संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

चतुःशालविधानं नामैकोनविंशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम् ।
वनं भारं सुगाराख्यमागारं वीरमेव च ॥५१॥
व्यायाममायुतं तद्वद्व्याहृतं च ततः परम् ।
दुर्गमं क्षोभसंज्ञं च कृत्रिमं क्षोभणं तथा ॥५२॥
चारुरुच्याभिधानं च ध्रुवं कथमिति क्रमात् ।
षट्पञ्चाशत्त्रिभद्रा णि चतुर्भद्रा ण्यतः परम् ॥५३॥
कृतमर्चायनं पौष्णमुद्गतं मिश्रमुत्सुकम् ।
विघ्नं विपक्षमाहूतं रुचकं वर्धनं पृथु ॥५४॥
कलहं छलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥५५॥
शरलं द्विगुणं नाद्यं चित्रं भ्रान्तं विधारणम् ।
साधारणं नतं त्र्यंशमृषं रोगं विशेषणम् ॥५६॥
प्रतीच्यं त्रिसमं स्वैरं सुप्रतीकं नलं क्षपम् ।
व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥५७॥
मगधं क्षिप्रमागस्त्यमेकोजं द्विर्गतं लिहम् ।
पर्कं विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम् ॥५८॥
खर्वं पिनाकमुद्यन्तं विशिखं प्रसभं रजम् ।
चुरुकं सफलं वामं वर्धनं धावनं सहम् ॥५९॥
चयं सेव्यं कलं तीर्णं चतुर्भद्रा णि सप्ततिः ।
पञ्चभद्रा ण्यथोच्यन्ते षट्पञ्चाशदनुक्रमात् ॥६०॥
कानलं लोलुपं जिह्मं प्रगालं सालिनं जिनम् ।
सुजयं विजयं यामं जयं ज्ञातं जपं तपम् ॥६१॥
जमं वरं चरं वैरं विशिषं सुप्रभं प्रभम् ।
प्रतीक्षं क्षमिणं युक्तं शान्तं त्रैतं विनोदनम् ॥६२॥
सन्दोहं विप्रदोहं च विद्रुतं सततं ततम् ।
व्याकुलं लीनमालीनं विचित्रं लम्बनं खरम् ॥६३॥
शेखरं विबुधं चैत्रं व्यासक्तं संपदं पदम् ।
त्रिशिखं चतुरं प्रातं सुस्थितं दुःस्थितं स्थितम् ॥६४॥
चक्रं वक्रं लघं लाभं संपर्कं मूलमव्ययम् ।
अष्टाविंशतिरन्यानि षड्भद्रा णि निबोधत ॥६५॥
किन्नरं कौस्तुभं हर्म्यं धार्मिकं निषधं वसु ।
साटिकं वामनं गौरमस्थिरं क्रमिणं खलम् ॥६६॥
विवरं वालिशं धौमं त्रिपुष्टं मन्दिरं भवम् ।
अशोकं भास्वरं चौष्यं लातव्यं सुस्वनं मखम् ॥६७॥
वाजि नेत्रं भ्रमं घोषं सप्तभद्रा ण्यतः परम् ।
भाण्डीरं वैसहं प्रस्थं प्रतानं वासुलं कटम् ॥६८॥
लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः  ।
अन्यच्च सर्वतोभद्र मेकं भद्रा भिरष्टभिः ॥६९॥
संप्रकल्प्यं चतुःशालं ब्रूमश्चैषां शुभाशुभम् ।
प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥७०॥
समवाये यथा भूयो जानीयात्साध्वसाधु च ।
तथाष्टावेकभद्रा णि सप्तभद्रा णि च क्रमात् ॥७१॥
द्विभद्रा ण्यष्टभिर्युक्ता षड्भद्रा णि च विंशतिः ।
षट्पञ्चाशत्त्रिभद्रा णि पञ्चभद्रा णि चोन्नयेत् ॥७२॥
सप्ततिश्च चतुर्भद्रा ण्येकं भद्रा भिरष्टभिः ।
एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥७३॥
भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु ।
मूषा स्यात्कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥७४॥
अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे ।
मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥७५॥
नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः ।
वर्धमाने तथा कार्ये यथा प्राग्ग्रीवसंयुतः ॥७६॥
वर्धमाने तथा कार्ये द्वारमूषे मुखायते ।
मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥७७॥
नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः ।
द्वे स्तरु मूषे रुचके स्यातामायते त्ववकोसिमे ॥७८॥
सर्वद्वारवहा मूषाः सर्वतोभद्र वेश्मनि
आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥७९॥
द्वितीयया प्राग्विलग्नमेकया तदनन्तरम् ।
प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥८०॥
मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ ।
धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥८१॥
प्रीतिरुद्धेगकल्याणकलहाश्चाप्यनुक्रमात् ।
यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥८२॥
यत्र पूर्वा तृतीया च तत्सुनीतं गृहं विदुः ।
आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥८३॥
द्विचतुर्थ्यौ तथा चाप्ये त्रिचतुर्थ्यौ सुसंयमे ।
अर्धर्चे त्वाद्यपञ्चम्यौ द्वितीयैभे सपञ्चमी ॥८४॥
व्याकोशे च त्रिपञ्चम्यौ नैरृते द्विशराभिधे ।
वृषभे प्रथमाषष्ठ्यौ द्विषष्ठ्यौ च तथा विने ॥८५॥
काव्ये तृतीया षष्ठी च विपासेऽब्धिरसाभिधे ।
आनीरे पञ्चमीषष्ठ्यौ साद्या कान्ते च सप्तमी ॥८६॥
सौभे द्वितीयासप्तम्यौ त्रिसप्तम्यौ विपश्चिमे ।
गवये सप्तमीतुर्ये श्रीवहे पञ्चसप्तमी ॥८७॥
सषष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा ।
भीमेऽष्टमी द्वितीया च त्र्यष्टम्यौ चाप्ययोगमे ॥८८॥
वर्ते चतुर्थ्यष्टमी च पञ्चमी चाष्टमी चले ।
षष्ठ्यष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥८९॥
इत्यष्टाविंशतिः प्रोक्ता द्विभद्रा णामिहौकसाम् ।
अथ ब्रूमस्त्रिभद्रा णि तत्रैन्द्रं पुष्टिवर्धनम् ॥९०॥
स्याद्याम्यपश्चिमद्वारमाद्यमूषात्रयान्वितम् ।
आद्या द्वितीया तुर्या च यस्य द्वारं विपश्चिमम् ॥९१॥
विलोमं नाम तद्वेश्म शूद्रा णां पुष्टिवर्धनम् ।
आद्या तृतीया तुर्या स्यादायामे सर्वतोमुखे ॥९२॥
वधे द्वित्रिचतुर्थ्यः स्युर्द्वारं च स्यादुदग्दिशि ।
यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥९३॥
साद्ये यत्र द्विपञ्चम्यौ तत्प्रोक्तं गृहमन्तिकम् ।
यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्ववृद्धिकृत् ॥९४॥
पूर्वा चतुर्थीपञ्चम्यौ यत्र तत्पैत्रमुच्यते ।
पञ्चमी द्विचतुर्थ्यौ च यत्रायस्तं तदीरितम् ॥९५॥
त्रिचतुःपञ्चमीयुक्तं भद्र माहुर्मनीषिणः ।
आद्या द्वितीया षष्ठी च यत्र तत्प्रान्तशब्दितम् ॥९६॥
आद्या तृतीया षष्ठी च स्यात्प्रसाधकवेश्मनि ।
तद्भवेत्सर्वतोद्वारं तथा सर्वार्थसाधकम् ॥९७॥
द्वितीया च तृतीया च षष्ठी च क्षमनामनि ।
तस्य प्रत्यग्दिशि द्वारं शूद्र वर्गस्य चेष्टदम् ॥९८॥
षष्ठी चतुर्थी चाद्या च स्युर्विघाताख्यवेश्मनि ।
षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥९९॥
षट्चतुस्त्रियुतं कान्तं तत्स्यात्सर्वार्थसाधकम् ।
षट्पञ्चाद्यान्वितं चित्रं तच्च स्याद्याम्यदिङ्मुखम् ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP