TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - ५१ ते १००
यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया ।
एकशालं द्विशालं च चतुःशालेन युज्यते ॥५१॥
यदा तदा सप्तशालमपरं वेश्म जायते ।
सैकशालं चतुःशालं यमसूर्येण संयुतम् ॥५२॥
तदा भवेद्विभेदः स्यात्तद्गृहं श्रीप्रदायकम् ।
वातेन श्रीपदं तद्वद्दण्डेन श्रीप्रदं भवेत् ॥५३॥
सिद्धार्थकेन श्रीमालं तद्वदेव प्रजायते ।
पञ्चानां राजयोग्यानां स्युश्चतुश्शालवेश्मनाम् ॥५४॥
सप्तशालानि संयोगादेकशालद्विशालयोः ।
युज्यते सर्वतोभद्रं सिद्धाथं च यदा गृहम् ॥५५॥
एकशालेन जायेत श्रीपदं श्रीपदं तथा ।
सर्वतोभद्र गेहस्य यमसूर्यैकशालयोः ॥५६॥
योगेन श्रीफलं नाम स्याद्गृहं श्रीफलावहम् ।
सर्वतोभद्र दण्डाभ्यामेकशालं युतं यदा ॥५७॥
श्रीस्थलं नाम भवनं तदा स्यादास्पदं श्रियः ।
स्यादेकशाले मिलिते सर्वतोभद्र वातयोः ॥५८॥
लक्ष्मीनिवासभवनं गृहं श्रीतनुसंज्ञितम् ।
यदैकशालं सिद्धार्थं वर्धमानं च युज्यते ॥५९॥
श्रीपर्वताभिधानं स्यात्तदानीं भवनोत्तमम् ।
यमसूर्यस्य योगेन वर्धमानैकशालयोः ॥६०॥
श्रीवर्धनं नाम गृहं श्रियो वृद्धिकरं भवेत् ।
दण्डं च वर्धमानं च सैकशालं यदा भवेत् ॥६१॥
तदा श्रीसङ्गमं नाम भवेद्भवनमुत्तमम् ।
यदैकशालं वाताख्यं वर्धमानं च युज्यते ॥६२॥
भवनं श्रीप्र्सङ्गाख्यं नृपयोग्यं तदा भवेत् ।
सिद्धार्थमेकशालेन नन्द्यावर्तेन चान्वितम् ॥६३॥
श्रीभारं नाम भवनं भवेद्भूपालसेवितम् ।
नन्द्यावर्तस्य योगेन यमसूर्यैकशालयोः ॥६४॥
राज्ञां सुखावहं वेश्म श्रीभारमिति च स्मृतम् ।
श्रीशैलमेकशालेन स्यान्नन्द्यावर्तदण्डयोः ॥६५॥
योगाद्भोगावहं राज्ञां सप्तशालं गृहोत्तमम् ।
एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥६६॥
श्रीखण्डं नाम भवनं भूभृतां भूतिकृद्भवेत् ।
सिद्धार्थस्यैकशालेन संयोगाद्रुचकस्य च ॥६७
श्रीषण्डं नामतो वेश्म भवेद्योग्यं महीभृताम् ।
रुचकस्यैव योगेन यमसूर्यैकशालयोः ॥६८॥
स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः ।
वातैकशालरुचकैर्युक्तैः श्रीनाभमुच्यते ॥६९॥
भवनं भूमिपालानां तद्भवेद्भूतिदायकम् ।
एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ॥७०॥
श्रीप्रियं स्यात्तदा वेश्म सन्ततं वल्लभं श्रियः ।
यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥७१॥
तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम् ।
एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ॥७२॥
श्रीमतं नामतो वेश्म तदा स्याद्विजयावहम् ।
वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥७३॥
श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम् ।
एकैकस्य द्विभेदत्वाच्चत्वारिंशदियं भवेत् ॥७४॥
एवमत्र प्रकाराः स्युश्चत्वारिंशद्युताष्टभिः ।
यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥७५॥
तदापि सप्तशालं स्याच्चतुर्धेदं समासतः ।
पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् ॥७६॥
त्रिशालं स्यात्तदा सप्तशालं विंशतिभेदवत् ।
हिरण्यनाभभोगेन सर्वतोभद्र मन्दिरम् ॥७७॥
श्रीवत्सं जनयेद्वेश्म नरेन्द्रा णां हितावहम् ।
श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥७८॥
चुल्लीयुक्ते पुनस्तस्मिन् श्रीपालं नाम जायते ।
पक्षघ्ने सर्वतोभद्र युक्ते श्रीकण्ठमुच्यते ॥७९॥
हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् ।
श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥८०
वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः ।
पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ॥८१॥
तदा श्रीमण्डनं नाम जायते भवनोत्तमम् ।
जाते हिरण्यनाभस्य नन्द्यावर्तेन सङ्गमे ॥८२॥
स्याद्वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् ।
नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥८३॥
नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् ।
नन्द्यावर्तस्य पक्षघ्नयोगे कुम्भं प्रजायते ॥८४॥
हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्गकम् ।
श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥८५॥
चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते ।
श्रीधरं नाम पक्षघ्ने भवेद्रुचकसंयुते ॥८६॥
हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् ।
सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥८७॥
चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् ।
स्वस्तिकस्य यदा योगः पक्षघ्नेन प्रजायते ॥८८॥
श्रीनिकेतनसंज्ञं स्यात्तदा नृपतिमन्दिरम् ।
उक्तानि सप्तशालानि नामलक्षणयोगतः ॥८९॥
सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि ।
भवन्ति च सतां वित्तयशोविजयवृद्धये ॥९०॥
एकादिमूषावहनप्रभेदादथ वेश्मनाम् ।
एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥९१॥
वहत्येकापि नो यत्र मूषैकं तद्भवेद्गृहम् ।
विभद्र मेकभद्रा णि विजानीयाच्चतुर्दश ॥९२॥
द्विभद्र वेश्मनां सैका नवतिः परिकीर्तिता ।
भवनानां त्रिभद्रा णां चतुःषष्टिः शतत्रयम् ॥९३॥
सहस्रमेकाभ्यधिकं स्याच्चतुर्भद्र वेश्मनाम् ।
भवतः पञ्चभद्रा णां द्वे सहस्रे द्विसंयुते ॥९४॥
षड्भद्रा णां सहस्राणि त्रीणि त्रीणि गृहाणि च ।
द्वात्रिंशता चतुस्त्रिंशत्सप्तभद्र शतानि च ॥९५॥
अष्टभद्रा णि षड्भद्र सङ्ख्यातुल्यानि जायते ।
गृहाणां नवभद्रा णां द्वे सहस्रे तथा द्वयम् ॥९६॥
सहस्रं दशभद्रा णामेकोत्तरमुदाहृतम् ।
तथैकादशभद्रा णां चतुष्षष्ट्या शतत्रयम् ॥९७॥
सैका द्वादशभद्रा णां नवतिर्वेश्मनां भवेत् ।
स्युस्त्रयोदशभद्रा णि गृहाणीह चतुर्दश ॥९८॥
यच्चतुर्दशभिर्भद्रै रेकमेव हि वेश्म तत् ।
इत्येषां सप्तशालानां सहस्राण्यत्र षोडश ॥९९॥
एकोनत्रिंशती तद्वदशीतिश्चतुरुत्तरा ।
इदानीमष्टशालानि भवनान्यभिदध्महे ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:23.7270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गंजिफा खेळणें

  • (उप.) एखाद्या समारंभामध्ये जेवणाची पंगत उठल्‍यानंतर पत्रावळी काढणें. 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.