TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २१२

इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १५१ ते २१२

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १५१ ते २१२
सर्वाशासंपदः श्रेष्ठा जायन्ते नैरृताश्रिते ।
न स्याद्गर्भो वृथा तद्वद्वधबन्धभयं न च ॥१५१॥
श्रिते प्राचेतसीमाशामस्मिञ्शूद्र जयो भवेत् ।
क्षुत्तृष्णाग्निभयं न स्याद्वृष्टिरिष्टा च जायते ॥१५२॥
द्रुमसस्यफलर्द्धिः स्यात्केतौ वायोः श्रिते दिशम् ।
चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥१५३॥
चतुर्णामपि वर्णानां सम्पत्स्यात्सौम्यदिग्गते ।
विशेषात्सा द्विजेन्द्रा णां तथा सिध्यन्ति चाध्वराः ॥१५४॥
ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः ।
वृद्धिर्जनपदस्य स्यात्तथा पाषण्डिनामपि ॥१५५॥
यदि किञ्चिद्व्रजेत्पूर्वं रज्ज्वाकृष्टः शतक्रतुः ।
विजिगीषोर्नरेन्द्र स्य तदा यात्रा प्रसिध्यति ॥१५६॥
प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः ।
सशैलकाननामुर्वीं तदा जयति पार्थिवः ॥१५७॥
दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः ।
विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥१५८॥
यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः ।
उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥१५९॥
शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ ।
तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥१६०॥
उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते ।
स्थानान्तरं व्रजेद्वापि सञ्चरेद्वा कथञ्चन ॥१६१॥
विगृह्यते तदा भूपो भ्रश्यति स्थानतोऽपि वा ।
भयाज्जनपदो वास्य चलत्येव न संशयः ॥१६२॥
आकृष्टासु यदाष्टासु च्छिद्यते कापि रज्जुषु ।
अमात्यमरणं तत्स्यादेकैकांशेन निश्चितम् ॥१६३॥
मूलमध्याग्रभागे वा प्रोच्छ्रितो यदि भज्यते ।
पौरसेनापतिनृपान् क्रमशो हन्त्यसौ तदा ॥१६४॥
छत्रार्कवेणुगुल्मेन्द्र शीर्षकण्ठगुणा यदि ।
पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥१६५॥
नृपो वधमवाप्नोति तैर्भग्नैः पततैर्धुतैः ।
अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥१६६॥
क्रमशो हन्युरादर्शवैजयन्तीन्दुतारकाः ।
पतन्त्यो दृक्चमूनाथपुरोधःस्त्रीर्महीपतेः ॥१६७॥
माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः ।
यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥१६८॥
शीर्यते शक्रपिटकं कूटेभ्यः शक्रवेश्म वा ।
यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥१६९॥
भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् ।
पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥१७०॥
भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः ।
राष्ट्रं हन्युर्नरेन्द्र स्य प्रियामातृसुतान् क्रमात् ॥१७१॥
निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा ।
अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥१७२॥
कुर्वन्ति मक्षिकाः शक्रे मधुच्छत्रं समुच्छ्रिते ।
यस्मिंस्तत्र द्विषद्रो धं षण्मासाच्चादिशेत्पुरे ॥१७३॥
मक्षिका वा खगा वा चेद्भ्रमेयुः पार्श्वतो हरेः ।
प्रदक्षिणा बहिष्थानमासाद्याहुस्तदा मृतिम् ॥१७४॥
गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि ।
तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥१७५॥
यदि केतौ निलीयन्ते कुररोलूकवायसाः ।
राज्ञः क्रमात्तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥१७६॥
मयूरो यदि वा हंसः समाश्रयति वासवम् ।
समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥१७७॥
चक्री बलाका हंसी वा यदि केतौ निलीयते ।
तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥१७८॥
खगैः सुवृष्ठिर्जलजैः सुभिक्षं स्यात्फलाशिभिः ।
विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात्पिशिताशिभिः ॥१७९॥
यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः ।
विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥१८०॥
अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः ।
सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥१८१॥
वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च ।
फलपुष्पावतंसानि वनान्युपवनानि च ॥१८२॥
देवतायतनान्याद्यगोपुराणि पुराणि च ।
भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥१८३॥
प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः ।
पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥१८४॥
चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः ।
सगोव्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥१८५॥
मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च ।
विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥१८६॥
यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च ।
क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥१८७॥
एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ ।
प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥१८८॥
स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले ।
उपप्लवो नरेन्द्र स्य भवेज्जनपदस्य च ॥१८९॥
राजते यद्यलङ्कारः सकलो यावदुत्सवम् ।
अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥१९०॥
नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च ।
शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥१९१॥
ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः ।
सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद्ध्रुवम् ॥१९२॥
अमङ्गलैषिणो ये स्युर्विकृता दीनचेतसः ।
पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥१९३॥
प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव ।
अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥१९४॥
आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः ।
हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥१९५॥
सतडिद्गर्जिताम्भोदा वृष्टिश्चेज्जायते तदा ।
महीपतेर्जयं विद्यात्सुभिक्षं क्षेममेव च ॥१९६॥
अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि ।
शक्रस्य पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥१९७॥
ततः समाजे निर्वृत्ते शक्रकेतौ प्रतिष्ठिते ।
गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥१९८॥
अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः ।
यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥१९९॥
विप्राः प्राच्यां विलम्बेयुः पतन्तं वासवध्वजम् ।
सुभिक्षं क्षेममारोग्यमन्यथा स्याद्विपर्ययः ॥२००॥
अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते ।
पुरे ब्रह्मपुरात् प्राच्यामिन्द्र स्थानं विधीयते ॥२०१॥
मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् ।
चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥२०२॥
एकाशीतिपदेनैव भजेत्क्षेत्रं विभागतः ।
क्षेत्रस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥२०३॥
ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः ।
अर्धाङ्गुलं वा वृद्धिः स्याद्ध्वजस्येन्द्र स्य कुत्रचित् ॥२०४॥
तावद्वृद्धिर्विधातव्या यावत्क्षेत्रसमोऽङ्गुलैः ।
ततः प्रमाणमाद्यं यत्तत्पुनर्विनियोजयेत् ॥२०५॥
प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् ।
तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥२०६॥
ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः ।
ब्रह्मणोऽनन्तरं प्राच्यां भवेद्दैवतमर्यमा ॥२०७॥
तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पदौ ।
तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥२०८॥
ततः प्रभृति यन्त्रस्य वामवेधो नतो भवेत् ।
पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥२०९॥
यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् ।
वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥२१०॥
खानिले चतुरो हस्तान् दशहस्तोच्छ्रिते च ते ।
रुद्र स्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥२११॥
सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी ।
षष्ठी च सवितुर्भागे यमभागे च सप्तमी ॥२१२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:22.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gasometry

  • स्त्री. वायुमिति 
  • स्त्री. वायुमिति 
RANDOM WORD

Did you know?

shatshastra konati?
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site