TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - ५१ ते १००
शुण्डिकागण्ड---न्यौ शाला सोपानमालिकाः ।
मुखशालान्विता सैव यदा नागाङ्गना तदा ॥५१॥
चतुरश्रीकृते क्षेत्रे द्वात्रिंशद्भागविभाजिते ।
चतुःषष्टिपदं मध्ये कर्तव्यं सुरमन्दिरम् ॥५२॥
कार्यस्तस्य भ्रमः सम्यक्समन्ताच्च चतुष्पदः ।
भ्रमन्ती द्विपदायामे शाले तु भ्रमसंयुतौ ॥५३॥
स्वप्रमाणाद्विधातव्ये मध्यगे भद्र कर्णयोः ।
स्युः षोडशपद्रः कन्दास्तेषु शालाश्चतुष्पदाः ॥५४॥
चतुर्ष्वपि च कर्णेषु प्रविष्टा भ्रमजाः पदम् ।
कर्तव्यं द्विपदायामं भद्र शालायुगं तथा ॥५५॥
विस्तारात् प्र --- पादोनमन्योन्याभिमिखं भवेत् ।
आयताद् द्व्यंशविस्तारा पदेनैकेन वेष्टिता ॥५६॥
भद्र शाला विधातव्या सार्धत्रिपदनिर्गमा ।
सौम्यानिलीवारुणीषु नैरृतीयाम्ययोरपि ॥५७॥
शालास्तिस्रः प्रतिदिशमशालाग्नेय्यायदिना मुरविद्विषः ।
अस्या एव मुखे शाला यदि तन्मकरध्वजा ॥५८॥
अमराणां कृतानन्दा कृत्वैनां मोक्षमाप्नुयात् ।
मुखशालां परित्यज्य यदैकैकाग्रकर्णयोः ॥५९॥
शाला प्रदीयते सा स्यान्नन्द्यावर्तयत्यहर्पतेः ।
विकर्णकन्दधोराग्रे यदास्याः पृष्ठवंशगा ॥६०॥
द्विभागायामविस्तारा शाला भवति शोभना ।
चतुर्ष्संस्थिता शाला शालायाः संमुखी भवेत् ॥६१॥
ताम्रमूला तदा ज्ञेयाः ब्रह्मविष्णुहरिप्रिया ।
यदास्याः पृष्ठवंशस्था हस्तायाम्योत्तरात्तथा ॥६२॥
शाले क्रियेते तदा ज्ञेया पारिजातकमञ्जरी ।
वारणीचतुष्टःस्थिता शालायाः सम्मुखी भवेत् ॥६३॥
ताम्रयाम्यासौम्यासु शालाः स्युर्यदि वंशगाः ।
प्रिया स्यात्सर्वदेवानां तदा चूडामणिः प्रभोः ॥६४॥
चतुरश्रीकृते क्षेत्रे चतुरश्रः समन्ततः ।
दशांशः स्यादुभायान्ता मध्ये प्रासादनायकः ॥६५॥
---पुरतश्चैवं पार्श्वयोरुभयोरपि ।
भ्रमास्तस्या विधातव्याः --- पञ्चभिः पदैः ॥६६॥
कर्णकन्दाश्च कर्तव्या भ्रमसूत्राद्बहिः स्थिताः ।
द्विभागायामविस्ताराश्चतुःशालोपशोभिताः ॥६७॥
अमुनैव क्रमेण स्युर्भद्र कन्दाः पदाधिकाः ।
मूलप्रासादमालायां मालात्रितयधारिणाम् ॥६८॥
कर्णे कर्णे तु याः शालास्ता द्व्यंशायामविस्तृताः ।
द्विभागिकजलाधारास्तथा भागपरिभ्रमाः ॥६९॥
पदप्रविष्टाम्बुपदा भ्रमपद्धतिसंयुताः ।
तुल्याश्चतुर्षु कर्णेषु तुल्या भद्र त्रयेऽपि च ॥७०॥
भागद्वितयविस्तीर्णा भागत्रितयमायताः ।
सृग भ्रमाश्च कर्तव्या भ्रमशालादिशान्तयोः ॥७१॥
शेषं च पूर्ववत्कार्यं शुण्डिकागण्डमण्डनम् ।
स्यात्कर्णमञ्जरीत्येषा त्रिलोक्यानन्ददायिनी ॥७२॥
कर्णमञ्जरिकाभद्रे विभक्ते दशभिः पदैः ।
द्विभागायामविस्तारां तुर्यां शालां निवेशयेत् ॥७३॥
उदक क्षणपूर्वाणि मुखान्यासां प्रकल्पयेत् ।
परिक्रमस्त्रिस्तु सर्वासां भागैकः सर्वतो भवेत् ॥७४॥
द्वौ भागौ भद्र कर्णाभ्यां संक्षेपोभ्याभयपार्श्वयो ।
भागिकोभयविस्तारा भद्रे ऽन्या कर्णिका भवेत् ॥७५॥
पदैः षोडशभिर्युक्ता विचित्रभ्रमविभ्रमं ।
भद्रा स्या च चतुष्की स्यात्पुरतः संवृतान्तरः ॥७६॥
श्रीमण्डपं प्रकुर्वीत प्रभूतस्तम्भमण्डितम् ।
दितामेतानेन परिक्षिप्तं छाद्यकाले हसंयुत ॥७७॥
एश्वास्याद्विश्वरूपे च कस्यायास्तु पुरस्करा ।
चतुष्किकाभिस्तिसृभिर्भवेत्त्रैलोक्यसुन्दरी ॥७८॥
चतुरश्रीकृते क्षेत्रे भक्ते द्वादशभिः पदैः ।
त्रिभागायामविस्तारा मध्ये शाला चतुर्मुखी ॥७९॥
सर्वतः सार्धभागाश्च कर्तव्या पदपद्धतिः ।
तस्याः प्रागुदक --- शालाचतुष्टयम् ॥८०॥
द्विभागायामविस्तारं विधातव्यं सुशोभनम् ।
भागिकालिन्दकेनैतत्स्यात्प्राक्से --- न वेष्टितम् ॥८१॥
कक्ष्यास्थाभिर्द्विभागाभिः कर्णिकाभिरलङ्कृतम् ।
एवैतत् कर्णमञ्जर्याः कर्णे --- विधीयते ॥८२॥
जगती स्याच्छिवस्येष्टा तदा गन्धर्वमालिका ।
इयवे वापरे भागे चतुर्थ्या शालयान्वितं ॥८३॥
विज्ञेया जगती नाम्ना विद्याधरकुमारिका ।
अपरस्यां चतुर्थीं तु हित्वा शालां विनीयते ॥८४॥
ते द्वे --- कुद्यो कुर्वीत सुभद्रां त्रिदशप्रियाम् ।
चतसृषु भद्रे षु प्रत्येकं म्पञ्च कर्णिगा ॥८५॥
शालाः स्युर्यदिश्चन्द्रा ष्टा तदा स्यात्सिंहपञ्जरा ।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥८६॥
त्रिभागायामविस्तीर्णं मध्ये देवकुलं भवेत् ।
भागेनैकेन कर्तव्यो भ्रमो दिक्षु तिसृष्वथ ॥८७॥
प्रासादायामविस्तीर्णे तस्याग्रे मुखमण्डपः ।
भद्र स्य पार्श्वद्वितये बाह्यतो भद्र विस्तृतम् ॥८८॥
शालायुग्मं विधातव्यं त्रिपदायामविस्तृति ।
भागिकभद्र माणोपेतं यदिकाच्च पयास्वित ॥८९॥
द्विभागायामविस्तारे भागिकभ्रमणान्विते ।
शाले द्वे पुरतः कार्ये साम्मुख्याच्च परस्परम् ॥९०॥
पञ्चस्वलं भवेदेवं पृष्ठभद्रं यदा शुभम् ।
याम्योत्तरे चतुःशाले भद्र द्वयपञ्चकञ्जरा ॥९१॥
पृष्ठभद्रं यदैतस्या--- न्मध्यशालया ।
कक्षाभद्रे तथा स्यायुते गन्धर्वनगरी तदा ॥९२॥
पञ्च त्रीण्येव भद्रा णि पञ्चशालान्वितानि च ।
शिशुतत्षट्त्रिंशत्तमा ज्ञेया सा जगत्यमरावती ॥९३॥
शुण्डिकाग्रे यदैतस्याः शाला सम्पद्यते क्वचित् ।
तदा स्याद्दन्तचूडेति जगती जगतः प्रिया ॥९४॥
इयनि शुण्डिकाशाला गण्डशालाद्वयान्विताः ।
त्रिदशेन्द्र सभा ज्ञेया ससुण्डी देवयन्त्रिका ॥९५॥
इति चतुरस्त्राणां कीर्त्यतेषायताः कासानकामा ।
सप्तभागायते क्षेत्रे भागपञ्चकविस्तृते ॥९६॥
द्विभागायतविस्तारे स्तः शाले वामदक्षिणे ।
चतुष्किकैकभागेन तयोरेवाग्रतो भवेत् ॥९७॥
भ्रमश्च भागिको मध्ये समन्ताच्च विधीयते ।
प्रतोल्या भूषिता खण्डशुण्डिकाभिरलङ्कृता ॥९८॥
मत्तवारणशोभाढ्या यमालेखा प्रकीर्तिता ।
यदा स्यात्पृष्ठतः कन्दो भागत्रितयविस्तृतः ॥९९॥
भागत्रितयनिष्क्रामश्चतुर्धा भाजितः पुनः ।
द्विभागायामविस्तारा शाला भागद्वयं भ्रमः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T19:51:38.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

recipient

  • पानेवाला, आदाता 
  • प्राप्तकर्ता, पानेवाला 
  • ग्राहक 
  • पु. ग्रहीता 
More meanings
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site