TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्राविडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः - १ ते ५०
ऊर्ध्वमानमथ ब्रूमो घण्टान्तपुरपादितः ।
प्रमाणं कर्णमानेन सर्वेषामेव धारयेत् ॥१॥
तत्रैकभूमिकः कार्यो हस्तपञ्चकविस्तृतः ।
अङ्गुलद्वितयोपेतः सप्तहस्तसमुच्छ्रितः ॥२॥
पादो द्विहस्त उत्सेधात्सर्वालङ्कारभूषितः ।
सार्धहस्तसमुत्सेधस्तावन्मानः स्तरावधि ॥३॥
माला तु द्विस्तरा प्रोक्ता स्तरो लशुनकं भवेत् ।
भरणं स्तरमेकं स्याद्भरणार्धं स्तरद्वयम् ॥४॥
कलशाद्युतरं ज्ञेयो वारराद्यासमन्वितः ।
द्विस्तरं कुलकं कुर्यात्पद्मपत्रसमन्वितम् ॥५॥
वीरगन्द्रा पुनः कुर्यात्स्तरमेकं तदूर्ध्वतः ।
द्विस्तरं हीरकं प्रोक्तं पट्टश्चैव तथाविधः ॥६॥
पट्टिका स्तरमेकं स्याद्वसन्तं द्विस्तरं विदुः ।
वसन्तपट्टिका चोर्ध्वं स्तरमेकं विधीयते ॥७॥
कपोतं नासिकायुक्तं विदधीत स्तरत्रयम् ।
--- दन्तरं प्रकुर्वीत मेटमेकस्तवंस्तत ॥८॥
स्तरप्रमाणं मकरं तद्वन्मकरपट्टिकाम् ।
पुनश्छेदं स्तरं कुर्याद्वेदीबन्धस्ततः स्तरम् ॥९॥
छेदः स्तरप्रमाणश्च कण्ठः स्यात्द्विस्तरं ततः ।
पट्टिका स्तरमेकं तु तद्वच्चाम्बुजपट्टिका ॥१०॥
मालादिपद्मपत्रान्तं द्विहस्तोत्सेधमीरितम् ।
सार्धहस्तः समुत्सेधः कूटस्य परिकीर्तितः ॥११॥
नासिकापद्मसंयुक्तं तदूर्ध्वं कलशो भवेत् ।
एकभूमेरिदं मानं प्रासादस्य प्रकीर्तितम् ॥१२॥
एकभूमिकः ।
द्विभूमिकस्य लक्ष्माथ प्रासादस्याभिधीयते ।
सप्तहस्तसविस्ता --- समुच्छ्रितः ॥१३॥
कर्णमानाद्भवेदस्य विभागोऽथनिगद्यते ।
द्विहस्तं कल्पयेद्बीजं जङ्घा सार्धद्विहस्तकम् ॥१४॥
कूटस्य सन्निवेशोऽयं विज्ञातव्यः सभागिकः ।
जङ्घा द्वितीया तु पुनः कर्तव्या तस्य भागिका ॥१५॥
सन्निवेशो द्वितीयस्य स्यात्कूटस्यार्धभागिकः ।
दिदिक्रव्यस्पृ कर्तव्या सह कण्ठेन भागिकः ॥१६॥
तस्योपरिष्टाद् घण्टा च सार्धभागसमुच्छ्रिता ।
नासिकापद्मसंयुक्ता विधातव्या विपश्चिता ॥१७॥
पीठानां पूर्वमुक्तानां पादबन्धादिनामभिः ।
पञ्चानां कल्पयेदेवं --- भूम्यादितः क्रमात् ॥१८॥
तेषां शोभावहं यत्स्यात्तत्कर्तव्यं विपश्चिता ।
तस्योपरि भवेज्जङ्घा मालाल---संयुता ॥१९॥
भरणं कलशस्तद्वद्द्वारगण्डसमन्वितम् ।
उच्छालं पूर्वमानेन पद्मपत्रायुतं ततः ॥२०॥
वीरगण्डः पुनः कार्यो हीरं पूर्वक्रमेण च ।
तस्योपरिष्टात्पट्टश्च भवेत्पट्टिकया सह ॥२१॥
वसन्तवेदूर्ध्व ततस्तस्यैवोपरि पट्टिका ।
ततः कपोतच्छेदश्च मेढकर एव च ॥२२॥
पट्टिका मकरोष्या च भेदकण्ठोऽथ पट्टिका ।
वेदीच्छेदश्च कण्ठश्च पट्टिका पद्मपट्टिका ॥२३॥
कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् ।
छेदान्तं पूर्वमानेन सर्वमेतद्विधीयते ॥२४॥
तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता ।
ततो मालाथ लशुनं तोरणं कलशस्ततः ॥२५॥
वीरगण्डस्तथोच्छालं पत्रकं वीरगण्डकः ।
हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥२६॥
कपोतच्छेदमेढाश्च मकरोऽस्य च पट्टिका ।
छेदः करपट्टिका च वेदीच्छेदोऽथ कण्ठकः ॥२७॥
पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका --- ।
ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥२८॥
ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते ।
पुनः कण्ठ्यं प्रदातव्यः पट्टिका पद्मपट्टिका ॥२९
ततः कण्ठं विधातव्यं चन्द्र मालाविभूषितम् ।
प्रकुर्वीत ततश्छेदमुपरिष्टाद्विचक्षणः ॥३०॥
कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् ।
सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥३१॥
भागार्धं विस्तृतिस्तस्या विस्तारार्धं समुच्छ्रितिः ।
एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥३२॥
द्विभूमिकः ।
त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते ।
तस्यैकादश विस्तारो हस्ताः पञ्चदशोच्छ्रयः ॥३३॥
चतुर्दशाङ्गुलान्येषां भवेदस्याधिकानि च ।
---भूमिकस्यैतत्कर्णमानमसंशयम् ॥३४॥
पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् ।
जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥३५॥
भवेज्जङ्घा तृतीया च सार्धभागद्वयं ततः ।
भागं च कूटप्रसरश्च न्द्र शालाविभूषितः ॥३६॥
पुनस्तृतीया जङ्घा स्याद्भागद्वयसमुच्छ्रिता ।
ततश्चाकूटप्रस्तारो भागिको भूषणान्वितः ॥३७॥
भागं स्याद्वेदिबन्धः --- सगुणद्वारकण्ठकः ।
चतुर्दशमसौ कार्यो भूषायुक्तो यथोचितम् ॥३८॥
घण्टाच्छेदस्तु भागौ द्वौ द्व्यङ्गुलद्वयसंयुतौ ।
एकादशस्तरा कुरुस्तस्योपरि विधीयते ॥३९॥
इदानीं प्रविभागोऽस्य पीठादूर्ध्वं विधीयते ।
हस्तमेकं भवेज्जङ्घाद्यंयपि च तया समा ॥४०॥
माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः ।
भरणं स्तरमेकं स्यात्कलशोऽपि च तत्समः ॥४१॥
वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः ।
ततस्तरं वीरगण्डो --- ॥४२॥
हीरकं द्विस्तरं विद्यात्सस्तरं वासन्तपट्टिका
कपोतं नासिकायुक्तं त्रिस्तरं कारयेत्ततः ॥४३॥
छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम् ।
स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका ॥४४॥
छेदं तथैव कुर्वीत कण्ठमेकस्तरं ततः ।
पट्तिका वेदिका चैव स्तरमेकं विधीयते ॥४५॥
छेदमर्धस्तरं विद्यात्कण्ठं सार्धस्तरं ततः ।
पट्टिका स्यात्स्तरं पद्मं स्तरमेकं ततो भवेत् ॥४६॥
शेषे च सुन्दरं कण्ठं विधातव्यं विचक्षणैः ।
अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥४७॥
मध्ये च सा प्रकर्तव्या तदूर्ध्वं तां विभाजयेत् ।
ततस्तरं भवेच्छाला स्तरार्धं लशुनं ततः ॥४८॥
तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम् ।
वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥४९॥
पद्मपत्रकया युक्तं स्तरमुच्छालकं विदुः ।
वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:29.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डोई फिरणें

  • वेडे होणें 
  • भ्रमिष्‍ट होणें. 
  • रागाने बेफाम होणें 
  • बेभान होणें 
More meanings
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site