TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १०१ ते १५०
चतुरश्रीकृते क्षेत्रे भक्ते --- ।
--- पञ्चदशांशा ये तान् भजेद्दशभिः पुनः ॥१०१॥
गर्भोऽत्र पूर्ववत्कार्यः पूर्ववद्भित्तयोऽपि च ।
प्राग्वत्खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥१०२॥
पूर्ववच्छिखरोत्सेधस्तं भजेत्पादहीनया ।
चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥१०३॥
द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः ।
पादोनपदहीनाः स्युः क्रमशश्चास्य भूमिकाः ॥१०४॥
वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता ।
शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ॥१०५॥
रेखा स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत् ।
कूटा द्रा विडकाः कार्याः प्रतिभूम्यथ भौमज ॥१०६॥
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा ।
एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥१०७॥
अमुं यः कारयेद्रा जा प्रासादं किरणाभिधम् ।
स दुःसहप्रतापः स्यात्सहस्रकरवद्भुवि ॥१०८॥
किरणप्रासादः ।
कथ्यते शशशृङ्गोऽथ प्रासादः शुभलक्षणः ।
वल्लभः सर्वदेवानां शिवस्य तु विशेषतः ॥१०९॥
चतुरश्रीकृते क्षेत्रे विंशत्यैकोन यान्तिभे ।
कर्णार्धसूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥११०॥
कर्णा द्विभागिकाः कार्याः शाला स्यात्पञ्चभागिका ।
शालापल्लविका चास्य निर्गता वृत्तमध्यतः ॥१११॥
द्वौ द्वौ प्रतिरथौ कार्यौ द्विभागायामविस्तृतौ ।
परं वर्तनतो वृत्तमध्यता कोणशालयोः ॥११२॥
शालाकोणप्रतिरथान्तरेषु स्याज्जलान्तरम् ।
एकोनविंशतिं भागांस्तान् भजेद्दशभिः पुनः ॥११३॥
गर्भः प्राग्वत्तथा भित्तिः प्राग्वत्खुरवरण्डिका ।
जङ्घोत्सेधो भूत्सेधः पूर्ववच्छिखरोच्छ्रितिः ॥११४॥
अथाभिस्ते मेरारभ्य पट्ट्यन्तं शिखरोच्छ्रितिः ।
भागानामष्टविंशत्या विभजेत्पादहीनया ॥११५॥
द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता ।
रेखास्तु पञ्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥११६॥
सार्धभागोच्छ्रिता वेदी प्रविधेयास्य तद्विदा ।
शालास्यस्तम्भक्तयदिविभक्तयदिविभक्तिः शुकनासिका ॥११७॥
रेखाद्यं चकंभस्य प्राग्वत्स्यात्सर्वमप्यदः ।
शतशृङ्गमिमं कुर्याद्यः प्रासादं मनोरमम् ॥११८॥
तस्यैकविंशतिकुला --- ।
कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥११९॥
त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ ।
शतशृङ्गप्रासादः ।
--- यामो निरवद्यस्य लक्षणम् ॥१२०॥
स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयानिति च त्रिधा ।
चत्वारिंशत्करो ज्येष्ठोऽपि मध्यः त्रिंशत्करो भवेत् ॥१२१॥
विंशत्या च करैरेष कनीयान् समुदाहृतः ।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥१२२॥
ततः कर्णद्विसूत्रेण वृत्तमत्र प्रकल्पयेत् ।
कार्या तैः पञ्चभिः शालापल्लवी वृत्तध्यतः ॥१२३॥
शालाविभक्तिः प्राग्वत्स्याच्छालयोरेतयोः पुनः ।
कोणे कोणे च षट्कर्णा --- भागायामविस्तृताः ॥१२४॥
परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः ।
ता तागा त्रिभागैर्विभजेद्दशभिस्ततः ॥१२५॥
विमुच्य भूमिकाभागाञ्छेषं गर्भगृहादि यत् ।
तत्पूर्ववद्विधातव्यं तद्वच्च शिखरोच्छ्रितिः ॥१२६॥
तामेकत्रिंशता भागैः सार्धैश्च विभजेत्पुनः ।
द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥१२७॥
पदपादेन हीनाः स्युः शेषा षड्भासभूमिकाः ।
वेदी पश्चयं कार्या पादोनमिह शिल्पिना ॥१२८॥
स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः ।
शुकनासोच्छ्रितिर्घण्टा कलशादि च पूर्ववत् ॥१२९॥
य इमं निरवद्याख्यं प्रासादं कारयेत्सुधीः ।
स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुर्लभम् ॥१३०॥
निरवद्यप्रासादः ।
सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम् ।
भुक्तिमुक्तिप्रदातारं वरवालय मण्डनम् ॥१३१॥
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।
कर्णा द्विभागविस्ताराः शाला स्यात्पञ्चभागिका ॥१३२॥
वृत्तान्तः पल्लवी कार्या शेषाः शालासु पूर्ववत् ।
त्रयस्त्रयः प्रतिरथा मध्ये स्युः कर्णशालयोः ॥१३३॥
परिवृत्यं वृत्तमध्ये द्विभागायामविस्तृताः ।
शालाकर्णप्रतिरथप्रान्तेषु स्याज्जलान्तरे ॥१३४॥
त्रिचतुर्विंशतिर्भागा व् इभाज्याः शिल्पिभिः पुनः ।
विधेयं गर्भभित्त्यादि प्राग्वत्स्याच्च वरण्डिका ॥१३५॥
जङ्घादिभूमिकोच्छ्रायः प्राग्वद्वा शिखरोच्छ्रितिः ।
तं पञ्चत्रिंशता भागैर्विभजेच्छ्रिखरोच्छ्रयम् ॥१३६॥
द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता ।
पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥१३७॥
द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम् ।
रेखावशेन कर्तव्यं शेषमेतस्य यत्पुनः ॥१३८॥
तत्पूर्ववद्विधाटव्यं स्तम्भकूटादि तद्विदा ।
सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥१३९॥
स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि ।
सर्वाङ्गसुन्दरः प्रासादः ।
अथाष्टशालान्वक्ष्यामो --- भूमिजातिषु ॥१४०॥
तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वरितकसंज्ञितः ।
तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥१४१॥
गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः ।
अथाभिधीयते तेषु --- स्वलक्षणः ॥१४२॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।
कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥१४३॥
वर्तुलं भाजयेत्क्षेत्रं षड्गुणैरष्टभिः पदैः ।
अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥१४४॥
पल्लवी वृत्तसूत्रेण --- ।
--- कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥१४५॥
वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः ।
तं भजेत्पञ्चभिर्भागैः --- तत्र कुम्भकः ॥१४६॥
पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः ।
अर्धांशेनोत्तरं पत्रं कपोताली ततो भवेत् ॥१४७॥
सपादेनास्य भागेन जङ्घां भागचतुष्टयात् ।
तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥१४८॥
भागद्वितयमाद्य भूः कर्तव्या सवरण्डिक ।
व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥१४९॥
स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता ।
षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:18:43.5270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spinescent

  • कंटकाग्र 
  • टोकास काटा असलेले किंवा तीक्ष्ण टोक असलेले (पान). 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site