योच्छ्रायोऽपि च पूर्ववत् ॥१५॥
वेदी स्यात्सांशका सार्धपञ्चांशा स्कन्धविस्तृतिः ।
--- खेत्सार्ध चतुर्गुणितविस्तरात् ॥१६॥
तले या कथिता शाला भागपञ्चकविस्तृता ।
स्कन्धस्थानं -- भागद्विस्तयविस्तृता ॥१७॥
रेखावशेन कर्तव्याः प्रवेशाश्च क्रमाद्भुवाम् ।
मूलतः स्कन्धपर्यन्तं घण्टायाः पु--- याः ॥१८॥
भवेत्प्रासादविस्तारः पञ्चमणैव सुन्दरः ।
वेदकोऽर्धेतरं यत्स्याच्छालायास्तत्प्रमाणतः ॥१९॥
--- ये विस्तरः प्रोक्तस्तं --- षड्भिर्विभाजयेत् ।
भागेनैकेन कण्ठस्य प्रवेशः परितो भवेत् ॥२०॥
कण्ठवृत्तं चतुर्भागविस्तृतं परिकल्पयेत् ।
घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तत्र भागिकात् ॥२१॥
घण्टोत्सेधादतः कार्यं पद्मशीर्षं विपश्चिता ।
उत्सेधात्कलशो द्व्यंशः सार्धभागेन विस्तृतः ॥२२॥
शिखरात्त्र्यंशहीना स्यात्सर्वत्र द्युताशिका ।
इति त्र्यंशश्चतुर्भूमिः प्रासादो निषधो मतः ॥२३॥
सर्वासामेव कर्तव्यो देवतानां विभूषयेत् ।
निषधप्रासादः ।
मलयाद्रे रिदानीं तु लक्षणं सम्प्रचक्ष्महे ॥२४॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥२५॥
शाला स्यात्पञ्चभिर्भागैः सार्धांशस्तु प्रतीरथः ।
स शालाकर्णयोर्मध्ये कर्तव्यः सोदकान्तरः ॥२६॥
प्रतीरथस्य --- श्चार्धभागं विनिर्गमः ।
भवेत् पथविकान्यः स विभागोऽन्य --- पूर्ववत् ॥२७॥
ते च द्वादशभागा ये दशभिस्तान् विभाजयेत् ।
गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः ॥२८॥
वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत् ।
मध्यं पल्लविकान्तं तु शालयोर्दशभिर्भजेत् ॥२९॥
क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत्समुच्छ्रिता ।
कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥३०॥
सार्धयैकोनविंशत्या भाजयेद्भूय एव ताम् ।
द्वितीयभूमिकोत्सेधस्तैर्भवस्यथ भागिका ॥३१॥
त्रिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम् ।
भागेन वेदिकोत्सेधः शाला कार्या च नागरः ॥३२॥
ऊर्ध्वमाद्यं क्षितेः कार्या मालायाः शूरसेनकाः ।
कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥३३॥
स्तम्भोच्छालकमध्येन तेषु कूटोच्छ्रितास्तथा ।
अर्धेन प्रविधातव्या भूष्वन्यास्वप्ययं विधिः ॥३४॥
स्कन्धविस्ताररेखा भूप्रवेशो घण्टया सह ।
कलशः शुकनासस्य चोच्छ्रितिः पूर्ववद्भवेत् ॥३५॥
मलयाद्रि रयं प्रोक्तः प्रासादः शुभलक्षणः ।
य एनं कारयेत्तस्य तुष्यन्ति सकलाः सुराः ॥३६॥
वर्षकोटिसहस्राणि स्वर्गलोके महीयते ।
मलयाद्रि प्रासादः ।
अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥३७॥
भजेदर्धयुतैः पञ्चदशभिश्चतुर ---  ।
कर्णा द्विभागिकाः कार्या शाला पञ्चांशविस्तृता ॥३८॥
कर्णाभ्यर्णैऽशयुगलं पादोनाः स्युः प्रतीरथाः ।
शालायाः पार्श्वयोः कार्यौ पञ्जरौ सार्धभागिकौ ॥३९॥
पृथक्पञ्जरशालाया --- र्धभागिका ।
शालायाः पल्लवी या च निर्गमश्चार्धभागिकः ॥४०॥
सार्धपञ्चदशोक्ता ये भागास्ता --- ।
गर्भोऽथ भित्तिविस्तारस्तथा खुरवरण्डिका ॥४१॥
जङ्घाधः क्षितिराद्या च रेखोच्छ्रायश्च पूर्ववत् ।
--- भाज्यं पादहीनाष्टयुक्तया ॥४२॥
पञ्चभागसमुत्सेधा द्वितीया भूमिका भवेत् ।
पदपादविहीनाःस्युस्तिस्रोऽन्याभूमयः क्रमात् ॥४३॥
सार्धांशो वेदिकोच्छ्रायः कर्तव्यो वास्तुवेदिभिः ।
स्कन्धस्य विस्तृती रेखा घण्टा च कलशस्तथा ॥४४॥
--- यांस्तरासमाश्च स्तम्भकूटादिकल्पना ।
शुकनासोच्छ्रतिश्चेति इति एतानि पूर्ववत् ॥४५॥
इत्येवं माल्यवान् नाम प्रासादः परिकीर्तितः ।
य एनं कारयेत्तस्य जायन्ते सर्वसिद्धयः ॥४६॥
शिवलोके निवासोऽस्य भवेत्कल्पायुरप्ययम् ।
माल्यवान् ।
नवमालिकसंज्ञस्य लक्षणं कथ्यतेऽधुना ॥४७॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥४८॥
शाला स्यात्पञ्चभिर्भागैः पार्श्वयोर्बालपञ्जरौ ।
सपादभागिकौ तौ च कार्यौ स सलिलान्तरौ ॥४९॥
कर्णाभ्यर्णे प्रतिरथौ पादौ नालद्वयोन्मितौ ।
तौ सोदकान्तरौ कार्यौ पञ्जरौ सार्धभागिकौ ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:30.3370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

इख्तियार

  • पु. १ स्वीकार ; २ प्रभुत्व ; सामर्थ्य ; अधिकार . - मुधो . ( अर .) 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.