TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः

द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः
गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम् ।
वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥१॥
भल्लाटे धनदे यद्वा चरके पृथिवीधरे ।
ब्राह्मणस्य भवेद्वेश्म माहेन्द्र द्वारमुत्तमम् ॥२॥
माहेन्द्रे ऽर्केऽथ सत्ये वा आर्यके वा निकेतनम् ।
कार्यं गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥३॥
याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते ।
वैश्यस्य भवनं कार्यं द्वारं पुष्पाह्वये शुभम् ॥४॥
वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे ।
शूद्र स्य सदनं कार्यं भल्लाटद्वारमुत्तमम् ॥५॥
विप्राणां प्राङ्मुखं वास्तु गृहं स्याद्दक्षिणामुखम् ।
वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥६॥
दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम् ।
क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ॥७॥
वास्तुनः पश्चिमं द्वारं भवनस्योत्तरामुखम् ।
तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥८॥
वास्तु स्यादुत्तरद्वारं गृहं पूर्वामुखं तथा ।
शूद्र स्य कर्मवृत्तिस्तु धनधान्यैर्विवर्धते ॥९॥
एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः ।
निवेश्यद्वारभागाश्च कथ्यन्ते च शुभाशुभाः ॥१०॥
उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः ।
प्रत्यक्षायश्चतुर्थश्च निवेशः परिकीर्तितः ॥११॥
उत्सङ्ग एवदीक्षाभ्यां द्वाराणां वास्तुवेश्मनोः ।
स सौभाग्यप्रजावृद्धिधनधान्यजयप्रदः ॥१२॥
यत्र प्रवेशतो वास्तु गृहं भवति वामतः ।
तद्धीनबाहुकं वास्तु निन्दितं वास्तुचिन्तकैः ॥१३॥
तस्मिन् वसन्नल्पवित्तः स्वल्पमित्रोऽल्पबान्धवः ।
स्त्रीजितश्च भवेन्नित्यं विविधव्याधिपीडितः ॥१४॥
वास्तुप्रवेशतो यत्तु गृहं दक्षिणतो भवेत् ।
प्रदक्षिणप्रवेशत्वात्तद् विद्यात्पूर्णबाहुकम् ॥१५॥
तत्र पुत्रांश्च पौत्रांश्च धनधान्यसुखानि च ।
प्राप्नुवन्ति नरा नित्यं वसन्तो वास्तुनि ध्रुवम् ॥१६॥
गृहपृष्टं समाश्रित्य वास्तुद्वारं यदा भवेत् ।
प्रत्यक्षायस्त्वसौ निन्द्यो वामावर्तप्रवेशवत् ॥१७॥
ब्राह्मणो निवसेन्मुख्ये द्विनाम्नि क्षत्रियो वसेत् ।
वितथे निवसेद्वैश्यः शूद्रः सुग्रीवनामनि ॥१८॥
एते वैशेषिकाः सर्वे वर्णानामनुपूर्वशः ।
वास्तुद्वारनिवेशाश्च वासैः सह निरूपिताः ॥१९॥
यथोत्तरमथोच्यन्ते वर्णानां गृहकल्पनाः ।
शूद्र विट्क्षत्रियाणां च राज्ञां च जयकाङ्क्षिणाम् ॥२०॥
सार्धत्रिभूमि शूद्रा णां वेश्म कुर्याद्विभूतये ।
अतोऽधिकतरं यत् स्यात्तत् करोति कुलक्षयम् ॥२१॥
वैश्यस्य वर्धयेद्गेहमर्धपञ्चमभूमिकम् ।
अतिप्रमाणे तत्रास्य धनबन्धुपरिक्षयः ॥२२॥
क्षत्रियस्य गृहं कुर्यादर्धषष्ठतलं परम् ।
सम्पद्बलसमृद्ध्यै तदतिरिक्तं तु तच्छिदे ॥२३॥
परं विप्रस्य भवनमर्धसप्तमभूमिकम् ।
स्वाध्यायाचारभोगार्थमत्युच्चं तु भयावहम् ॥२४॥
यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः ।
तलैरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम् ॥२५॥
आहर्तानेकयज्ञानां राजा राजाधिपश्च यः ।
तस्याप्यर्धाष्टामतलं भवनं सन्निवेशयेत् ॥२६॥
वाजपेयेन वा यष्टा यो द्विजः स्यात्समाहितः ।
गवां कोटिप्रदो यो वा सोऽपि तस्मिन् भवेद्युभीः ॥२७॥
यथाप्रमाणनिर्दिष्टे वसन्तस्ते नृपादयः ।
प्राप्नुवन्ति परामृद्धिमवृद्धिं तु विपर्यये ॥२८॥
सपीठतलकं वेश्म मानतः संप्रकीर्तितम् ।
साधारणेन हस्तेन परं शूद्र स्य विंशतिः ॥२९॥
चत्वारिंशद्विशः षष्टिः क्षत्रियस्य प्रशस्यते ।
अशीतिर्द्विजमुख्यस्य शतहस्ता महीपतेः ॥३०॥
नातः परं नृणामूर्ध्वप्रमाणं शस्तमुच्यते ।
देवदानवदैत्यानां पिशाचोरगरक्षसाम् ॥३१॥
सिद्धगन्धर्वयक्षाणां विधातव्यमतोऽधिकम् ।
एकभौमादधो नैव गृहं शूद्र स्य विद्यते ॥३२॥
वैश्यस्य भवनं कार्यमधो नान्यर्धभूमिकात् ।
द्विभूमिकादधः कार्यं क्षत्रियस्य न मन्दिरम् ॥३३॥
सार्धद्विभौमाद् विप्रस्य त्रितलादपि भूपतेः ।
हीनप्रमाणादमुतो गृहं यत्कुशिल्पिना स्याद्विहितं कथञ्चित् ।
भर्तुर्भिये सिद्धिविनाशनं तत्प्रशस्तशीलादिविपर्ययाय ॥३४॥
गुणदोषान् प्रवक्ष्यामि द्वाराणां सर्ववास्तुषु ।
सुस्थितं चतुरश्रं च कान्तं स्वद्र व्ययोजितम् ॥३५॥
ऋजु स्वकीयदिग्भागे न ह्रस्वं न तथोच्चकैः ।
नाल्पं न कुब्जं नाप्यनि पिण्डितं न बहिर्गतम् ॥३६॥
नाध्मातं न कृशं मध्ये गतं नान्तरकुक्षिषु ।
न विद्रुतं न संक्षिप्तं यत्तत्स्याद्द्वारमृद्धिदम् ॥३७॥
पदस्य द्वादशे भागे पदमध्यात्प्रदक्षिणम् ।
स्थापितं वृद्धिमायाति द्वारं पुष्टिं करोति च ॥३८॥
रथ्याचत्वरशृङ्गाटवापीकूपाह कुम्भकैः ।
कुड्यकोणतरुस्तम्भैर्भवनस्यन्दनादिभिः ॥३९॥
यद्विद्धं भवनद्वारं तच्छुभाय न जायते ।
द्वारं द्वारे प्रविष्टं च कर्तव्यं वितनेतन ॥४०॥
पेद्यां प्रवेशयेन्नैकामन्यद्वारे कदाचन ।
द्वारं प्रवेशयेत् पेद्यां नारोहणगवाक्षयोः ॥४१॥
पक्षद्वारस्य वा नैकां कथञ्चिदपि बुद्धिमान् ।
न बाह्यगान्तरे द्वारे प्रविष्टं कारयेत् क्वचित् ॥४२॥
विहितं हि तथा तत्स्याद्बहुदोषकरं सदा ।
तोरणं गोपुरद्वारमट्टो येषां गृहे भवेत् ॥४३॥
गृहाणां मौलिकद्वारं श्रोत्रे चैतान् प्रवेशयेत् ।
द्वारं द्वारस्य कर्तव्यमुपर्युपरि भूमिषु ॥४४॥
प्रदक्षिणेन वा कार्यं कार्यं नापरथा पुनः ॥४५॥
उपर्युपरि भूमीनां मुखं कुर्यात्प्रदक्षिणम् ।
नापसव्येन कुर्वीत द्वारमारोहणानि च ॥४६॥
यस्यां भित्तौ कृतं पूर्वं तस्यामुपरि कारयेत् ।
तथान्यभित्तौ तद्द्वारं विधातव्यं प्रदक्षिणम् ॥४७॥
न मध्ये सद्मनो द्वारं कुर्यादेव पदस्य च ।
न स्थूले न पदे नापि सिरापाते तदिष्यते ॥४८॥
निरंशावस्थितैर्द्र व्यैस्तिर्यक्कान्तैश्च मन्दिरे ।
मर्मवेधो न दोषाय द्वारवेधोऽथवा क्वचित् ॥४९॥
यवनाट्टालकच्छाया पुरदैवकुलस्य च ।
न प्रवेश्या गृहद्वारे रश्मयः सोमसूर्ययोः ॥५०॥
न प्राकारेण कुड्येन न विटङ्केन वा पुनः ।
अन्तर्हितानि दुष्यन्ति द्वारमर्माणी कुत्रचित् ॥५१॥
अत्युच्चे स्याद्भयं राज्ञो निम्ने तस्करतो भयम् ।
कुलपीडा भवेत्कुब्जे बहिर्याते पराभवः ॥५२॥
आध्मातेऽत्यन्तदारिद्रयं कृशमध्ये क्षयो नृणाम् ।
रथ्याविद्धे भवेद्रो गो मरणं चत्वरेण च ॥५३॥
शृङ्गाटकेन वैधव्यं दुहितॄणां प्रजायते ।
वाप्या कूपेन वा विद्धे स्यादतीसारतो भयम् ॥५४॥
कोणान्मृत्युभयं दद्याद्वृक्षै रोगभयं भवेत् ।
स्तम्भेन म्रियते स्वामी भ्रमेणार्थो न तिष्ठति ॥५५॥
प्रणालेन महद्दुःखं महाभीतिर्महाकलिः ।
तस्मात्सर्वप्रयत्नेन द्वारवेधं विवर्जयेत् ॥५६॥
यस्याग्रतः पृष्ठतश्च द्वारे भित्त्योर्द्वयोरपि ।
अन्योन्यं भिद्यते यस्मिन्नैकगत्याश्रिते उभे ॥५७॥
वास्तु तद्भिन्नदेहाख्यं भिन्नस्वामिविधायकम् ।
न तत्र जायते वृद्धिः स्थापितस्य न कस्यचित् ॥५८॥
गृहकुक्षौ कृतं द्वारं सर्वरोगभयङ्करम् ।
पूर्वद्वारं तु माहेन्द्रं प्रशस्तं सर्वकामदम् ॥५९॥
गृहक्षतं तु विहितं दक्षिणेन शुभावहम् ।
गन्धर्वमथवा तत्र कर्तव्यं श्रेयसे तदा ॥६०॥
पश्चमेन प्रशस्तं स्यात्पुष्पदन्तं जयावहम् ।
भल्लाटमुत्तरे द्वारं प्रशस्तं स्याद्गृहेशितुः ॥६१॥
एकाशीतिपदे तस्मिंश्चतुरश्रपदेऽपि वा ।
द्वारोऽप्यदगास्तासां ब्रूमो वह्न्यादितः फलम् ॥६२॥
हुताशभीतिः स्त्रीजन्म भूत्यर्थः प्रियता नृपे ।
क्रोधे चानृतता पुंसः क्रौर्यं स्यात्पूर्ववत्क्रमात् ॥६३॥
सुतापि प्रैष्यनीचत्वे भक्षयानसुतर्द्धिकृत् ।
रौद्रं कृतघ्नमवसं याम्यतः सुतवीर्यहृत् ॥६४॥
सुतोपपीडा रिपुवृद्धिरर्थसुतानवाप्तिस्तनयार्थसम्पत् ।
स्वाप्तिर्नृशंसाद्भयमर्थनाश उक्तः क्रमादित्यपरोन्मुखेषु ॥६५॥
बन्धव्यसत्वे रिपुवृद्धिरर्थसुताप्तिरग्र्या गुणसम्पदश्च ।
सुतार्थलब्धिर्द्विषयात्मजेन दोषास्त्रिया नैरृतदिङ्मुखेषु ॥६६॥
गुणाश्च दोषाश्चयथावदेते निरूपिता द्वारसमाश्रिता ये ।
ताञ्शिल्पविच्छास्त्रविदां वरिष्ठो विज्ञाय पूज्यत्वमुपैति लोके ॥६७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारगुणदोषो नाम एकोनचत्वारिंशोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-19T20:23:55.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

instant

  • १. इसी महीनेका 
  • तात्कालिक 
  • पु. क्षण 
  • तात्काळ 
More meanings
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site