TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः - १ ते ५०
प्रासादमथ वारोयं वक्ष्यामो नामलक्षणैः ।
लक्षणैस्तेषु दिग्भद्रः श्रीवत्सो वर्धमानकः ॥१॥
नन्द्यावर्तश्चतुर्थः स्यात्पञ्चमो नन्दिवर्धनः ।
विमानश्च तथा पद्मो महाभद्रा ख्य एव च ॥२॥
श्रीवर्धमानकाख्यश्च महापद्मतोऽपि वा ।
एकादशः पञ्चशालो द्वादशः पृथिवीजयः ॥३॥
तत्र प्रागेव दिग्भद्रः श्रावणं प्रतिपाद्यते ।
चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥४॥
कोणो द्विभागविस्तारः प्रत्यङ्गौ भागिकौ स्मृतौ ।
शाला भागत्रया कार्या नासिकात्रयशोभिता ॥५॥
परस्परं विनिष्कासमर्धभागेन कारयेत् ।
कोणप्रत्यङ्गयोरन्तः शालाप्रत्यङ्गयोस्तथा ॥६॥
षोडशांशेन कुर्वीत---सलिलान्तरम् ।
सीमास्याद् दशभिर्भागैः प्रविभज्य विधीयते ॥७॥
---का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः ।
वर्धमानेनमथ ब्रूमो विस्ताराद् द्विगुणं हि तत् ॥८॥
द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा ।
शान्तापत्रा कपोताली सार्धभागं समुच्छ्रिता ॥९॥
सार्धभागसमुच्छ्राया कार्या प्रथमभूमिका ।
द्वितीया भूमिका ज्ञेया सार्धभागत्रयोदया ॥१०॥
तृतीया च विधेया स्यात्सार्धभागद्वच्छ्रिता ।
उछालकं च जङ्घा च भूमिकार्यं विधीयते ॥११॥
कूटं चार्धतो देयं कर्मशोभासमन्वितम् ।
घण्टा भागत्रयोत्सेधा बहुभिश्चाश्रिभिर्युता ॥१२॥
कलशं स्थापयेदूर्ध्वं भागद्वयसमुच्छ्रितम् ।
बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ॥१३॥
शिखरार्धस्य कुर्वीत सपादमुदयं तथा ।
इमं दिग्भद्र संज्ञं यः प्रासादं कारयेत्पुमान् ॥१४॥
शतक्रतुफलं सोऽपि लभते नात्र संशयः ।
लक्ष्म श्रीवत्ससंज्ञस्य प्रासादस्याभिधीयते ॥१५॥
चतुरश्रीकृते क्षेत्रे भक्ते पञ्चदशांशकैः ।
अस्योच्छ्रायो सकास्त्र्यंशस्त्रं क्षोणस्यादंशकैस्त्रिभिः ॥१६॥
कर्णशालान्तरे कार्यौ द्व्यंशौ प्रतिरथावुभौ ।
तयोरुभयोः सार्धं सादं तु मार्ग्रो निवेशयेत् ॥१७॥
भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका ।
निर्गमः स्यात्पदार्धेन गर्भस्तु नवभागिकः ॥१८॥
त्रिपदा च भवेद् भित्तिरूर्ध्वमस्याथ कथ्यते ।
श्रीवत्सः कीर्तितः सम्प्रत्युच्यते वर्धमानकः ॥१९॥
चतुरश्रीकृते क्षेत्रे --- भागकल्पितम् ।
छेदादि गिरिपत्र्यन्तं दद्यात्पूर्वक्रमेण तु ॥२०॥
द्विस्तरा त्रिस्तरा चापि कर्तव्या वेदिका मता ।
स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणो भवेत् ॥२१॥
पट्टिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत् ।
दशस्तरा ततो घण्टा यदि वामलसारकम् ॥२२॥
द्विस्तरं स्यात्ततः पद्मं द्विगुणः कलशस्ततः ।
तदूर्ध्वं भूमिका कार्या सपीठा लक्षणान्विता ॥२३॥
स्तरैः स्यात्पञ्चदशभिः पीठं जङ्घापि तावता ।
चतुःस्तरा भवेन्माला लशुनं तु स्तरद्वयम् ॥२४॥
तस्यार्धेन भरणं कुम्भं कुर्वीत तत्समम् ।
तस्य द्विगुणमुच्छालं गण्डमेकस्तरं भवेत् ॥२५॥
पट्टं द्विगुणमेतस्मात्कुर्यादर्धेन पट्टिकाम् ।
पट्टिकायाः प्रमाणेन कर्तव्या गिरिपत्रिका ॥२६॥
वरण्डी त्रिस्तरा कार्या शूरसेनैरलङ्कृता ।
एकस्तरस्ततश्छेदः कण्ठस्तु द्विगुणस्ततः ॥२७॥
पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् ।
उभौ स्तरौ खिरिहिरं भवेच्छेदः स्तरं ततः ॥२८॥
तथैव कण्ठस्तद्वच्च पट्टिकागिरिपत्रिके ।
वरण्डिका द्विस्तरा स्याच्छेषं पूर्ववदाचरेत् ॥२९॥
उभौ स्तरौ खिरिहिरं छेदं कुर्वीत भागिकम् ।
कण्ठश्च पत्रिका चैव गिरिपत्री च पूर्ववत् ॥३०॥
द्विस्तरा वेदिका कार्या द्यवपादिकया युता ।
छेदमेकं स्तरं कुर्यात्कण्ठं तद्द्विगुणं ततः ॥३१॥
पत्रिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत् ।
स्तराष्टकेन घण्टा स्याद्यदिवामलसारकम् ॥३२॥
भवेत्यमं --- कलशो द्विगुणस्ततः ।
स्तरमेकं भवेद्ग्रीवा कर्णं कुर्वीत तत्समम् ॥३३॥
द्विगुणं बीजपूरं तु पूर्वत्राप्येवमाचरेत् ।
--त्कृष्टा सप्तदशांशकैर्भागेस्त्रिभिर्भवेत् ॥३४॥
द्विभागिकः प्रतिरथः शाला स्यात्पञ्चभागिका ।
शालाप्रत्यङ्गयोरन्तर्भागार्धेनोदकान्तरम् ॥३५॥
परस्परं विनिष्कासः पादहीनं पदं भवेत् ।
गर्भः स्याद्दशभिर्भागैर्भित्तिः सार्धपदत्रयात् ॥३६॥
चतुर्भिर्वेदिकाबन्धो जङ्घा स्यादष्टभिः पदैः ।
सार्धैः पञ्चभिराद्या भूः कपोतालीसमन्विता ॥३७॥
तृतीया भूमिका चास्य कर्तव्या पञ्चभिः पदैः ।
सार्धैर्भवेत्तृतीयापि चतुर्भिर्भूमिका पदैः ॥३८॥
चतुर्थी भूमिका भागैश्चतुर्भिः कीर्तिता पदैः ।
घण्टा च त्रिपदा कार्या कूटभक्त्यादि पूर्ववत् ॥३९॥
शुकनासादि कुम्भादि पूर्ववत्समुदाहृतम् ।
उक्तोऽयं वर्धमानाख्यः प्रासादः शुभलक्षणः ॥४०॥
नन्द्यावर्तमथ ब्रूमः क्षेत्रे सप्तदशांशके ।
कोणांश्चतुष्पदान् कुर्यात्पञ्जरं सार्धभागिकम् ॥४१॥
षड्भिर्भागैर्भवेच्छाला गर्भस्तु दशभागिकः ।
साधत्रिभागिका भित्तिरूर्ध्वमानद्विभांगुणम् ॥४२॥
वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता ।
षट्पदा भूमिका --- पञ्चपदायता ॥४३॥
स्यात्सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता ।
सांद्भिवांसेवघटा स्यात्पूर्ववत्कलशादिकाः ॥४४॥
नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः ।
अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥४५॥
चतुरश्रीकृते क्षेत्रे पदाष्टदशकाङ्किते ।
कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात्पदद्वयम् ॥४६॥
शाला चतुष्पदा प्रोक्ता चित्रकर्मोपशोभिता ।
पादोनभागमानेन निर्गमः स्यात्परस्परम् ॥४७॥
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ।
भागेन विस्तृतं कार्यं सर्वत्र सलिलान्तरम् ॥४८॥
गर्भः स्याद्दशभिर्भागैर्भित्तिर्भागचतुष्टयात् ।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत्प्रकीर्तितम् ॥४९॥
वेदीबन्धॐऽशकाः पञ्च जङ्घा स्यादष्टभागिका
प्रथमा भूमिका कार्या कपोतालीसमन्विता ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:30.1800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोळे अंधारी, उजेड बाहेरी

  • भलतीकडेच लक्ष्य दिले असतां जी गोष्‍ट आपणांस पाहावयाची ती दिसणार नाही. 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.