TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते ११४

सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - ५१ ते ११४

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः - ५१ ते ११४
मिथः श्लिष्टावपि व्यक्तौ यत्र तौ संश्रितौ हसः ।
प्रासादकोणस्तम्भो य ग्रस्तास्ते ग्रस्तमण्डपा ॥५१॥
निर्गता व्यतिरिक्ताः स्युश्चतुर्भद्र विभूषिताः ।
तलपट्टाञ्छौकनासाव्यातले भूमिरङ्गिका ॥५२॥
तलपट्टमधस्तस्या मण्डपानां नियोजयेत् ।
एवं परं परं कुर्यान्निम्नान्निम्नतरं बुधः ॥५३॥
सममेवाथवा कुर्यात् प्रासादतलमानतः ।
ध्रुवादिनाम्नां श्रीकूटः प्रवृत्तानां तथैव च ॥५४॥
रुचकप्रभृतीनां च या संज्ञा या विभक्तयः ।
मण्डपेष्वपि ता ज्ञेया तत्सम्बन्धेषु नान्यथा ॥५५॥
देवालयोत्सवार्थाय विमानानि पृथक्पृथक् ।
मण्डपादि समाख्यातादूर्ध्वं स्युः सप्तविंशतेः ॥५६॥
देवयात्रानिमित्तानि तथैव परिकल्पयेत् ।
चतुःषष्टेरप्यधिकाः स्तम्भाः स्युः पदसंख्यया ॥५७॥
प्रासादाङ्गानि --- स्युस्तत्क्षणान्मण्डपेन च ।
संवास्तुपदं संबुद्ध्या कर्तव्यो विषमैः क्षणैः ॥५८॥
न दोषो जायते तत्र शिल्पीच्छतेऽत्र कारणम् ।
अथ दारुकलां ब्रूमः --- मण्डपसंश्रयाम् ॥५९॥
यादृक् समतलं तत्र विभागस्तादृगुच्यते ।
प्रासादस्य विभागेन राजसेनं तु भागिकम् ॥६०॥
वेदी भागद्वयं ज्ञेया द्वौ भागौ मत्तवारणम् ।
चन्द्रा वलोकनं तद्वद्विधातव्यं द्विभागिकाम् ॥६१॥
पट्टो भवति भागार्धमर्धभागिकमासनम् ।
कूटस्तम्भं तु भागेन सपादेन प्रकल्पयेत् ॥६२॥
शीर्षकं भरणं चैव सपाद भागमिष्यते ।
एतत्समतले कार्यं विषमोऽपि क्वचिद्भवेत् ॥६३॥
पट्टिर्भागिकी विधातव्या प्रकारेणापरेण च ।
अधस्तादूर्ध्वपट्टस्य तलपट्टस्य चोर्ध्वतः ॥६४॥
पदे त्रिभागमध्ये वा कार्या चन्द्रा वलोकने ।
तदधस्ताद्विधातव्यो विभागः पञ्चभिः पदैः ॥६५॥
भागिकं राजसेनं स्याद्वेदिकापि द्विभागिकी ।
मत्तवारणकं कार्यं भागद्वितयसंमितम् ॥६६॥
दशभक्तेऽथवा कार्या चतुर्भिश्चन्द्र लोकना ।
भागद्वयेन वेदी च तत्समं मत्तवारणम् ॥६७॥
भागेन रूपहारस्तु भागेनैकेन कण्ठिका ।
मत्तवारणपातश्च त्र्यंशहीनैकभागिकः ॥६८॥
भागार्धेनाथवा पातस्तयोर्मध्ये च मध्यमः ।
कूटागारेष्विदं मानमिदं चासनपट्टके ॥६९॥
भागद्वितयविस्तारमासनं परिकल्पयेत् ।
पिण्डो भागद्विकं तस्य त्र्यंशोना मत्तवारणा ॥७०॥
वेद्यां पिण्डः सपट्टः स्यात्कूटागारे तथैव च ।
राजसेनस्य पिण्डस्तु कूटागारसमो भवेत् ॥७१॥
कुम्भिकापि च तत्पिण्डा चोदरूर्ध्वतयासनम् ।
विद्यात्सशिरःस्तम्भः कूटकं --- ॥७२॥
राजसेनसमा कुम्भी जङ्घा वेदिसमा भवेत् ।
एवमेतत्त्रिधा प्रोक्तं सूर्पच्छाद्यमथोच्यते ॥७३॥
अधःपट्टोर्ध्वपट्टान्तं पञ्चधा प्रविभाजयेत् ।
उभाभ्यां वा त्रिभिर्वापि भजे निगतिस्तु सायते ॥७४॥
--- पट्टसमोऽथ त्रयोदशविभाजिते ।
शूर्पभागं त्यजेदूर्ध्वं घटना द्वादशांशिका ॥७५॥
कुर्यान्निपातं शूर्पस्य पञ्चभागमथापि वा ।
दण्डकैर्भूषयेच्छूर्पं मध्ये दण्डं विवर्जयेत् ॥७६॥
मध्ये च स्तम्भिका वेद्या मत्तवारणकस्य च ।
भागेन पट्टपिण्डस्तु सपादेनाथवा भवेत् ॥७७॥
पृथुत्वं स्यात्स षड्भागपिण्डतुल्यं तु पट्टके ।
स्तम्भः पट्टसमः कार्यः शीर्षकं त्रिगुणं ततः ॥७८॥
स्तम्भादप्यधिका कूटी हीरकादपि पट्टकः ।
बाहापट्टवदुच्छ्रायः शुकनासस्य पट्टके ॥७९॥
पट्टपिण्डोच्छ्रिता वेदी यद्वा पट्टाधिका भवेत् ।
मण्डपे स्यात्तुलोच्छ्रायो विभागैः प्रमितोऽष्टभिः ॥८०॥
स्थलप्रासादतुल्यो वा पातस्य च सतोऽपि वा ।
निम्नोन्नतं छादयेच्च छेदिकायोगतो बुधः ॥८१॥
कण्ठकश्चे --- कार्थेन विधातव्यो विचक्षणैः ।
छेदिकायोगतो मध्ये स्तम्भाः स्युर्बाह्यतोऽधिकाः ॥८२॥
पञ्चाशेनाष्टषष्ठेन केशान्तात्सालभञ्जिकाः ।
रथिकाशालभञ्जीभिः स्थिताभिः पट्टिकोर्ध्वतः ॥८३॥
मध्ये कराटकं कार्यं मनोज्ञं वा सरोरुहम् ।
छादयेद्वास---मलं विमानैर्बहुभेदवत् ॥८४॥
क्षणान्तरेषु रचयेद्दीप्तिकातोरणानि च ।
अन्यथा वा भवेद्वृत्तं चतुरश्रो यथा क्वचित् ॥८५॥
गजतालुयुतः पट्टस्योर्ध्वमष्टाश्रिरेव वा ।
कुर्वीत मध्ये चाष्टाश्रिबाह्यतः पङ्क्तयस्तथा ॥८६॥
विशेषं छादये ब्रूमः स्तम्भिकासूत्रद्भासयेत् ।
षोडश द्वादशाष्टौ बा---चतुरोच्छ्रायाः ॥८७॥
पादान्यदूषर्यत् शिल्पीभवेक्षणवशात् सदा ।
त्रयोविंशतिधा भाज्यमन्तरं पट्टघण्टयोः ॥८८॥
घण्टादूर्ध्वं पद्मपत्री सार्धभागसमुच्छ्रिता ।
उच्छ्रिता सार्धभागेन तदूर्ध्वं दृट्टरी भवेत् ॥८९॥
कपोता ग्राससंयुक्ताः सार्धभागसमुच्छ्रिताः ।
कण्ठकस्तु द्विभागः स्यादमरस्तु द्विभागिका ॥९०॥
भागद्वयं विनिष्क्रान्तं त्रिभागे गजतालुके ।
दत्ताभागानुच्छितकोसलं भागं च धालिका भवेत् ॥९१॥
भागद्वयं द्वितीयं च तृतीयं च द्विभागिकम् ।
तस्योपरिष्टात्कर्तव्या वलिन्यार्धभागिका ॥९२॥
निर्गमः सूत्रमार्गेण एकैकस्य स्वमानतः ।
--- गर्भकोणः स्यात्पक्ष्मपत्र्याश्च मस्तमे ॥९३॥
विमृश्य सूत्रधारो वा निर्गमं कल्पयेत् स्वयम् ।
समैर्भागैश्च पत्रैश्च विकटैः पद्मपत्रकैः ॥९४॥
हस्तितुण्डैर्वरालैश्च शालभञ्जीभिरण्डकैः ।
भल्लिकातोरणैश्चैव भूषणीया चतुष्किका ॥९५॥
खेचरैर्माल्यबन्धैश्च नानाकर्मवितानिभिः ।
मन्दारकैः शुक्तिभिर्वा पद्मैर्वा नागपाशकैः ॥९६॥
मण्डपं छादयेत्प्राज्ञो बाह्यतस्त्वभिधीयते ।
द्विगुणा मौलिकद्वारात्पादोनद्विगुणं क्वचित् ॥९७॥
सार्धभागमितं यद्वा त्र्यंशोनं द्विगुणं क्वचित् ।
क्वापि त्र्यंशाधिकं कार्यं चतुर्द्वारं मण्डपे ॥९८॥
द्वारे कार्यौ प्रतीहारौ भल्लिका तोरणास्तथा ।
स्तम्भयोश्च वरालौ द्वौ शालभञ्जिकया सह ॥९९॥
प्राग्ग्रीवं भद्र भद्रं च रथिका वेदिका बहिः ।
मण्डपे वरकस्योर्ध्वमधस्ताच्छिखरस्य च ॥१००॥
भागार्धआं छेदपट्टः स्याच्छेषं कुर्वीत संवृति ।
शिखरा त्र्यंशयुग्मेन पादोन वा कारयेत् ॥१०१॥
प्रासादे शुकनासं तु सन्तु सम्भ्रमेऽथवा ।
मण्डपस्योदयः स्वस्मादधस्तादथवा भवेत् ॥१०२॥
वामनाद्या अनन्तान्ताः प्राक्प्रोक्ता ये दशोपयेः ।
कर्तव्यो मध्यतस्तेषामुदयः कोपि मण्डपे ॥१०३॥
प्रविभज्योदयं त्रेधा घण्टां भागेन कारयेत् ।
तत्त्रिभागेन तिलकस्तिलकार्धेन फंसना ॥१०४॥
क्रमैस्त्रिभिः पञ्चभिर्वा शूर्पैर्निर्माणमिष्यते ।
स्कन्धछाद्यवासने वामेषा सवणोदिता ॥१०५॥
शोभां भद्रे षु कर्णेषु यथायोगं प्रकल्पयेत् ।
वीथीभिश्चन्द्र शालाभिः सिंहकर्णैश्च शोभनैः ॥१०६॥
रथिकाभिर्वरालैश्च तिलकैश्चारुदर्शनैः ।
शुकनासैर्गजैः सिंहैरन्यैरित्येवमादिभिः ॥१०७॥
कर्मप्रकारैः कर्तव्या मण्डपे भूषणक्रिया ।
त्रिविधैरथवा कूटैः सङ्घटैः कक्षकूटकैः ॥१०८॥
तिलकैर्वा तमङ्गैर्वा खुरच्छाद्यैः सघट्टकैः ।
शृङ्गादिइः! प्रभेदैश्च कार्या मण्डपसंवृतिः ॥१०९॥
शुकनासोच्छ्रितेरूर्ध्वं न कार्या मण्डपोच्छ्रितिः ।
अधस्ताद्यत्र या प्रोक्ता कर्तव्या सा त्वशङ्कितैः ॥११०॥
वलभ्यां शुकनासान्ता कर्तव्या मण्डपोच्छ्रितिः ।
मण्डपः शुकनासान्तं योग्रासकुलम् ॥१११॥
न च तत्पुरमध्ये तु यत्र सा मण्डपोच्छ्रितिः ।
स पुत्रयस्तबन्धवतस्य तयः कर्तकारकै ॥११२॥
हीनाधिकप्रमाणेषु दूविष्ठेषु वास्तुषु ।
द्र व्यैर्वाधिकप्रमाणेषु स्युरनर्थाः पदे पदे ।
ऋद्धिः पुरस्य न भवेत्स्यात्पुराधिपतेर्भयम् ॥११३॥
कॢप्तैरेवं मण्डपैः सुप्रमाणैर्लक्ष्मोपेतैः सद्विधानेन कर्तुः ।
ऋद्धिः सिद्धिः कारकस्यापि लोके क्षेमं च स्याद्भूमिभर्तुर्जयश्च ॥११४॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे सप्तविंशतिमण्डपाध्यायो नाम सप्तषष्टितमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:22:38.9470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

as a temporary measure

  • तात्पुरता उपाय म्हणून 
  • तात्पुरता उपाय म्हणून 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.