संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः

जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम् ।
विस्तारं सतलोच्छ्रायं द्र व्यव्यासविधिं तथा ॥१॥
कथिता ये निराधाराः प्रासादास्तिर्यगायताः ।
तेषां भागचतुष्केण गर्भवासं विभाजयेत् ॥२॥
द्वारं सार्धेन भागेन कुर्वीत स्वार्धविस्तृतम् ।
द्वारविस्तारपादेन पेद्याया विस्तृतिर्भवेत् ॥३॥
विस्तारार्धेन पिण्डः स्यात्तत्समः स्यादुदुम्बरः ।
सार्धमूलादुम्बरकः शाखा व्यासवशाद्भवेत् ॥४॥
चतुर्विधश्च कर्तव्यः पेद्यापिण्डः प्रमाणतः ।
शाखा तु पेद्यापिण्डश्च विस्तारेण विधीयते ॥५॥
शाखाविस्तारतो रूपशाखा स्यात्सार्धविस्तृतिः ।
अर्धेन पेद्यापिण्डस्य खल्वशाखा विधीयते ॥६॥
रूपशाखासमाः कार्या विस्तारात्तुङ्गशाखिकाः ।
तुङ्गाया बाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ॥७॥
अष्टांशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः ।
द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत्तु या ॥८॥
तलोदयस्य तन्मानं गर्भमण्डपयोः समम् ।
यदि भिन्नतलं कर्तुं मण्डपः कश्चि हीयते ॥९॥
द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात्तलोच्छ्रितिः ।
प्रासादेषु कनीयस्सु तलमानमुदाहृतम् ॥१०॥
षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः ।
बलविधिः समपदः प्रासादस्य विधीयते ॥११॥
नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्चाप्युदुम्बरात् ।
कुम्भिकाभरणपट्टजयन्तीशीर्षकायफलकेषु तुला ।
उक्तमिह यत्प्रथमं तन्नाधिकं प्रविदधीत न हीनम् ॥१२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP