TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः - १०१ ते १५०
सार्धत्रिगुणसूत्रेण पूर्वा कर्कटना भवेत् ।
चतुर्गुणं मूलसूत्रेण मध्ये कर्कटना स्मृतौ ॥१०१॥
विभज्य दशधा स्कन्धविस्तारं तैः प्रकल्पयेत् ।
भद्रं चतुर्भिः कर्णाशुर्णांस्तु कुर्याद्भस्त्रिभिस्त्रिभिः ॥१०२॥
स्वच्छाया भूमिकाः कार्या या वा मूलार्धभागिकीः ।
भागेनामलसारं च कुमुदं चार्धभागिकम् ॥१०३॥
कुम्भं भागेन कुर्वीत प्रासादे रुचके बुधः ।
साधारणोऽयं सर्वेषां प्रासादस्तु दिवौकसाम् ॥१०४॥
रुचकः ।
पुण्ड्रवर्धनकं ब्रूमः प्रासादं वल्लभं हरेः ।
भ्रमयेन्मूलसीमास्पृग्वृत्तमादौ समन्ततः ॥१०५॥
तच्छालाकर्णसंयुक्तं कर्तव्यं सर्वतोदिशम् ।
यश्छन्दः स्वस्तिकेऽस्य स्याद्द्विगुणः पुण्ड्रवर्धने ॥१०६॥
जङ्घोदकान्तभद्रा णामुच्छ्रायो विस्तृतिश्च या ।
स्वस्तिके कथिता सैव विज्ञेया पुण्ड्रवर्धने ॥१०७॥
पुण्ड्रवर्धनः ।
अथाभिधीयते मेरुर्दशधा तत्र भाजयेत् ।
सीमानं तस्य कुर्वीत शृङ्गं चापि विभागिकम् ॥१०८॥
शेषं भागिकं भद्र मायमाने विधीयते ।
पदस्य षोडशौसेनं कर्तव्यमुदकान्तरम् ॥१०९॥
पदैः षोडशभिर्गर्भो विधातव्यः पदं पदम् ।
भित्तिरन्धारिका बाह्यभित्तिश्चास्य विधीयते ॥११०॥
भागषट्कोच्छ्रिता जङ्घा मेखला चैकभागिकी ।
शृङ्गं च त्रिपदोत्सेधं शिखरं स्याद्दशोच्छ्रितम् ॥१११॥
कर्तव्यं वास्तुशास्त्रज्ञैस्तस्यैकादशभूमिकम् ।
अर्धपञ्चमविस्तारः स्कन्धो ग्रीवार्धभागिका ॥११२॥
उच्छ्रायेण विधातव्या भागिकोत्सेधमण्डकम् ।
भागाधिकं च कुमुदं भागिका कलशोच्छ्रितिः ॥११३॥
षड्गुणेनैव सूत्रेण रेखा तस्य प्रकीर्तिता ।
मेरुं मेरुगिरिप्रख्यमेवं यः कारयेदिमम् ॥११४॥
शिलाभिरिष्टकाभिर्वा स महत्पुण्यमाप्नुयात् ।
मेरुः ।
लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥११५॥
गर्भस्यार्धेन निष्क्रान्तं भद्रं कुर्वीत मन्दरे ।
--- मेरुसङ्काशं विन्यस्येत् सर्वतोदिशम् ॥११६॥
वलभी मध्यदेशे तु शिखरोर्ध्वसमुद्धृता ।
सर्वमन्यत्प्रमाणं तु मेरोरिव भवेदिह ॥११७॥
मन्दरः ।
कैलासमथ वक्ष्यामो दशधा तं विभाजयेत् ।
भद्रं षड्भागविस्तारं मध्यदेशे विनिःसृतम् ॥११८॥
कर्णद्विभागविस्ताराः सलिलान्तरवर्जिताः ।
गर्भस्यार्धेन विष्कासः कार्यो भद्र स्य सर्वतः ॥११९॥
लतिस्याखरं मध्ये शिखरार्धसमोदयम् ।
भित्तिगर्भभ्रमन्तीमां जङ्घामेखलयोरपि ॥१२०॥
विस्तारमुदयं चास्मिन् विदध्यात्स्कन्धशृङ्गयोः ।
मेरोरिवास्मिन् प्रासादे ववचद्व ग्रीवाण्डकस्य च ॥१२१॥
कैलासः ।
ब्रूमोऽथ हंसकमस्य स्याद्विभागो रुचके यथा ।
जलान्तरं विशेषोऽत्र शेषं भरुचकवद्भवेत् ॥१२२॥
हंसः ।
भद्र स्य लक्षणं ब्रूमो दशधा तं विभाजयेत् ।
गर्भविस्तारमानेन स्यादस्मिन् भद्र विस्तृतिः ॥१२३॥
सार्धद्विभागविस्तारौ रथकौ वामदक्षिणौ ।
गर्भार्धा तुल्यमायामात्प्राग्ग्रीवं चेहलं कारयेत् ॥१२४॥
प्राग्ग्रीवस्य समुत्सेधं शिखरार्धेन कारयेत् ।
वलभीं मध्यदेशेऽस्य सिंहकर्णसमन्विताम् ॥१२५॥
लताजलेगवाक्षाद्याश्चतुष्काभिश्चतुर्दिशम् ।
भद्रो भवति शेषं तु स्यादत्र रुचके यथा ॥१२६॥
भद्र म् ।
अथ तुङ्गं प्रवक्ष्यामो द्वितीयो ह्येष मन्दरः ।
भूषयेत्सिंहकर्णैस्तं लतामूर्ध्वं च कारयेत् ॥१२७॥
भूमिभूमिसमुत्सेधः स्तम्भचित्रादिकं तथा ।
मेरोरिवात्र मध्ये तु मञ्जर्यः सर्वतोदिशम् ॥१२८॥
तुङ्गः ।
ब्रूमोऽथ मिश्रकं स स्यान्मानसंस्थानलक्षणैः ।
भौमो विमानवन्मध्ये शृङ्गं कैलासवद्भवेत् ॥१२९॥
मिश्रकः ।
अथ मालामाकारं तु तं कृत्वा गवाक्षैरुपशोभयेत् ।
यत्किञ्चिन्मानमध्यं तु तदाद्यस्येव प्रकल्पयेत् ॥१३०॥
गवयः ।
चित्रकूटमथ ब्रूमो दशधा तं विभाजयेत् ।
प्राग्ग्रीवा निर्गता तस्य गर्भमानेन कारयेत् ॥१३१॥
सार्धद्वयाधोविस्तारांस्तत्कर्णान् वामदक्षिणान् ।
उत्सेधस्य त्रिभागेन जङ्घोत्सेधं प्रकल्पयेत् ॥१३२॥
जङ्घोत्सेधत्रिभागन विन्यस्येत्खुरपिण्डिकाम् ।
कपोतान्तरपत्रं च तत्र स्यादर्धभागिकम् ॥१३३॥
शिखरोत्सेधमानं यत्तत्त्रयोदशभिः पदैः ।
तत्र भूमास्तदुत्सेधं कल्पयेदनुसारतः ॥१३४॥
स्तास्तम्भसो भित्तिः कुर्यान्मुक्ताश्च परिकर्मणा ।
कूटच्छेदेन तत्कर्म विन्यस्येत् सर्वतोदिशम् ॥१३५॥
भक्तमन्तरपत्रेण तलच्छन्दं तदूर्ध्वतः ।
द्वे द्वे कूटे ततो न्यस्येद्वामदक्षिणकर्णयोः ॥१३६॥
शालामध्ये तु चत्वारि नामे कूटानि सर्वतः ।
भूमिकाः सिंहकर्णाश्च कपाटद्वारघट्टनाः ॥१३७॥
शिखराणां समुत्सेधो यथैवाद्ये तथा भवेत् ।
चित्रकूटः ।
किरणः कथ्यते स स्यात्पद्मतुल्यः प्रमाणतः ॥१३८॥
द्वात्रिंशदनारा नस्मिन् विदध्यात्षोडशाथवा ।
शालासु भेदः कर्णैः स्याच्छेषं मालाधरे यथा ॥१३९॥
किरणः ।
सर्वाङ्गसुन्दरं ब्रूमः कर्मभेदैरनेकधा ।
नानाशिल्पलताधारं प्रासादैर्बहुभिर्युतम् ॥१४०॥
तलच्छन्दतुल्यन्यासविरुक्तं बहुलक्षणम् ।
ना --- प्रासादे सर्वसुन्दरे ॥१४१॥
तोरणैः सिंहकर्णैश्च संयुक्तं परिकर्मभिः ।
प्रमाणमिह यत्किञ्चित्सर्व विद्यात्तदाद्यवत् ॥१४२॥
सर्वसुन्दरः ।
श्रीवत्समथ वक्ष्यामो दशधा तं विभाजयेत् ।
भागत्रयेण कुर्वीत शालां तत्र विचक्षणः ॥१४३॥
सार्धभागप्रविस्तारौ रथकौ वामदक्षिणौ ।
मूलकर्णा भवन्त्यत्र भागद्वितयविस्तृताः ॥१४४॥
प्रासादहस्तमात्राभिः प्रत्येकं भद्र निर्गमः ।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव वा ॥१४५॥
भली मध्ये तु मञ्जर्यः कार्याः पद्मदलोपमाः ।
सर्वतः परिकर्म स्याद्र थिका कर्णसंश्रया ॥१४६॥
आमलिश्चन्द्र शालाभिः स्कन्धान्तं परिपूरयेत् ।
खुरपिण्डा च जङ्घा च कुम्भाग्रं शिखरादि च ॥१४७॥
यत्किञ्चित्तत्प्रमाणेन वर्धमानसमं भवेत् ।
नन्द्यावर्तः ।
ब्रूमो वलभ्यं स भवेद्गृहराजस्य सन्निभः ॥१४८॥
आयतश्चतुरश्रो वा प्रमाणेनैकतः समः ।
चतुरश्रस्तु विस्तारादुदयो द्विगुणो भवेत् ॥१४९॥
आध्यतन्त्रस्य पुनः सार्धः स्कन्धोच्छ्रायो विधीयते ।
विस्तारं दशधा समक्ष---तुरश्र समन्तः ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:29.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कमठ II.

  • n. महीनगर के हारित नामक ब्राह्मण का पुत्र । वृद्ध ब्राह्मण का रुप ले कर सूर्य इसके पास आया तथा उसने कुछ प्रश्न पूछे । उसके इसने समर्पक उत्तर दिये । तब सूर्य ने इसे बताया कि, तेरा पिता स्मृतिकार होगा, इस स्थान का त्याग नहीं करेगा तथा यह स्थान जयादित्य नाम से प्रसिद्ध होगा [स्कंद.१.२.५१] 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site