TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - १ ते ५०
वेश्मनां पञ्चशालानां कथ्यन्ते लक्षणान्यथ ।
चतुर्विंशतिसंयुक्तं सहस्रं तानि सङ्ख्यया ॥१॥
गुरूणां दशसङ्ख्यानां प्रस्तारस्य च कल्पनात् ।
गृहाणां पञ्चशालानां भेदा लघुविभागतः ॥२॥
पञ्चशालं भवेद्योगाद्गृहयोर्द्वित्रिशालयोः ।
यद्वा योगाद् भवेदेतच्चतुःशालैकशालयोः ॥३॥
चतुर्णामपि वर्णानामिदं सद्म प्रशस्यते ।
हिरण्यनाभप्रभृति वर्णानामिह वेश्मनाम् ॥४॥
सिद्धार्थादिसमायोगान्निष्पद्येत गृहाष्टकम् ।
योगाद्धिरण्यनाभस्य सिद्धार्थेन गृहं भवेत् ॥५॥
हेमकूटाख्यमस्यैव वातेन स्वर्णशेखरम् ।
सुक्षेत्रस्य च सिद्धार्थसंयोगेन श्रियावहम् ॥६॥
तस्यैव यमसूर्येण भवेद्वेश्म महानिधिः ।
चुल्ल्यास्तु यमसूर्येण सदादीप्तं प्रजायते ॥७॥
दण्डसंयोगतस्तस्य चित्रभान्बभिधं भवेत् ।
पक्षघ्नस्य तु दण्डेन सदादोषं विनिर्दिशेत् ॥८॥
पक्षघ्नस्यैव वातेन योगान्निर्विघ्नमुच्यते ।
न काचचुल्लीसंयोगस्त्रिशालादिषु शस्यते ॥९॥
अन्योन्यवीक्ष्यमाणानां भेदास्तेनेहे नोदिताः ।
एकशालयुतैर्भेदाः स्युश्चतुश्शालवेश्मनि ॥१०॥
चत्वारः पञ्चशालानां ब्रूमस्तेषां च विंशतिः ।
यदा भवत्यजा शाला सर्वतोभद्र वेश्मना ॥११॥
सुदर्शनमिति प्राहुः पञ्चशालं तदा गृहम् ।
तदेव करिणीयोगात्सुरूपमिति कथ्यते ॥१२॥
सुन्दरं महिषीयोगाद्गावीयोगात्तु शोभनम् ।
वर्धमानस्य चैतासां शालानां योगतः क्रमात् ॥१३॥
सुनाभं सुप्रभं योग्यं विनोदं च भवेद्गृहम् ।
नन्द्यावर्तेऽप्येवमेव शालायोगेन जायते ॥१४॥
सुखदं नन्दनं नन्दं पुण्डरीकं च मन्दिरम् ।
रुचकस्याप्यजादीनां योगेन स्युरनुक्रमात् ॥१५॥
नामतो भद्र रुचिररोचिष्णूनि प्रहर्षणम् ।
स्वस्तिकेऽप्यनया युक्त्या भवेद्गृहचतुष्टयम् ॥१६॥
घोषं सुघोषणं नन्दिघोषं श्रीपद्ममेव च ।
विंशतिः सर्वतोभद्र प्रभृत्यालययोगतः ॥१७॥
जातानि पञ्चशालानि योग्यानि पृथिवीभुजाम् ।
पूर्वोक्तैरष्टभिः सार्धं स्यादष्टाविंशतिर्गृहैः ॥१८॥
कथ्यते पञ्चशालानां मूषाभेदक्रमोऽधुना ।
विभद्र मेकं तत्रैकभद्रा णि दशसङ्ख्क्यया ॥१९॥
द्विभद्रा णि पुनः पञ्चचत्वारिंशत्प्रचक्षते ।
त्रिभद्रा णां शतं विंशत्युत्तरं द्वे दशोत्तरे ॥२०॥
चतुर्भद्र गृहाणां तु द्विपञ्चाशच्छतद्वयम् ।
गृहाणां पञ्चभद्रा णां षड्भद्रा णां दशोत्तरे ॥२१॥
द्वे शते सप्तभद्रा णां स्याद्विंशत्युत्तरं शतम् ।
गृहाणामष्टभद्रा णां चत्वारिंशच्च पञ्च च ॥२२॥
दश स्युर्नवभद्रा णि तथैकं दशभद्र कम् ।
एवं सहस्रमेकं स्याद्विंशतिश्च चतुर्युता ॥२३॥
गृहाणां पञ्चशालानां मूषावहमसङ्ख्यया ।
अथ लक्ष्म च संख्यां च ब्रूमः षट्शालवेश्मनाम् ॥२४॥
एकद्वित्रिचतुश्शालगृहाणां योजनान्मिथः ।
द्विशालस्यैकशालस्य त्रिशालस्य च योगतः ॥२५॥
षट्शालं जायते वेश्म भेदास्तस्य तु षोडश ।
पक्षघ्नवातयोर्योगादेकशालगृहस्य च ॥२६॥
स्यात्पङ्कजाङ्कुरं नाम गृहं षट्शालमुत्तमम् ।
हिरण्यनाभं सिद्धार्थं चैकशालेन वेश्मना ॥२७॥
संयोज्यं तु यदा गेहं तदा स्याच्छ्रीगृहं शुभम् ।
संयोगादेकशालेन सुक्षेत्रयमसूर्ययोः ॥२८॥
धनेश्वरं नाम गृहं जायते धनवृद्धये ।
दण्डाख्यचुल्ल्योः संयोगादेकशालगृहस्य च ॥२९॥
प्रभूतकाञ्चनकरं गृहं स्यात्काञ्चनप्रभम् ।
द्वादशान्यानि जानीयाद्भवनान्यनया दिशा ॥३०॥
एतेषामेव भेदेषु शुभान्यखिलवर्णिनाम् ।
तुल्यात्त्रिशालद्वितयात्षट्शालकचतुष्टयम् ॥३१॥
स्याद्द्विशालचतुःशालयोगादन्यच्चतुष्टयम् ।
सिद्धार्थेन चतुःशालं वेश्मनां संयुतिर्यदा ॥३२॥
गृहं तदा स्यात् षट्शालं त्रैलोक्यानन्दकं शुभम् ।
यमसूर्येण संयुक्तं विलासचयमुच्यते ॥३३॥
दण्डयुक्तं चतुःशालं सुखदं नामतो भवेत् ।
वातेन च चतुःशालं संयुक्तं श्रीपदं भवेत् ॥३४॥
चतुर्विंशतिरन्यानि षट्शालान्यन्ययोगतः ।
पञ्च यानि चतुश्शालान्युचितानि महीभृताम् ॥३५॥
तेषां द्विशालयोगेन षट्शालान्यभिदध्महे ।
सिद्धार्थे सर्वतोभद्र युक्ते स्याच्छ्रीपुरं गृहम् ॥३६॥
श्रीवासं सर्वतो भद्रे यमसूर्यान्विते भवेत् ।
दण्डाख्ये भद्र युक्ते श्रीभूषणं जायते गृहम् ॥३७॥
वाताख्यं सर्वतोभद्र योगाच्छ्रीभाजनं विदुः ।
सिद्धार्थे वर्धमानेन युक्ते स्याद्भूतिमण्डनम् ॥३८॥
यमसूर्ये तु तेनैव संयुक्ते भूतिभाजनम् ।
भूतिमानं तु दण्डाख्ये वाताख्ये भूतिभूषणम् ॥३९॥
नन्द्यावर्तस्य योगेन सिद्धार्थादि चतुष्टयम् ।
श्रीमुखं श्रीधरं श्रीमृच्छ्रीधरं चेति जायते ॥४०॥
सिद्धार्थादिचतुष्कस्य भवेद्रुचकयोगतः ।
श्रियाकारं श्रियोवासं श्रीयानं श्रीमुखं तथा ॥४१॥
सिद्धार्थादिचतुष्कस्य भवेत्स्वस्तिकयोगतः ।
धनपालधनानन्तधनप्रदधनाह्वयम् ॥४२॥
भवन्त्येवं राजवेश्मयोगतो विंशतिर्गृहाः ।
प्राक्चतुर्विंशतिश्चेति चत्वारिंशच्चतुर्युता ॥४३॥
मूषाव्यूढिवशादेकभद्रा दीन्यभिदध्महे ।
भिदाभिरेकं मूषाभिरभद्रं द्वादशैकया ॥४४॥
द्वाभ्यां षट्षष्टिरुद्दिष्टा विंशे द्वे तिसृभिः शते ।
स्याद्व्यूढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ॥४५॥
शतानि पञ्चभद्रा णां सप्त द्वानवतिस्तथा ।
चतुर्विंशा नवशती षड्भद्रा णामुदाहृता ॥४६॥
जानीयात्सप्तभद्रा णि संख्यया पञ्चभद्र वत् ।
गृहाणामष्टभद्रा णां पञ्चोनं शतपञ्चकम् ॥४७॥
द्वे विंशे नवभद्रा णां भवनानां शते विदुः ।
षट्षष्टिर्दशभद्रा णि तथा द्वादशसङ्ख्यया ॥४८॥
स्युरेकादशभद्रा ख्यान्येकं द्वादशभद्र कम् ।
एवं षट्शालगेहानां स्यात्साहस्रचतुष्टयम् ॥४९॥
षण्णवत्यधिकं ब्रूमः सप्तशालानि साम्प्रतम् ।
तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:23.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

self-medication programme

  • स्वयं औषधोपचार प्रायोजना 
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site