TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
वनप्रवेशो नाम षोडशोऽध्यायः

वनप्रवेशो नाम षोडशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


वनप्रवेशो नाम षोडशोऽध्यायः
प्राग्वोदग्वापि गेहार्थे द्र व्यं विधिवदानयेत् ।
गन्तव्यमेव धिष्ण्येषु मृदुक्षिप्रचरेषु च ॥१॥
उपवास्यं च तेष्वेव च्छेद्यं भेद्यं च दारुणैः ।
प्रवेशनं स्थिरैः कार्यमारम्भः शस्यते चरैः ॥२॥
गत्वा शुभे शुचौ देशे निवेशं कारयेत् ततः ।
तस्मिन्निवेश्य कर्मान्तमन्नपानेन तर्पयेत् ॥३॥
पुष्टतुष्टपरीवारः क्षपायां समुपोषितः ।
गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽङ्घ्रिपम् ॥४॥
पुरश्मशानग्रामाध्वहृदचैत्याश्रमोद्भवान् ।
क्षेत्रोपवनसीमान्तर्विषमस्थलनिम्नजान् ॥५॥
कट्वम्लतिक्तलवणास्ववनीषु तथोद्गताम् ।
श्वभ्रावृतान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद्द्रुमान् ॥६॥
सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् ।
विजानीयाद्वयस्तेषां बालान् वृद्धांश्च सन्त्यजेत् ॥७॥
शतानि त्रीणि वर्षाणां सारद्रुमवयः स्मृतम् ।
गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥८॥
वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् ।
प्रोक्तं तद्वद्द्रुमाणां च स्यात्तथा छिद्र पत्रता ॥९॥
भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः ।
तस्मादिमांस्त्यजेद्वृक्षांस्तथा चैवोर्ध्वशोषिणः ॥१०॥
वक्रान् रूक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् ।
वर्जयेद् भग्नशाखांश्च द्व्येकशाखान्वितांस्तथा ॥११॥
अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् ।
ग्रन्थिनिर्युक्तदानांश्च भ्रमराहिकृताश्रयान् ॥१२॥
संसृष्टानेकतो भ्रष्टान् मधुभिर्बलिभिर्वृतान् ।
मांसामेध्याशनैस्तद्वद्दूषितानपि पक्षिभिः ॥१३॥
लूतातन्त्वावृतान्वन्यसत्त्वोद्घृष्टान् गजक्षतान् ।
बुध्नतोऽतिबृहत्स्कन्धांश्चिह्नभूतांस्तथाध्वनः ॥१४॥
अकाले पुष्पफलिनो रोगैरपि च पीडितान् ।
वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥१५॥
खदिरो बीजकः सालो मधूकः शाकशिंशपे ।
सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥१६॥
विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा ।
कुटुम्बिनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा ॥१७॥
वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता ।
ते यथायोग्यमन्येऽपि शस्यन्ते गृहकर्मणि ॥१८॥
कर्णिकारधवप्लक्षकपित्थविषमच्छदाः ।
शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधचम्पकाः ॥१९॥
निम्बाम्रकोविदाराक्षव्याधिघाताश्च गर्हिताः ।
गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायितः ॥२०॥
नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रुमाश्च ये ।
सुगन्धयश्च ये तद्वद्ध्रुवं तेषु पशुक्षयः ॥२१॥
सत्त्वप्रमाणच्छाया तु नियतं दृश्यते यदा ।
द्रुमच्छाया तदा ग्राह्या तत्प्रमाणस्तु स द्रुमः ॥२२॥
नक्षत्रं लक्षयेद्वृक्षे पूर्वस्यां दिशि तत्क्षितेः ।
स्याद्भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥२३
क्षेम्यं तं स्वामिनो वृक्षं ज्ञात्वा साधकमेव च ।
अग्रन्थिकोटरं स्निग्धमृजु सारसमन्वितम् ॥२४॥
पीनस्कन्धं हरित्पत्रं वृत्तं चाभ्यर्च्य पादपम् ।
द्विजान् सन्तर्प्य च स्वस्ति वाच्यं च स्थपतिस्ततः ॥२५॥
पक्वापक्वामिषैस्तद्वद्भूतभक्तैः सुरासवैः ।
गन्धैश्च धूपमाल्यैश्च बलिं दद्यान्निशागमे ॥२६॥
अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि ।
कल्पनं वर्तयिष्यामि क्रियतां वासपर्ययः ॥२७॥
धन्यः शिवः पुष्ठिकरः प्रजावृद्धिकरो भव ।
स्वस्ति चन्द्रा निलयमाः सूर्यरुद्रा नलास्तथा ॥२८॥
दिशो नद्यस्तथा शैलाः पान्तु त्वामृषिभिः सह ।
जल्पेद्यो मानुषगिरा कम्पते वाभिमन्त्रितः ॥२९॥
स त्याज्यः स्यात्तथा म्लानप्रवालकुसुमश्च यः ।
ततो भास्करमालोक्य वृक्षं कृत्वा प्रदक्षिणम् ॥३०॥
स्वस्तिवाक्येन विप्राणां छेत्ता स्थित्वोदगाननः ।
प्राङ्मुखो वा तरुं छिन्द्याच्छस्त्रैः क्षौद्रा र्दिताननैः ॥३१॥
शाखिनच्छिद्यमानस्य जायते यद्यसृक्स्रुतिः ।
कम्पनं वा ध्वनिर्वाऽपि मृत्युः स्याद्गृहिणस्तदा ॥३२॥
यद्वा दधिमधुक्षीरघृतानि स्रवति द्रुमः ।
छिद्यमानस्तदा विद्याद्बन्धव्याधिन्कुटुम्बिनः ॥३३॥
अतीव यस्य स्रवति श्यामः स्नेहान्वितो रसः ।
सुगन्धिः स्वल्पमधुरः कषायः स प्रशस्यते ॥३४॥
प्राच्यां शुभस्तरोः पात उदीच्यां कर्मसाधकः ।
याम्यप्रत्यङ्निपाते तु शान्तिं कृत्वा द्रुमं त्यजेत् ॥३५॥
ज्ञातितः स्यात्तदा भीतिर्यदान्यं मर्दयेत् पतन् ।
दूरं दलति यो मूलं छिन्नो वा धरणीरुहः ॥३६॥
कूजत्यतीव वायुश्च स्मृतः सोऽथ शुभप्रदः ।
खरोष्ट्रयोः शृगालानां दर्शनं भुजगस्य वा ॥३७॥
छदे स्यात्कर्मविघ्नाय निगडैर्बन्धनाय वा ।
हलचक्रपताकाब्जध्वजच्छत्रादिदर्शनम् ॥३८॥
श्रीवृक्षवर्धमानादिदर्शनं वा शुभप्रदम् ।
उत्क्षिप्यते यदि च्छेदात्तदर्द्धिः स्यात्कुटुम्बिनः ॥३९॥
सर्वतः परिहानिः स्याच्छिन्नश्चाक्षिप्यते यदि ।
एकवृक्षे यथोद्दिष्टलक्षणोत्क्षेपदर्शने ॥४०॥
शेषान् दोषविनिर्मुक्तान् पादपानुपलक्षयेत् ।
धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥४१॥
छिन्द्याच्च शुभभागार्धदशभागाधिकं कृतम् ।
तुङ्गीसाद्यवमध्यश्च सगर्भो धरणीरुहः ॥४२॥
ज्ञेयानि मण्डलान्यस्य तत्क्षणोच्छेदनेऽपि च ।
मञ्जिष्ठाभे विदुर्भेकं कपिलाभे च मूषकम् ॥४३॥
पीतभासि तथा गोधां सर्पं दीर्घसितायते ।
गुडच्छाये मधु भवेत् कृकलासस्तथारुणे ॥४४॥
गृहगोधा कपोताभे गौधेरो घृतमण्डभे ।
रसाञ्जनाभे शस्त्राभे कमलोत्पलभासि च ॥४५॥
धौतासियष्टिवर्ने च मण्डले जलमादिशेत् ।
आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥४६॥
तं सर्पगर्भितं वृक्षमादिशेदविचारयन् ।
तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद्भयम् ॥४७॥
विद्यात्सर्पे विषाद्भीतिं पाषाणे भयमग्नितः ।
अजाविगोमहिष्युष्ट्ररासभादिनिपीडितम् ॥४८॥
गोधागौधेरमण्डूककृकलासैश्च गर्भिते ।
मूषके पुनरिच्छन्ति मरणं वास्तुवेदिनः ॥४९॥
अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः ।
क्षेमेण यद्यविघ्नः स्यादसङ्गश्चागमो यदि ॥५०॥
वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत् ।
अर्घदानविधिना विधानविद्द्रव्यमागतमिहार्चयेद्गृही ।
प्रत्युपेतकुलिशायुधध्वजं द्र व्यमुज्ज्वलमुतावनीपतिः ॥५१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वनप्रवेशो नाम षोडशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T19:25:03.1100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

asphalt lake

  • ऍस्फाल्ट तळे 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site