TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथाश्वशाला नाम त्रयस्त्रिंशोऽध्यायः - १ ते ५०
अथ लक्ष्माश्वशालायाः प्रोच्यते विस्तरादिह ।
स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥१॥
अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् ।
अरत्निशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥२॥
अशीत्यरत्निकं मध्यं षष्ठ्यरत्न्यधमं भवेत् ।
स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥३॥
समे च चतुरश्रे च स्थिते मङ्गल्यमेव च ।
स्थानं हयानां कर्तव्यं प्रदेशे सुपरिक्रमे ॥४॥
निम्नगुल्मद्रुमस्थाणुचैत्यायतनवेश्मभिः ।
वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥५॥
निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा ।
प्रदेशे तद्विधातव्यमालोक्य सुसमाहितैः ॥६॥
ब्राह्मणानुमते शस्ते दिने स्थपतिभिः सह ।
भूमेर्विभागमालोक्य सुभगानानयेद्द्रुमान् ॥७॥
न जाता ये श्मशानेषु देवतायनेषु वा ।
अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥८॥
वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः ।
ततो भूमिं परीक्षेत प्रशस्तामथ नन्दिताम् ॥९॥
चितायतनवल्मीकग्रामधान्यखलेषु च ।
विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥१०॥
भवन्ति स्वामिनः पीडा ग्रामधान्यखलेषु च ।
श्मशाने वेश्मकरणान्नराणां मृत्युमादिशेत् ॥११॥
स्थानं विहारवल्मीकविहितं स्यादनर्थकम् ।
तन्नित्यसन्तापकरं क्षयकृच्च तपस्विनाम् ॥१२॥
दैवोपघातजननं स्त्रीणां च क्षयकारकम् ।
विहितं पादपैश्चैत्यैर्गृहं स्याद्भूतभीतिदम् ॥१३॥
भवेद्रो गकरं भर्तुर्विहितं कण्टकिद्रुमैः ।
दीर्णायामुन्नतायां च कृतं भूमौ क्षयावहम् ॥१४॥
नतायां क्षुद्भयकरं कृतं भवति मन्दिरम् ।
तस्मात्कार्यं प्रशस्तायां भूमौ तद्वाजिवृद्धये ॥१५॥
मङ्गल्यरमणीये चतुरश्रे मनोनुगे ।
शुभे च विहितं सद्म भवेत्कल्याणकारकम् ॥१६॥
निर्गच्छतो यथा वामे पार्श्वे भर्तृस्तुरङ्गमाः ।
भवन्ति कुर्यात्स्थपतिस्तथा वाजिनिवेशनम् ॥१७॥
अन्तःपुरप्रदेशस्य कार्यं दक्षिणतश्च तत् ।
प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ॥१८॥
तथा भर्तुर्हितार्थाय कर्तव्यं सद्म वाजिनाम् ।
प्रागुदग्वा मुखं तस्य विधातव्यं सतोरणम् ॥१९॥
प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् ।
दशारत्निसमुछ्रायमष्टारत्निप्रविस्तृतम् ॥२०॥
नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् ।
पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥२१॥
तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि च ।
आयामे किष्कुमात्राणि त्रिकिष्कूणि च विस्तरात् ॥२२॥
प्रांशून्नतोर्ध्वभागानि चतुरश्राणि कारयेत् ।
अग्रोच्चां सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥२३॥
स्थानं सूत्रस्य मध्ये तु हस्तमात्रं समन्ततः ।
आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः फलकैर्दृढैः ॥२४॥
धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः ।
अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः ॥२५॥
अच्छिद्रैः संहतैर्बद्धैरयसा पार्श्वयोर्द्वयोः ।
अजन्तुसङ्कुलैः काष्टै रुचकाभिर्भिषङ्मतैः ॥२६॥
यवसस्य भवेत्स्थानं निर्यूहैः स्वास्तृतं शुभैः ।
किष्कुत्रयोच्छ्रितं तत्स्यादेकान्ते सुसमाहितम् ॥२७॥
हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् ।
सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥२८॥
स्थाने स्थाने त्रयः कीलाः सुदृढाः कपिशीर्षकाः ।
पञ्चाङ्गीनिग्रहार्थं तौ पुरतः कल्पयेदुभौ ॥२९॥
पश्चाद्बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् ।
चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥३०॥
स्थानेष्वेतेषु गुरगान् सर्वेष्वपि निवेशयेत् ।
तत्र कुर्याद्बलिं होमं स्वस्तिवाचनकं जपम् ॥३१॥
ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् ।
वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥३२॥
तिष्ठेयुस्तत्र तुरगा नातिसङ्कीर्णशङ्किनः ।
अस्पृशन्तो मिथः कार्याः सर्वाबाधविवर्जिताः ॥३३॥
स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् ।
निदध्यादुदकुम्भं च किञ्चिदैन्द्री समाश्रितम् ॥३४॥
ब्राह्म्यां दिशि प्रकर्तव्यं स्थानकं यवसस्य च ।
वायव्यां तु प्रकर्तव्यं स्थानमौदूखलं दिशि ॥३५॥
निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः ।
कुद्दालोद्दालगुडकाः शुक्तयोगाः खुरस्तथा ॥३६॥
कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च ।
नाद्याः प्रदीपाश्च भवन्त्यश्वागारोपयोगिनः ॥३७॥
सङ्ग्रहः सुखसञ्चारवस्तूनां नैरृते भवेत् ।
अग्न्युपद्र वरक्षार्थं बन्धच्छेदोपयोगिनः ॥३८॥
पदार्थान् सन्निधौ कुर्याज्जलदीपादिकान् बुधः ।
भाण्डानि कुर्याच्च पृथग् जन्द्रा पनयनेच्छया ॥३९॥
हस्तवासीं शिलां दीपं दर्वॐ फालमुपानहौ ।
पिटकानि विचित्राणि वस्तीन् नानाविधानपि ॥४०॥
एवंविधानि चान्यानि संनिदध्यात्प्रयत्नतः ।
पुरःस्तम्भाश्रितं भाण्डं सन्नाहादेर्विधीयते ॥४१॥
प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद्दिशि ।
पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥४२॥
भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते ।
सा हि दिक्पूजनीया च स्तोतव्या च प्रकीर्तिता ॥४३॥
होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः ।
तासु प्रशस्यते पूर्वा शकेणाधिष्ठिता स्वयम् ॥४४॥
तस्यामुदेति दिनकृदनुलोमं ततः पुनः ।
अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥४५॥
स्नानाधिवासने पूजा माङ्गल्यानि पराणि च ।
प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥४६॥
एवं कृते भूमिबलमित्राणां यशसोऽपि च ।
वृद्धिर्भवति भूपस्य तस्मात्प्राची प्रशस्यते ॥४७॥
भर्तृवृद्धिप्रदं स्थानमग्रग्रासस्य तद्भवेत् ।
दक्षिणाभिमुखायां तु शालायां वाञ्छिताथदम् ॥४८॥
स्थानं भवति वाहानां पदे कॢप्तं विभावसोः ।
वह्निनाध्यासिता सा दिगात्मा वह्निश्च वाजिनाम् ॥४९॥
अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः ।
उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:25.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उपकार विसरतो, पण अपकार स्मरतो

  • मनुष्याचा स्वभाव असा आहे की, त्याच्यावर दुसर्‍यानें केलेल्या उपकारांची त्याला आठवण राहात नाही पण दुसर्‍यानें त्याचा अपराध केला असल्यास त्याची त्याला कधी विस्मृति पडत नाही व त्याचे उट्टें काढण्याकरितां तो नेहमी मनात विचार करीत असतो. 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.