TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः - १०१ ते १५०
द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः ।
एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥१०१॥
व्यामिश्रः ।
विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता ।
भवेद्भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥१०२॥
हस्तिजातीयः ।
सीमाप्राग्रीवभूमीषु यदा स्युः पृथिवीजये ।
द्विभागाश्चाभितोऽलिन्दास्तिर्यक्शालामुखेषु च ॥१०३॥
अलिन्दे पश्चिमा शाला सर्वशालोकना शुभा ।
षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥१०४॥
पूर्ववत्सर्वमन्यच्च कुबेरः स तदा भवेत् ।
कुबेरः ।
प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥१०५॥
कुबेरोपत्तरोक्षिप्तः कर्णप्रासादभूषितः ।
मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥१०६॥
वसुधाधरः ।
यत्राग्रतश्चित्रकूटस्तस्माद्यः सर्वतोदिशम् ।
धराधरतदम्भासः सर्वतोभद्र उच्यते ॥१०७॥
सर्वतोभद्रः ।
कर्णप्राग्रीवकौ द्वौ द्वौ शालाप्राग्रीवकाअपि ।
स्यातां यदास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥१०८॥
विमानाख्यः ।
विमानपीठे निर्मुक्तः शालाभिः सर्वतो वृतः ।
अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥१०९॥
कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः ।
स विमुककोणः स्यात्प्रासादोऽत्यर्थशोभितः ॥११०॥
मुक्तकोणः ।
प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिनाः पृथक् ।
इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ॥१११॥
तत्रादौ वलयाकारो वलयः स च कथ्यते ।
समन्ताद्वर्तिते क्षेत्रे चतुर्भागविभाजिते ॥११२॥
कुर्यात्सारोहणं पीठं सार्धभागोच्छ्रितं शुभम् ।
परिक्षिप्तं गजमुखैर्मकरस्याम्बुनिर्गतम् ॥११३॥
बहिर्भागसमोपेतस्तस्मिन्कार्यः सुरालयः ।
पादोनविस्तृतिर्द्विघ्नद्वारोच्छ्रायविभूषितः ॥११४॥
तस्याष्टस्तम्भकोऽलिन्दो बहिर्वलय इत्यसौ ।
वृत्तच्छाद्यः सिंहकर्णस्तथा जालकरूपवान् ॥११५॥
भूलवयः ।
प्राग्रीवका स स्याद यद्वा स्तम्भोच्छ्रयानतः ।
तदैष दुन्दुभिः प्रोक्तस्त्रिभिस्तैः प्रान्त उच्यते ॥११६॥
अयमेव चतुर्भिः स्यात्पद्मः प्राग्रीवकैः शुभैः ।
स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥११७॥
मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थिता ।
स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥११८॥
चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः ।
स्याच्चतुर्विंशतिस्तम्भैर्द्वितीयो भागसम्मितः ॥११९॥
प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः ।
चत्वारो यत्र स प्रोक्तः प्रासादोऽत्र चतुर्मुखः ॥१२०॥
अस्यैवैकं यदा द्वारं प्राग्रीवोऽलिन्दवेष्टितः ।
एक एव तथाचान्यः प्राग्रीवस्तस्य चाग्रतः ॥१२१॥
ख्यातो माण्डूक इत्येष वृत्तप्रासादसत्तमः  ।
दिक्कोणेषु यदास्यैव भवेत्प्राग्रीवकल्पना ॥१२२॥
प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः ।
कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥१२३॥
प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः ।
प्र ग्रीवकास्तिर्यगग्रे भवन्त्यन्ये तदग्रतः ॥१२४॥
षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत् ।
जानीयाद्दोषविज्ञेयाः प्राग्रीवहरितोत्तमः ॥१२५॥
इति वृत्ताः समाख्याताः प्रासादा नामलक्षणैः ।
चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥१२६॥
अष्टभागायते क्षेत्रे चतुरंशकविस्तृते ।
द्विभागसार्धभागैकभागोऽयं पीठ इष्यते ॥१२७॥
पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम् ।
तस्मिन् निवेशयेत्सीमा स्यादस्याग्रेऽष्टभिर्धरैः ॥१२८॥
ससीम्नो देवकोष्ठस्य भागिकालिन्दको बहिः ।
युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥१२९॥
प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः ।
द्विच्छाद्यच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥१३०॥
प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना ।
यदास्यैव सनिष्क्रान्ते सीमायामे च वर्धते ॥१३१॥
वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् ।
विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥१३२॥
द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यः स भवेत्तदा ।
प्राग्रीवास्त्रिदिशं तस्य गर्भकोष्ठायता यदा ॥१३३॥
हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ ।
कर्णेषु भागमेकैकं त्यक्त्वा स्यात्प्रभवस्तदा ॥१३४॥
एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ ।
पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतो यदा ॥१३५॥
कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिरागृहः  ।
यदास्यैव मुखे शाला भागद्वितयविस्तृता ॥१३६॥
आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः ।
द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥१३७॥
सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् ।
अलिन्दो भागिकः कार्यो विशालस्यैव बाह्यतः ॥१३८॥
प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः ।
अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥१३९॥
द्विशाल इति विख्यातः प्रासादो जायते तदा ।
यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥१४०॥
प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् ।
सर्वस्यैव यदालिन्दः स्यादन्यो भागविस्तृतः ॥१४१॥
सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते ।
भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥१४२॥
मुखे षड्दारुकं च स्यात्तदा स्यादमलाभिधः ।
एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥१४३॥
मुक्त्वा भागद्वयं पश्चाद्देवकोष्ठं निवेशयेत् ।
भागं मुक्त्वाग्रतः कुर्यात्सीमां भागचतुष्टयम् ॥१४४॥
अष्टस्तम्भास्ततोऽलिन्दविंशतिस्तम्भभागिकाः ।
भागिकः परितोऽलिन्दोऽष्टाविंशतिधरोऽपरः ॥१४५॥
द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः ।
सीमासमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥१४६॥
द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ ।
वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥१४७॥
प्रासादोऽयं विभुर्नाम कथितो भर्तृनन्दनः ।
एवमेते समाख्याताश्चतुरश्रायता दश ॥१४८॥
चतुरश्रायतांस्तिर्यगायत्याथापरानपि ।
प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥१४९॥
द्वौ भानौ विस्तृतिर्गर्भे द्विगुणा तिर्यगायतिः ।
मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:27.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

moulting hormone

  • Zool. निर्माएक संप्रेरक 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site