TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते ९९

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः - ५१ ते ९९

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः - ५१ ते ९९
भागिका मेखला प्रोक्ता तन्मध्ये शिखरं भवेत् ।
मल्लच्छाद्यं च मध्ये स्याच्छृङ्गस्य शिखरस्य च ॥५१॥
एकभागोच्छ्रितं तच्च मञ्जर्यास्त्विह विस्तृतिः ।
गर्भभित्तिसमा कार्या सप्तभागा समुच्छ्रितिः ॥५२॥
ऊर्ध्वं द्वितीयशृङ्गस्य पूर्ववन्मूलमञ्जरी ।
अण्डकाद्यं यथोक्तं स्यात्सौभाग्योऽयं प्रकीर्तितः ॥५३॥
सौभाग्यः ।
विधीयते यदास्यैव विना भद्र मलिन्दकः ।
तदा विभङ्गको नाम प्रासादः स्यात्सुशोभनः ॥५४॥
विभङ्गकः ।
यदि भद्र स्य निष्कासः क्रियतेऽस्य तदा पुनः ।
प्रासादो विभवो नाम जायते परमोत्तमः ॥५५॥
विभवः ।
भागद्वयविनिष्क्रान्ता नन्दिका क्रियते यदि ।
तदा वदन्ति बीभत्ससंज्ञं प्रासादमुत्तमम् ॥५६॥
बीभत्सः ।
यदा निर्गमविस्तारसमा भवति नन्दिका ।
श्रीतुङ्ग इति विज्ञेयस्तदा प्रासादसत्तमः ॥५७॥
श्रीतुङ्गः ।
यदा त्वलिन्दकोऽस्यैव क्रियते न विनिर्गतः ।
प्रासादो मानतुङ्गाख्यस्तदानीमुपजायते ॥५८॥
मानतुङ्गः ।
ब्रूमोऽथ सर्वतोभद्रं दशधा तं विभाजयेत् ।
षड्विधान्त्या भवेज्ज्येष्ठः कनीयान् दशभिः करैः ॥५९॥
हस्तैस्तथाष्टादशभिर्मध्यमः परिकीर्तितः ।
कर्णा द्विभागिकाः कार्या अलिन्दाः षट्पदोन्मिताः ॥६०॥
चतुर्भागानिन् भद्रा णि विभागस्तद्विनिर्गमः ।
गर्भभित्तिर्बहिर्भित्तिरन्धारी च पदं पदम् ॥६१॥
गर्ग्भस्तु षोडशपद इत्येवं छन्द ईरितः ।
विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥६२॥
प्रथमं कल्पयेच्छृङ्गं विस्तारात्सार्धमुच्छ्रितम् ।
द्वितीयशृङ्गं तत्राल्पं पूर्वशृङ्गस्य मध्यगम् ॥६३॥
प्राच्छ्रिता षडायाम्या सुरःशिखमिष्यते ।
कर्तव्यं मूलशिखरं तद्वच्चोपरिशृङ्गयोः ॥६४॥
मञ्जर्या विभजेद्भागं विस्तारं दशधा बुधः ।
स्कन्धः षड्भागविस्तारो धनुर्ग्रीवाण्डकादिकम् ॥६५॥
श्रीवत्सस्येव तत्कार्यं मञ्जरी भागमानतः ।
क्रमार्धं वा पञ्चसिंह --- रूपैर्विभूषिता ॥६६॥
इत्युक्तः सर्वतोभद्रः --- कल्याणकारकः ।
सर्वतोभद्रः ।
अलिन्दशोभितं भद्रं यदास्यैव विधीयते ॥६७॥
तदा बाह्योदरो नाम प्रासादप्रवरो भवेत् ।
बाह्योदरः ।
यद्यलिन्दो न भवति भद्र मेकं तु निर्गतम् ॥६८॥
स्यान्निर्यूहोदरो नाम प्रासादप्रवरस्तदा  ।
निर्यूहोदरः ।
यदा न तत्र भद्रं स्यान्नन्दिकानिर्गमो भवेत् ॥६९॥
भद्र कोशं तदा विद्यात्षष्ठं प्रासादमुत्तमम् ।
भद्र कोशः ।
सर्वतोभद्र षट्कम् ।
चित्रकूटमथ ब्रूमस्तं भजेदष्टभिः पदैः ॥७०॥
कुर्यात्करेभ्योऽष्टाभ्यस्तं यावत्स्याद्धस्तविंशतिः ।
कर्णभागिकविस्ताराः शेषालिन्दति विस्तृतिः ॥७१॥
भद्रं चतुष्पदं विद्याद्भागेनैकेन निर्गतम् ।
भागेन निर्गतोऽलिन्दो भिह्त्त्यन्धार्यः पदं पदम् ॥७२॥
द्विपदोऽस्य भवेद्गर्भस्तलच्छत्ति समशिखमिष्यते ।
अण्डकं भागिकं कार्यं क्रमाच्च क्रमसंवृता ॥७३॥
ऊर्ध्वं द्वितीयशृङ्गस्य कर्तव्या मूलमञ्जरी ।
सप्तभागोदया प्राग्वद्भागषट्कं तथायता ॥७४॥
प्रासादमीदृशं कुर्याच्चित्रकूटं प्रमाणतः ।
चित्रकूटः ।
भद्रा गवविनिष्क्रा तस्यैव यदा भवेत् ॥७५॥
प्रासादो विमलो नाम तदानीमुपजायते ।
विमलः ।
अलिन्दस्तु यदास्यैव भद्र हीनो विधीयते ॥७६॥
तदानीं हर्षणो नाम प्रासादः स विजायते ।
हर्षणः ।
क्रियते तु यदास्यैव कूर्परं भागनिर्गमम् ॥७७॥
तदानीं भद्र संकीर्णः प्रासादो जायते शुभः ।
भद्र संकीर्णः ।
अस्यैव तु यदा भद्रं भागेनैकेन निर्गतम् ॥७८॥
भवेत्तदानीं प्रासादो नाम्ना भद्र विशालकः ।
भद्र विशालकः ।
--- भद्रै श्च विना यदा त्वेष विधीयते ॥७९॥
तदानीं भद्र विष्कम्भः प्रासादः स्यात्सुस्वप्रदः ।
भद्र विष्कम्भः ।
चित्रकूटादिषट्कम् ।
चतुरश्रे समे क्षेत्रे विभक्तेऽष्टभिरष्टकैः ॥८०॥
प्रासादं चयेद्वा उज्जयन्तं सुशोभनम् ।
पदमेकं भवेत्कर्णस्तिलकन्तावदेव च ॥८१॥
सभित्तिगर्भमानेन भद्रं कुर्याद्विचक्षणः ।
बाह्यभित्तिर्भवेद्भागं भागमेकं प्रदक्षिणा ॥८२॥
भागिका गर्भभित्तिश्च गर्भमध्ये चतुष्पदम् ।
पञ्चभागोन्मिता जङ्घा भागं तत्रैव मेखला ॥८३॥
कर्तव्यं भागिकं शृङ्गण्डकं चार्धभागिकम् ।
द्वितीयं साण्डकं शृङ्गं तत्समं पदमध्यगम् ॥८४॥
मल्लच्छाद्यं विधाटव्यमुत्सेधेनार्धभागिकम् ।
पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् ॥८५॥
भागिकः कलशः कार्यो ध्वजशं ---स्य तत्समः ।
एतस्य मूलशिखरं कुर्यात् षड्भागविस्तृतम् ॥८६॥
भागाधिकसमुत्सेधं कार्यं कल्याणमिच्छता ।
ऊर्ध्वं र्तिलकशृङ्गस्य शिखरं स्यात्पदोच्छ्रितम् ॥८७॥
पञ्चाशद्विस्तृतं शेषं श्रीवत्सस्येव कारयेत् ।
इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥८८॥
कार्योऽयं सर्वदेवस्य प्रासादः शुभलक्षणः ।
उज्जयन्तः ।
चित्रकूटा यथोत्पन्नाः प्रासादा विमलादयः ॥८९॥
उज्जयन्तात्तथा पञ्च मेरुप्रभृतयो मताः ।
मेरुश्च मन्दरश्चैव कैलासः कुम्भ एव च ॥९०॥
गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः ।
अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥९१॥
ज्येष्ठमध्यकनिष्ठानां साधाराणां तथैव च ।
तेष्वलिन्दैर्युताः केचिद् भद्रैः केचिच्च वेष्टिताः ॥९२॥
केचिद्वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः ।
सर्वेऽप्येते विधातव्या भागप्रतिष्ठिताः ॥९३॥
कोणा न विषमाः कार्या वर्गभेदश्च नेष्यते ।
एकहस्ता द्विहस्ता --- ये प्रकीर्तिताः ॥९४॥
यक्षनारागृहादीनां रक्षसां च भवन्ति ते ।
भागेन धूमः स्रतु त्रेधा विनिर्दिशेत् ॥९५॥
ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः ।
ज्येष्ठं साधत्रिहस्तं स्यात्त्रिहस्तं मध्यमं विदुः ॥९६॥
सार्धहस्तद्वयमितं कनीयस्तद्विधीयते ।
त्रिहस्तं ज्येष्ठमपरं मध्यं हस्तसमन्वितम् ॥९७॥
अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम् ।
ज्येष्ठो भागो द्विहस्तः स्यात्पादोनंमध्यमः करम् ॥९८॥
कनीयान् मध्यमार्धेन भागमानमिदं करैः ।
षडन्वितास्त्रिंशदमी विचित्राः ।
श्रीकूटकाद्यातिथिता ग्रवात् ।
प्रासादमुख्या इह षट्कप्रभेदा ।
भिन्ना --- सह मण्डपैश्च ॥९९॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:05:53.2270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सोटेवरदार

  • m  A mace-bearer. 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.