TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते ११७

मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - ५१ ते ११७

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः - ५१ ते ११७
छेदं तदूर्ध्वं कुर्वीत स्तरमेकं विचक्षणः ।
पुनः कण्ठःह् प्रदातव्यो भागद्वितयसम्मितः ॥५१॥
पट्तिका स्तरमेकं तु तत्समा गिरिपत्रिका ।
चतुर्गुणाथ त्रिगुणा कार्याविलकनासिका ॥५२॥
स्तम्भद्वितयमध्ये तु पञ्चयं कर्म कारयेत् ।
शोभनं तत्तु कर्तव्यं युक्तं तिलकनामया ॥५३॥
पुनश्छेदः प्रदातव्यः पूर्वमानेन धीमता ।
जङ्घा सप्तस्तरा मेठा वरण्डी त्रिस्तरोर्ध्वतः ॥५४॥
भवेदधस्ताज्जङ्घायास्त्रिस्तरलकुम्भकः ।
घण्टापमण्टपसंयुक्ता माला स्यात् षद्यरात्ततः ॥५५॥
अर्धेन तस्या लशुनं स्तरेण भरणं भवेत् ।
कुर्वीत द्विस्तरं कुम्भं गण्डमेकस्तरं ततः ॥५६॥
उच्छालं द्विस्तरं कुर्याद्वीरगण्डं ततः स्तरम् ।
द्विस्तरः स्यात्ततः पट्टस्यार्धेन पट्टिका ॥५७॥
तत्समा गिरिपत्री च वरण्डी त्रिस्तरा ततः ।
स्तम्भस्योर्ध्वं विधातव्या मनोज्ञा त्र्यर्धपादिका ॥५८॥
स्तरमेकं ततश्छेदस्ततः कण्ठः स्तरत्रयम् ।
पट्टिका स्तरमेकं स्यात्तत्समा गिरिपत्रिका ॥५९॥
वरण्डीं त्रिस्तरां कुर्यादर्धप्रस्तरसंयुतम् ।
पुनश्छेदः स्तरं कार्यः कण्ठस्तेन समस्ततः ॥६०॥
तत्समा गिरिपत्री च त्र्यंशमामलसारकम् ।
ततश्छेदं च कण्ठं च गिरिपत्रीं वरण्डिकाम् ॥६१॥
पूर्वमानेन कुर्वीत च्छेदकम्पे तथा पुनः ।
गिरिपत्रीं स्तरं कुर्यात् त्र्यंशक्तखरंकततः ॥६२॥
छेदं कण्ठं पत्रिकां च प्रास्तरमेकं ततश्छेदकं कुर्यात्पुनर्बुधः ।
वरण्डीं त्रिस्तरां कुर्यादर्धप्रस्तरसंयुतम् ॥६३॥
छेदं कण्ठं च पीठं च प्राग्ववामलसारकण्ठं कुर्यात्तथापरम् ।
पूर्ववद्गिरिपत्रीं च द्विस्तरां वेदिकां ततः ॥६४॥
छेदं कुर्यात्तदर्धं च ततः कण्ठं स्तरद्वयम् ।
गिरिपत्रीं ततः कुर्यात्स्तरमेकं सुशोभनाम् ॥६५॥
चतुरश्रप्रमाणं च कुर्यादामलसारकम् ।
पद्मपत्रं तु तस्यार्धमुपरिष्टात्प्रकल्पयेत् ॥६६॥
चतुःस्तरो भवेत्कुम्भः स्तरं कण्ठस्ततो भवेत् ।
स्तरमेकं ततः कर्णो द्विस्तरं बीजपूरकम् ॥६७॥
चतुर्भिः कूटविस्तारं ततो भागे विराजयेत् ।
द्विभागं मञ्जरी कार्या स्तरसेनैरलङ्कृता ॥६८॥
वरण्डिकाख्यो बन्धश्च भागं भागं भवेत्ततः ।
विस्तारं मूलमञ्जर्याः शुकनासां प्रकल्पयेत् ॥६९॥
अथ निर्णीयते द्व्यर्धपादाख्यं तत्र विस्तृतिः ।
उच्छ्रायाद्द्विगुणा कार्या पञ्चभागक्रमोऽथवा ॥७०॥
शूरसेनोऽथवा कार्यः शुकनासास्त्रिवेत्यसौ  ।
कृत्वा त्रिभागमुच्छ्रायं मकरं चोर्ध्वभागिकम् ॥७१॥
स्तम्भयुक्तं गुणद्वारं स्योतस्योधिः संप्रताम् ।
अर्धप्रस्तरसंयुक्तं कुर्यात्पार्श्वयोर्द्वयोः ॥७२॥
कर्तव्यं गर्भकूटं वा शुभं तत्र विपश्चिता ।
द्वितीयभूमिकायां तु पीठं सास्तदशस्तरम् ॥७३॥
मेलान्ततोवती जङ्घा माला कार्या चतुःस्तरा ।
लशुनं द्विस्तरं प्रोक्तं स्तरं भरणमिष्यते ॥७४॥
कुम्भं तद्वत्प्रकर्तव्यमुच्छालं द्विगुणान्वितः ।
गण्डकः स्तरमेकं स्यात्ततः पट्टः स्तरद्वयम् ॥७५॥
अर्धेन पट्टिका कार्या तथैव गिरिपत्रिका ।
सूरत्रयं वरण्डी स्याच्छूरसेनैरलङ्कृता ॥७६॥
स्तरमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ।
पट्टिका भागमेकं च तत्समं गिरिपत्रिका ॥७७॥
त्रिभागं शिखरं कुर्याच्छेदं मे तु भागिकम् ।
एकं कण्ठं प्रकुर्वीत पथिकां विस्तरं विदुः ॥७८॥
स्तरमेकं भवेत् कण्ठः पट्टिकापि च तत्समा ।
गिरिपत्रीं च कुर्वीत भागार्धेन विचक्षणः ॥७९॥
द्वार्धपादिकया युक्ता त्रिस्तरा स्याद्वरण्डिका ।
छेदं कण्ठं च कुर्वीत पूर्वमानेन बुद्धिमान् ॥८०॥
पट्टिका गिरिपत्री च भागं भागं विधीयते ।
द्विस्तरं शिखरं कुर्यात्तथा छेदं तु भागिकाम् ॥८१॥
एवं कण्ठं प्रकुर्वीत --- पट्टिकाम् ।
वरण्डिका द्विभास्योदृकारेण समन्विता ॥८२॥
छेदं कण्ठं च पत्री च गिरिवर्ती त्रिभागिका ।
प्राग्वद्विरिहिर कुर्याद् यथाशोभं प्र --- ॥८३॥
चतुर्थी भूमिका चोर्ध्वं कर्तव्या लक्षणान्विता ।
त्रयोदशस्तरं पीठं मध्यजङ्घा च तत्समा ॥८४॥
चतुःस्तरा भवेन्माला तदर्धं लशुनं ततः ।
कुम्भं तेन समं कार्यमुच्छालं द्विस्तरं भवेत् ॥८५॥
तस्यार्धे गण्डकं कुर्यात् पट्टं तद्द्विगुणं ततः ।
पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् ॥८६॥
वरण्डी त्रिस्तरा कार्या छेदमेकस्तरं विदुः ।
कुर्वीत द्विस्तरं कण्ठं तदर्धेन तु पट्टिकाम् ॥८७॥
तत्समां गिरिपत्रीं द्वौ स्तरौ खिरिहिरं ततः ।
छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः ॥८८॥
वरण्डी द्विस्तरा कार्या ततश्छेदः स्तरं भवेत् ।
कण्ठश्च पत्रिका चेति गिरिपत्रीति भागिकाः ॥८९॥
प्राग्वकाशिखिरिहिरं कुर्याच्छेदं पूर्वक्रमेण च ।
द्विस्तरा तिलनासा तु विधातव्या विपश्चिता ॥९०॥
कुर्वीत भागिकं छेदं ततः कण्ठा द्विभागिकी ।
पट्टिकां भागमेकं च तत्समां गिइ!त्रिकाम् ॥९१॥
घण्टा सप्तस्तरा प्रोक्ता पद्मं द्विस्तरमुच्यते ।
द्विगुणः कलशस्तस्यां छेदं पूर्ववदाचरेत् ॥९२॥
ऊर्ध्वं स्यात्पञ्चमी भूमिः पीठमेकादशस्तरम् ।
तद्वन्मट्टा भवेज्जङ्घा माला च त्रिस्तरा ततः ॥९३॥
साधस्तरं स्याल्लशुनं स्तरेण भरणं भवेत् ।
कुम्भं गण्डकसंयुक्तं कुर्यात् सार्धस्तरं बुधः ॥९४॥
उच्छालं द्विस्तरं प्रोक्तं स्तरं गण्डो विधीयते ।
द्विस्तरः स्यात्तरः पट्टः पट्टस्यार्धेन पट्टिका ॥९५॥
तत्समा गिरिपत्री च त्रिस्तरा तु वरण्डिका ।
स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः ॥९६॥
तदर्धं पट्टिका कार्या तथैव गिरिपत्रिका ।
स्तरकं द्वयं विरिहिरं तदर्धं छेदमाचरेत् ॥९७॥
एवं कण्ठः पट्टिका च स्यात्तथा गिरिपत्रिका ।
द्वौ स्तरौ तिलनासा स्याच्छेदः सार्धकरायतः ॥९८॥
कण्ठं तद्द्विगुणं कुर्याद्भागेनैकेन पट्टिकाम् ।
तत्समा गिरिपत्री स्याद्घण्टा पञ्चस्तरा भवेत् ॥९९॥
कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमात्ततः ।
ततो भूमिर्भवेत्षष्ठी पीठं तत्राभिधीयते ॥१००॥
द्विस्तरा भूमिरङ्गा स्यातुलः खुरकस्ततः ।
छेदो भवेत्तदर्धेन ततः कण्ठः स्तरद्वयम् ॥१०१॥
पट्टिका भागमेकं स्याद्भागं च गिरिपत्रिका ।
वरण्डीं द्विस्तरां कुर्यात्तदर्धं छेदमादिशेत् ॥१०२॥
द्वादशांशमिदं पीठं जङ्घा माट्टा तदर्धतः ।
माला तु द्विस्तरा प्रोक्ता लशुनं तत्समं भवेत् ॥१०३॥
भरणं स्तरमेकं तु द्विभागः कलशो भवेत् ।
उच्छालकं च तत्तुल्यं गण्डो भागं विधीयते ॥१०४॥
कुर्वीत द्विस्तरं पट्टं भागेनैकेन पट्टिकाम् ।
पूर्ववद्गिरिपत्रीं --- स्तरां तु वरण्डिकाम् ॥१०५॥
स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः ।
पूर्ववत्पत्रिके द्वे तु द्व्यंशं खिरिहिरं भवेत् ॥१०६॥
छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः ।
द्विस्तरा तिलनासा स्याच्छेदः कार्यस्तु भागिकः ॥१०७॥
द्विस्तरः स्यात्ततः कण्ठो भागिका कण्ठपट्टिका ।
भागिकी गिरिपत्री च विधातव्या ततः परम् ॥१०८॥
पञ्चस्तरान् त्रिभागोनान् कुर्यादामलसारकम् ।
त्रिस्तरं स्यात्ततः --- शेषं पूर्वक्रमाद्भवेत् ॥१०९॥
पञ्चम्यां भूमिकायां तु पीठं स्याद्द्वादशस्तरम् ।
जङ्घा पञ्चस्तरा मेठा माला च स्याद्द्विभागिकी ॥११०॥
अर्धस्तरेण लशुनं स्तरेण भरणं भवेत् ।
कुम्भं गण्डेन सहितं स्तरं कुर्याद् विचक्षणः ॥१११॥
उच्छालं द्विस्तरं कुर्याद्गण्डो भागं विधीयते ।
पट्टः सार्धस्तरः कार्यः पट्टिका तु स्तरं भवेत् ॥११२॥
तत्समा गिरिपत्री च त्रिस्तरा तु वरण्डिका ।
छेदो भागत्रिभोगं कण्ठस्यार्धे गुणस्ततः ॥११३॥
पत्रिके द्वे तु भागिक्यौ --- स्तरा तिलनासिका ।
अर्धप्रस्तारयुक्तासौ कार्याथ प्रस्तरान्विता ॥११४॥
छेदं भागेन कुर्वीत कण्ठं तद्द्विगुणं ततः ।
अर्धप्रस्तरं पूर्ववत्पत्रिके द्वे तु घण्टा स्तरचतुष्टायम् ॥११५॥
कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमेण तु ।
अष्टमी भूमिका या तु सा कार्या शुभलक्षणा ॥११६॥
मेर्वादयो विंशतिरेवमुक्ताः ।
प्रासादमुख्याः ---
भूम्यष्टकान्तास्तदिमान् विदध्यात् ।
स्याच्छिल्पिनां संसदि पूजनीयः ॥११७॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मेर्वादिविंशिकानागरप्रासादभूमिजा नामाध्यायस्त्रिषष्टितमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:12:22.1200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

connotative term

  • गुणार्थक पद 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.