TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

यन्त्रविधानं नामैकत्रिंशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


Templयन्त्रविधानं नामैकत्रिंशोऽध्यायः - ५१ ते १००
न विस्तरान्न सङ्क्षेपात्साम्प्रतं संप्रचक्ष्महे ।
कस्यचित्सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥५१॥
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् ।
क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ॥५२॥
तीर्यंगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ।
गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥५३॥
कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ।
शब्दो विचित्रः सुखदो रतिकृद्भीषणस्तथा ॥५४॥
उच्छ्रायस्तु जलस्य स्यात्क्वचिद्भूजेऽपि शस्यते ।
गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥५५॥
वीणा च कांस्यतालश्च तृमिला करटापि च ।
यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥५६॥
समस्तमपि तद्यन्त्राज्जायते कल्प्लनावशात् ।
नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ॥५७॥
राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति ।
तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातितः ॥५८॥
ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ।
भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥५९॥
चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ।
जायन्ते यन्त्रनिर्माणाद्विविधानीप्सितानि च ॥६०॥
यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः ।
हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो यथा ॥६१॥
धावनं हस्तियुद्धं च गजानामगडोऽपि च ।
नानाप्रकार या चेष्टा नानाधारागृहाणि च ॥६२॥
दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ।
चित्रा सेन च कुट्यश्च स्वयंवाहकसेवकाः ॥६३॥
सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः ।
एवंप्रायाणि चान्यानि यन्त्रात्सिध्यन्ति कल्पनात् ॥६४॥
विधाय भूमिकाः पञ्च शय्या त्वादिभुवि स्थिता ।
प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥६५॥
एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः ।
क्रमेण त्रिशतावर्तं स्थाले दन्ता भ्रमन्त्यसौ ॥६६॥
तन्मध्ये पुत्रिका कॢप्ता प्रति नाडिं प्रबोधयेत् ।
वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥६७॥
अवस्तुतोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा ।
निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥६८॥
क्षीरोदमध्यगा शय्या प्रतीष्टाधः फणाभृता ।
गोलश्च सूतिविहितः सूर्यादीनां प्रदक्षिणम् ॥६९॥
परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् ।
गजादिरूपे रथिकरूपतां गमितः पुमान् ॥७०॥
भ्रान्त्वा नादिकया तस्याः पर्यन्ते हन्ति भोजनम् ।
दीपिकापुत्रिका कॢप्ता क्षीणं क्षीणं प्रयच्छति ॥७१॥
दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् ।
यावत्प्रदीयते वारि तावत्पिबति सन्ततम् ॥७२॥
यन्त्रेण कल्पितो हस्ती न तद्गच्छत्प्रतीयते ।
शुकाद्याः पक्षिणः कॢप्तास्तालस्यानुगमान्मुहुः ॥७३॥
जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च ।
पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥७४॥
वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः ।
येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥७५॥
यात्यायाति पुनस्तद्वद्गर्तात्पुष्करिणीष्वपि ।
फलके कानि तिष्ठन्ति धावन्त्यनुमतानि च ॥७६॥
धातां ददति युध्यन्ते निर्यान्त्यश्रमनावृतम् ।
नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥७७॥
निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः ।
याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥७८॥
दुष्करं यद्यदन्यच्च तत्तद्यन्त्रात्प्रसिध्यति ।
यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥७९॥
तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः ।
कथितान्यत्र बीजानि यन्त्राणां घटना न यत् ॥८०॥
तस्माद्व्यक्तीकृतेष्वेषु न स्यात्स्वार्थो न कौतुकम् ।
वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥८१॥
अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद्यथा ।
यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥८२॥
नन्द्यानि यस्मात्तान्यातो विज्ञेयान्युपदेशतः ।
एतत्स्वबुद्ध्यैवास्माभिः समग्रमपि कल्पितम् ॥८३॥
अग्रतश्च पुनर्ब्रूमः कथितं यत्पुरातनैः ।
बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे- ।
ष्वम्भोग्निभूमिपवनैर्निहितैर्यथावत् ।
प्रत्येकतो बहुविधं हि विभागतः स्या- ।
न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥८४॥
किमेतस्मादन्यद्भवति भुवने चित्रमपरं ।
किमन्यद्वा तुष्ठ्यै भवति किमु वा कौतुककरम् ।
किमन्यद् वा कीर्त्तेर्भवनमपरं कामसदनं ।
किमस्मात्पुण्यं वा किमिव च परीतापशमनम् ॥८५॥
एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः ।
भ्रान्त्या नान्यश्चित्रकृद्दारुकॢप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥
पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः ।
सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥
चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् ।
ये वा कृत्स्नं योजयन्तेऽत्र सम्यक्तेषां कीर्त्तिर्द्यां भुवं चावृणोति ॥८८॥
अङ्गुलेन मितमङ्गुलपादेनोच्छ्रितं द्विपुटकं तनुवृत्तम् ।
संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥८९॥
दारवेषु विहगेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन ।
आतनोति विचलन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥९०॥
सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् ।
ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥९१॥
पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् ।
ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥९२॥
अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं ।
चित्राञ्शब्दान् मृगशिशुदृशां यान्ति भीत्येव मानः ।
किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां ।
प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥९३॥
पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला ।
डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि ।
मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं ।
तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥९४॥
लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य ।
उदरे रसयन्त्रमादधीत ज्वलनाधारमधोऽस्य चातिपूर्णम् ॥९५॥
तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोच्चालप्रोज्झितेनानिलेन ।
सुप्तस्वान्तः पारदस्यास्य शक्त्या चित्रं कुर्वन्नम्बरे याति दूरम् ॥९६॥
इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यलघु दारुविमानम् ।
आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७॥
अयःकपालाहितमन्दवह्निप्रतप्ततत्कुम्भभुवा गुणेन ।
व्योम्नो झगित्याभरणत्वमेति सन्तप्तगर्जद्र सराजशक्त्या ॥९८॥
वृत्तसन्धितमथायसयन्त्रं तद्विधाय रसपूरितमन्तः ।
उच्चदेशविनिधापिततप्तं सिंहनादमुरजं विदधाति ॥९९॥
स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा ।
पुरस्ताद्यस्यैता मदजलमुचोऽपि द्विपघटाः ।
मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं ।
पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T19:56:22.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

complementary wants

  • संपूरक गरजा 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.