TransLiteral Foundation
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः - १ ते ५०
अथान्यान् कथयिष्यामः समासात्सूक्ष्मलक्षणान् ।
पञ्चाशतमिहोत्कृष्टान् प्रासादाञ्श्रीधरादिकान् ॥१॥
श्रीधरो हेमकूटश्च सुभद्रो रिपुकेसरी ।
पुष्पो विजयभद्र श्च श्रीनिवासः सुदर्शनः ॥२॥
भगवत्याः प्रिया ह्येते तथा कुसुमशेखरः ।
देवस्य शम्भोर्दयितः प्रासादः सुरसुन्दरः ॥३॥
नन्द्यावर्तश्च पूर्णश्च सिद्धार्थः सिरववर्धनः ।
त्रैलोक्यभूषणश्चेति पद्मसु ब्रह्मणः प्रियः ॥४॥
पक्षबाहुर्विशालश्च तथान्यः कमलोद्भवः ।
हंसध्वज इति ख्याताः प्रासादा ब्रह्मणः प्रियाः ॥५॥
लक्ष्मीधराक्षः प्रासादो वस्ततौ मधुवद्विषः ।
महावज्रो रतितनुः सिद्धकामस्तथापरः ॥६॥
पञ्चचामरसंज्ञश्च नन्दिघोषाख्य एव च ।
अनुकीर्णः सुप्रभश्च सुरानन्दोऽथ हर्षणः ॥७॥
दुर्धरो दुर्जयश्चैव त्रिकूटो नवशेखरः ।
पुण्डरीकः सुनाभश्च महेन्द्रः शिखिशेखरः ॥८॥
वराठः सुमुखः शुद्धश्चत्वारिंशादितीरिताः ।
मिश्रकास्तु दश प्रोक्ता मिथः कर्मप्रभेदतः ॥९॥
विज्ञेयो नन्दसंज्ञश्च महाघोषस्तथापरः ।
वृद्धिरामाभिधानश्च प्रासादोऽन्यो वसुन्धरः ॥१०॥
मुद्गकोऽथ बृहच्छालस्तथैव च सुधाधरः ।
संवराख्यः शुकनिभस्तथा सर्वाङ्गसुन्दरः ॥११॥
पञ्चाशदेवं कथिता प्रासादानां यथाक्रमम् ।
इदानीं लक्ष्मतो ब्रूमः श्रीधरं सर्वकामिकम् ॥१२॥
वल्लभं सर्वदेवानां पुण्यानां कारणं परम् ।
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥१३॥
द्वादशाखिलकोणेषु कर्णशृङ्गाणि योजयेत् ।
विस्तारं च चतुर्भागमेकैकस्य विनिर्दिशेत् ॥१४॥
परस्परं च निष्कोऽसा द्विपदोऽत्र विधीयते ।
द्व्यंशानि कर्णिभद्रा णि निर्गमश्चार्धभागिकः ॥१५॥
कर्णकर्णपदेन्यस्यात्पदार्धाधेत विस्तृतः ।
वारिमग्नो विधातव्यो मध्यगः दशभागिकम् ।
निर्गमश्च त्रिभिर्भागैः समसूत्रसमाहितः ॥१७॥
द्विपादा बाह्यभित्तिस्तु द्विपादा चान्धकारिका ।
भवेच्छतपदः कन्दो गर्भः षड्विंशदंशकः ॥१८॥
द्विपदः कर्णकन्दश्च प्रत्यङ्गं पदिकं स्मृतम् ।
निर्गतं चार्धभागेन चतुर्दिक्षु व्यवस्थितम् ॥१९॥
भागेन निर्गता कार्या शाला चास्य चतुष्पदा ।
अभ्यन्तरं बाह्यभित्तेः कन्दस्य च तथा बहिः ॥२०॥
उभयोरन्तरं कार्यं विस्तारात्पञ्चभागिकम् ।
अन्तरालं च कुर्वीत शृङ्गं तच्च चतुष्पदम् ॥२१॥
विभागस्तादृशोऽस्य स्याद्बाह्यशृङ्गस्य यादृशः ।
भित्तिकन्दान्तराले च कार्यं षड्दारुकं बुधैः ॥२२॥
इतिकातोरणयुतं चतुर्दिक्षु मनोरमम् ।
पुरतो मण्डपं कुर्यात्सर्वलक्षणसंयुतम् ॥२३॥
भागैः पञ्चाशता कुर्यादस्य मानमिहोर्ध्वगम् ।
एषां मध्ये सविंशत्या प्रविधेयास्तुलोदयाः ॥२४॥
तेषां मध्येंऽशकैः षड्भिर्वेदीबन्धो विधीयते ।
नवधा भाजिते तत्र वेदीबन्धे समैः पदैः ॥२५॥
कुम्भश्चतुष्पदस्तत्र द्विपदस्तु मसूरकः ।
भागेनान्तरपत्रं स्यान्मेखला द्विपदाः स्मृताः ॥२६॥
मूलभागास्तु ये तैः स्याज्जङ्घा दशभिरुच्छ्रिताः ।
द्विपदा मेखला प्रोक्ता द्व्यंशे चान्तरपत्रके ॥२७॥
अधस्तादूर्ध्वपक्षस्य तलपट्टस्य चोपरि ।
षोडशांशा विधातव्यास्तत्रैतत् कर्म वार्चयेत् ॥२८॥
भागेन रूपधारा स्यात्सार्धा सार्धा च सेनकम् ।
वेदी भागत्रयोत्सेधा द्वेनासनपट्टकः ॥२९॥
सोर्ध्वभागेन कर्तव्यमूर्ध्वचन्द्रा वलोकनम् ।
आसनस्योर्ध्वतः स्तम्भाः सार्धपञ्चपदाः स्मृताः ॥३०॥
भागेनोच्छालकं कार्यं शीर्षं सार्धपदोन्नतम् ।
पट्टः स्याद्द्विपदोत्सेधस्त्रिपदश्छाद्यविस्तरः ॥३१॥
लम्बनं तु तदर्धेन यथाशोभमथापि वा ।
ऊर्ध्वनानतरः पत्रस्य कक्प्यतेऽप्ययथाक्रमम् ।
कोणेषु कूटः कर्तव्यो विविधैः कर्मसम्भ्रमैः ।
विस्तारः स्याच्चतुर्भागस्तेषां षड्भाग उच्छ्रयः ॥३३॥
कर्णा घण्टासमायुक्ताः कूटमानं विधीयते ।
तत्र मृत्युक्रमात् कुर्यादेकैकं तदूर्ध्वतः ॥३४॥
तेषां च तुल्यता कार्या विस्तारादुच्छ्रयादपि ।
चत्वार एककर्णे स्युरेवं सर्वेषु षोडश ॥३५॥
सिंहकर्णस्य विस्तारामानं स्यादष्टभागिकम् ।
षड्भागस्तु तथोत्सेधो रथिकैश्च विभूषणम् ॥३६॥
गुणद्वारसमायुक्तः शूरसेनाभिधानकः ।
सिंहकर्णो विधातव्यः सर्वकर्मसमाकुलः ॥३७॥
सिंहकर्णोदयादूर्ध्वमुरोमञ्जरिका भवेत् ।
विस्तारादष्टभागासावुच्छ्रायान्नवभागिका ॥३८॥
लतापञ्चकसंयुक्ता मञ्जरी स्यात्सुशोभिता ।
ग्रीवा पादोनभागा स्यादण्डकं भागमुच्छ्रितम् ॥३९॥
चन्द्रि का चार्धभागेन कलशश्चैव भागिकः ।
कूटमूर्ध्वे द्वितीया स्यादुरोमञ्जरिका तथा ॥४०॥
भागात्तद्वादशविस्तीर्णा तु सार्धा न त्रिदशावाच्छ्रिता ।
भागमेकं भवेद्ग्रीवा सार्धभागेन चाण्डकम् ॥४१॥
कपरिं चार्धभागेन कलशश्च द्विभागिकः ।
उरःशिखरकान्यष्टौ भवन्त्येवं चतुर्दशम् ॥४२॥
द्वितीयकूटकस्योर्ध्वे कर्तव्या मूलमञ्जरी ।
भागषोडशविस्तारा पदाष्टादशकोदयः ॥४३॥
स्कन्धमानं हि सर्वेषां यथोक्तं शतवास्तुनि ।
ग्रीवा सार्धपदांशा स्यादण्डकं द्विपदान्वितम् ॥४४॥
कङ्कतीफलतुल्यानि कुर्यात् सर्वाण्डकानि च ।
द्विपदं चण्डिकायुग्मं कार्यं सामलसारकम् ॥४५॥
तस्योपरि स्यात्कलशो वर्तुलस्त्रिपदोच्छ्रितः ।
तोरणैर्मकरैः पत्रैः साग्रैश्च सवरालकैः ॥४६॥
हस्तिमुण्डैः समाकीर्णमधरोगणभूषितम् ।
ईदृशं श्रीधरं कुर्यात्सर्वालङ्कारभूषितम् ॥४७॥
श्रीधरं कारयेद्यस्तु किर्त्त्यर्थमपि मानवः ।
इहैव लभते सौख्यममुत्रेन्द्र त्वमाप्नुयात् ॥४८॥
भोगान् भुक्त्वा पुमान् स्वर्गं नीयते च परे पदे ।
सर्वपापविनिर्मुक्तः शान्तश्च स्यान्न संशयः ॥४९॥
श्रीधरः ।
हेमकूटमथ ब्रूमः शुभलक्षणसंयुतम् ।
सर्वविद्याधरस्थानमाश्रयः स पिनाकिनः ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:28.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

antidepressant

  • पु. प्रतिअवसादी 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site