TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १ ते ५०
चतुःषष्टिरिहेदानीं हस्तानामभिधीयते ।
लक्षणं विनियोगश्च योगायोगविभागतः ॥१॥
पताकस्त्रिपताकश्च तृतीयः कर्तरीमुखः ।
अर्धचन्द्र स्तथारालः शुकतुण्डस्तथापरः ॥२॥
मुष्टिश्च शिखरश्चैव कपित्थः खटकामुखः ।
सुच्यास्यः पद्मकोशाशिरसौ मृगशीर्षकः ॥३॥
काङ्गलपद्मकोलश्च चतुरो भ्रमरस्तथा ।
हंसास्यो हंसपक्षश्च सन्दंशमुकुलावदि ॥४॥
ऊर्णनाभस्ताम्रचूढ इत्येषा चतुरन्विता ।
हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ॥५॥
प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि ।
कुञ्चितश्च तथाङ्गुष्ठ स पताक इति स्मृतः ॥६॥
उत्क्षिप्तन शिरो या --- त्पाणिनां मेरसा पुन
नतेन वामतः किञ्चिद् भ्रुकुटीकुटिलभ्रु च ॥७॥
स्तोकविष्फारिताक्षेण प्रहारमभिनिर्दिशेत् ।
प्रतापनं तथोद्भूतो नरेसोग्रतेन च ॥८॥
तथैवाविकृतास्येन भालस्थः किञ्चिद् विचलितः करः ।
पताकस्फोरिताक्षेण भ्रुकुटीकुञ्चितभ्रुवा ॥९॥
कार्योऽहमिति गर्वः स्याच्चित्र
अर्थेषु वक्ष्यमाणेषु संयुतं चैनमाचरेत् ॥१०॥
द्वितीयहस्तयुक्तो यः स हस्तः संयुतः स्मृतः ।
तत्राग्निसूपणाचामः पुरतो क्षिणतः पुनः ॥११॥
ऊर्ध्वं प्रसर्प्य कर्तव्यः प्रचलद्विरङ्गुलिः ।
विदध्यादित्थमेवोक्तं वर्षधारानिरूपणम् ॥१२॥
कित्वधामियंतं तौ तावमच्छन्तौ च दर्शयेत् ।
पुष्पवृष्टिप्रपतने प्रचलद्विरलाङ्गुलिः ॥१३॥
कार्यं हस्तद्वयं वक्रं त्रयोऽप्यत्राधिकाघिः ।
कै तैव --- चोत्तानं विधाय स्वस्तिकं बुधः ॥१४॥
कुर्वाणो विच्युतिं तस्य पल्वलं सम्प्रदर्शयेत् ।
पुष्पोपहारं सष्पाणि ये चार्था भूतलस्थिता ॥१५॥
तानुन्नमितवामभ्रूः किञ्चिदुद्वाहयञ्छिरः ।
तादृशं हस्तयुग्मं तु कुर्यादविकृताननः ॥१६॥
अधोमुखं च तेनैव कर्तव्याप्रघटना मिथः ।
संवृतं वा थविश्लिष्टं तारः --- ॥१७॥
दर्शनीयं च वदनमस्मिन्नविकृतं सदा ।
पाल्यं छतन्न च कर्तव्यं शल्कशे परस्परा ॥१८॥
किञ्चिद्विनतमूर्धा च विधायाधोमुखौ तलौ ।
निबिडं निबिडेनैव निर्विकारमुखाम्बुजः ॥१९॥
उरसोऽग्रे तथोर्ध्वेन परावृत्ते च हस्तयोः ।
युगलेन मनसाशक्तिं प्रयत्नेन प्रदर्शयेत् ॥२०॥
गोप्यं वामेन गुप्तेन किञ्चिद्विनतमस्तकः ।
किञ्चिदाकुञ्चितां वामां भ्रुवं कृत्वा प्रदर्शयेत् ॥२१॥
पार्श्वस्थेन पताकेन पाण्यङ्गद्वितयेन तु ।
अधिकस्थेन पताकेन पाण्यब्जद्वितयेन तु ॥२२॥
अधिकारिमुखे वायोः कुर्यादभिनन्दयं ततः ।
नतोत्त --- शिरास्तेन द्विहित भ्रुकुटिमानके ॥२३॥
वेलामुर्वीं च मतिमान् पाणियुग्मेन दर्शयेत् ।
पुरःस्थितेन वामेन दक्षिणेन तु पाणिना ॥२४॥
तसृष्टे सर्पता स्तोकमुद्वाहितशिरा नरः ।
वेगं प्रदर्शयेन्नित्यमविकारि दधन्मुखम् ॥२५॥
इत्युश्वेनुश्च चलता हस्तयोर्द्वितयेन तु ।
मूर्ध्ना तदनुगेनैव तथैव विकृताननः ॥२६॥
क्षोभस्यानयं कर्याद्धस्ताभिनयकोविदः ।
उधस्तृधो मुखेनावः यतन्परार्थतापि च ॥२७॥
पताकेनाभिनेतव्यो विधाय भ्रुकुटिं मनाक् ।
पार्श्वव्यवस्थितेनोर्ध्वं चलदङ्गुलिना मुहुः ॥२८॥
उत्साहनं विधातव्यमुत्तप्य च शिरोधराम् ।
तिर्यग्विष्फार्यमाणेन प्रभूतमभिनिर्दिशेत् ॥२९॥
महतोऽभिनयः कार्यः पार्श्वयोरूर्ध्वसर्पिणा ।
भ्रान्तेनोत्तानिते चानिकृतास्येन सिंहाजनम् ॥३०॥
रूपयेदुच्चमुच्चेन पताकेनैव पाणिना ।
इतस्ततः प्रचलता दर्शयेत् पुष्कराहतिम् ॥३१॥
सत्ताक्षपेण वक्त्रेण चलयै --- मुखेन च ।
स्थितेन पार्श्वयोस्तिर्यग्रिच्यमानेन दर्शयेत् ॥३२॥
पक्षोत्क्षेपक्रियां नित्यं वक्त्रेण विकृतेन च ।
उत्तानितेन वामेन विधृतेनेतरेण तु ॥३३॥
पुरःप्रसर्पिणाधौतं हस्तानुगतदृष्टिना ।
निघृष्टतलहस्तेन भ्रुकुट्या मृदितं पुनः ॥३४॥
प्रघृष्टमेकरूपेण द्वितीयेन प्रसर्पता ।
तेन स्योपरि हस्तेन निविष्टेन विधीयते ॥३५॥
अन्योन्य घर्षणात्येत् पिष्टं भ्रुकुट्या च प्रदर्शयेत् ।
पार्श्वस्थितेन शैलेन्द्रं दूरविष्फारितेन च ॥३६॥
प्रदर्शयेत् समुत्क्षिप्यमोमा भ्रूलतिकां शनैः ।
शैलधारणमन्योन्यशक्तेनाभिमुखेन च ॥३७॥
पार्श्वयोः सम्प्रवेश्याधः कृकतभ्रुकुटिना ततः ।
कार्यमुत्क्षिप्यमानेन शैलप्रोत्पाटनं तथा ॥३८॥
शिरःप्रदेशसंस्थेन दूरमुत्तानितेन च ।
समुन्नतभ्रुवा कार्या पर्वतोद्धरणक्रिया ॥३९॥
इति पताकहस्तः ।
पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत् ।
त्रिपताकः स विज्ञेयः कर्म चास्याभिधीयते ॥४०॥
अयं --- अवि चलन्मध्याकनिष्ठिकः ।
अत्रोहेन विधातव्यो नतु मूर्ध्ना तथा मनाक् ॥४१॥
उन्नामेन समुत्क्षिप्तपुरोभागेन चामुना ।
नमता शिरसा कुर्यात्तथा वतरणक्रियाम् ॥४२॥
पार्श्वतः सर्पता कार्यममुनैव विसर्जनम् ।
पराङ्मुखानारयोग्र भ्रुकुटिं विरचय्य वा ॥४३॥
बारणं पार्श्वसंस्थेन प्रवेशोऽधो नतेन च ।
प्रवेशं कुर्वताकारो वेकुब्जमविकारिताः ॥४४॥
उत्क्षिप्ताङ्गुलियुग्मेन तथोत्तानेन चामुना ।
उन्नामनं विधातव्यमविकारिमुखेन च ॥४५॥
पार्श्वतो नमता कार्या प्राणेना नतमस्तकैः ।
निदर्शनं तथोद्वृत्तेनोर्ध्वाङ्गुलिशिखेन च ॥४६॥
प्रसर्पितमुखस्याग्रे विधिसम्बन्धनं पुनः ।
उत्तानेनासुमाङ्गुल्या श्वहीत्वा नामिकाख्यया ॥४७॥
मङ्गल्यानां समालम्भः पदार्थानां विधीयते ।
पराङ्मुखेन शिरसः प्रदेशे सर्पता तथा ॥४८॥
प्रदर्शयेच्छिरः सन्निवेशमतेन पाणिना ।
एतानि दर्शनीयानि सर्वाण्यविकृताननैः ॥४९॥
हस्तद्वयेनोभयतः केशानासन्नवर्तिना ।
उष्णीषमुकुटादीनि प्राप्नोतीति निरूपयेत् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T20:16:09.5000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dorsal swimming

  • कुशीवर पोहणे 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.