TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - ५१ ते १००
क्रियन्ते तुम्बिकाः पञ्च यत्र सुस्थाः सुसंवृताः ।
मार्ग्र स्तलेऽधःसूत्रस्य तद्भवेन्नयनोत्सवम् ॥५१॥
कोलाविलं समे क्षेत्र भागाष्टकविभाजिते ।
मध्ये द्विभागे विलिखेद्वृत्तं तुम्बिकयान्विते ॥५२॥
तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् ।
ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥५३॥
यानि शेषाणि सूत्राणि वलिनीस्ताः प्रकल्पयेत् ।
तुम्बिन्यां कारयेद्वृत्तं गजतालुकमुच्यते ॥५४॥
अष्टपत्रे चतुष्षष्टिभागं क्षेत्रं प्रकल्पयेत् ।
लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥५५॥
सम्पाटेषु समस्तेषु तुम्बिकाः सन्निवेशयेत् ।
वृत्ताकारं शरावं स्याद्विन्यासं च धरैश्च तत् ॥५६॥
चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते ।
निवेशयेन्नागबन्धं सम्पाते वलिसूत्रयोः ॥५७॥
वितानमेतत्कथितं यश्चिकीर्षति मानवः ।
ऊर्ध्वतिर्यग्गतैर्नालैः क्रियते यन्निरन्तरम् ॥५८॥
पुष्पमालाकुलं श्रीमत्पुष्पकं तदुदाहृतम् ।
अशोकपल्लवाकीर्णलुमाभ्रमनिबन्धनम् ॥५९॥
चतुरश्रक्रियायुक्तं सा प्रोक्ता भ्रमरावली ।
आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ॥६०॥
तुम्बिनी यत्र मध्ये तु हंसपक्षं तदुच्यते ।
अस्यैव पक्षे तु यदा सम्बध्येत मनोरमा ॥६१॥
तुम्बिनी च विपक्षेषु करालं तदुदाहृतम् ।
कोला लुमा स्याद्विकटे शङ्खे शान्ता प्रकीर्तिता ॥६२॥
शङ्खनाभिसमं सूत्रं तुम्बिकायाः प्रवर्तते ।
सर्वेष्वपि लुमास्थानेष्वेकरेखान्वितं भवेत् ॥६३॥
शङ्खनाभिरिति प्रोक्तं वितानमिदमुत्तमम् ।
एतस्यैव लुमास्थाने तुम्बिका पद्मकावृता ॥६४॥
वलयैर्भूषिता यत्स्यात्सपुष्पमिति तद्विदुः ।
क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥६५॥
वृत्ताकारे भवेत्क्षेत्रे वृत्तं वलयकर्मणा ।
चतुरश्रे समे क्षेत्रे यल्लुमार्धलुमर्धते ॥६६॥
वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते ।
कुमुदं कुमुदस्येव लुमाक्षेपादिहार्धतः ॥६७॥
पद्मके स्यादधःक्षिप्ता विकासे मध्यमा लुमा ।
गरुडे गरुडो मध्ये नागाभरणशोभितः ॥६८॥
पुरोगतं तद्यदधो गत्वा स्यादूर्ध्वगं पुनः ।
अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोप्यधः ॥६९॥
विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः ।
अष्टभिश्चाश्रिभिर्मध्ये विद्युन्मन्दारकं भवेत् ॥७०॥
मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् ।
अर्धेनच्छाद्यविस्तारस्योर्ध्वे वंशं प्रकल्पयेत् ॥७१॥
अयमर्धोदयः प्रोक्त आवन्त्यो नामतः परः ।
त्र्यंशेनच्छाद्यविस्तारस्योदयो वामनो भवेत् ॥७२॥
वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् ।
भागोत्तरोदयात्तेऽष्टौ वामनादुदयाः स्मृताः ॥७३॥
वातपत्रोऽथ कौबेरः शमनाख्यस्तथावली ।
हंसपृष्ठो महाभोगी नारदः शम्बुकस्तथा ॥७४॥
वामनः प्रथमस्तेषामावन्त्योते दशेत्यमी ।
छाद्यानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥७५॥
तलसूत्रसमं कृत्वा कुर्याद्द्वादशधोदयम् ।
षष्ठादारभ्य भागात्स्युः सप्त भागोत्तरोदयाः ॥७६॥
कुबेरशेखरी चन्द्री नागश्चातु गणाधिपः ।
मुख्यश्चाच्छः सुभद्र श्च वृत्ते सप्तोदयाः स्मृताः ॥७७॥
कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत्ततः ।
भागार्धमधिकं ज्ञेत्रे भवेच्छाद्यकवर्तना ॥७८॥
भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते ।
लुमामाद्यां लिखेद्भूयः षट्क्रमेणातुसन्ततम् ॥७९॥
रिक्षा यथाद्विहस्ताय लुमायाः स्यादनन्तरम् ।
लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥८०॥
तस्याश्चानन्तरा लक्ष्म्या साधं वृद्धाङ्गुलत्रयम् ।
त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥८१॥
चतुर्दशभिरन्या स्यात्सार्धैर्वृद्धा ततोऽङ्गुलैः ।
विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥८२॥
क्रमेणानेन मानानि लुमानां वृद्धिह्रासयोः ।
अनुपातेन कार्याणि च्छाद्यक्षेत्रानुसारतः ॥८३॥
कुबेरवल्लरीचन्द्री पन्नगा गणनायकः ।
मुग्धा सुभद्रे त्येताः स्युर्लुमाकर्मार्धमादितः ॥८४॥
एतासां गण्डिकाछेदाश्चत्वारः परिकीर्तिताः ।
ऊर्ध्वस्तिर्यग्गतिस्त्र्यंशस्तथार्धत्र्यंश एव च ॥८५॥
छाद्यकोदयविस्तारं तन्निर्गमसमायति ।
कृत्वा षोढा भजेत्क्षेत्रं विस्तारायामतः समम् ॥८६॥
तत्रोर्ध्वद्र व्यमानेनच्छिन्द्यात्प्रागेव गण्डिकाम् ।
तस्यां छेदानुसारेण दापयेदेव लम्बकम् ॥८७॥
अधस्ताद्गण्डिकायाश्च कण्टकानि प्रकल्पयेत् ।
अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥८८॥
गर्भे तथोर्ध्वे प्रान्ते च तृतीयं मध्यतस्तयोः ।
यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥८९॥
तस्मात्प्रसार्य तत्सूत्रं भ्रमयेत्कर्कटं ततः ।
लुमार्धस्यैवमुपरि संस्थानमुपजायते ॥९०॥
उपरि स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम् ।
प्रान्तावलम्बकस्थाने भ्रमयेत्खल्वसिद्धये ॥९१॥
प्रागक्षे भागयुगलावच्छिन्नं फलके पुनः ।
कल्पयेत्सममेवैषा लुमापार्ष्णिर्निगद्यते ॥९२॥
शेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत् ।
चतुर्धातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥९३॥
अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः ।
मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥९४॥
अधःक्षेत्रे स विस्तारात्सूत्रमालम्ब्य तद्यथा ।
विस्तारात्सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥९५॥
लुमाग्रभागत्र्यंशं च तयोर्मध्यं च यत्स्थितम् ।
सूत्रं स्पृशेत्तत्र धृत्वा कर्कटं भ्रमयेद्बुधः ॥९६॥
भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि ।
गण्डिकासु विधातव्यं विधिवद्वृत्तवर्तनम् ॥९७॥
मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा ।
पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥९८॥
संपतत्येवमालिख्य शेषं पूर्ववदाचरेत् ।
लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥९९॥
पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ।
संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:27.5230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

electric arc process

  • विद्युत प्रज्योत प्रक्रिया 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.