TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २२०

जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - १५१ ते २२०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः - १५१ ते २२०
प्रासादभ्रमणस्यान्ते द्विपदायामविस्तृतीन् ।
कुर्वीताष्टसु सम्पातेष्वष्टौ कन्दान् समन्ततः ॥१५१॥
विधाय तां चतुर्भक्तां कुर्याद् ज्रामांस्तथा ।
अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टाकम् ॥१५२॥
देशात्सार्धं यदा सूत्रे यथा सम्पत्स्यते मिथः ।
पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात्तथाविधम् ॥१५३॥
भक्त्वैवं सर्वभद्रा णि त्रिपदोऽन्तः सुरालयः ।
पार्श्वभ्रमो व्यर्धपादो दशधा भाजिते भवेत् ॥१५४॥
कन्दाश्च द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च ।
अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥१५५॥
शक्तियस्ता समीक्षते विष्णोरप्रतिमौजसः ।
कार्येयं तस्य तान्येस्युः पुण्डरीकविनामतः ॥१५६॥
एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते ।
तदानीमातपत्रं स्यात्कर्तव्या ब्रह्मणश्च सा ॥१५७॥
कृत्वा वृत्तायतं क्षेत्रं विभजेद्दशभिः पदैः ।
तस्य मध्ये विधातव्यं देवागारं पदैस्त्रिभिः ॥१५८॥
तस्य पार्श्वेषु कर्तव्यो भ्रमः सार्धद्विभागिकः ।
द्विभागं बाह्यवृत्तं स्यात्तत्र कुर्यादिमां क्रियाम् ॥१५९॥
भागैर्द्वादशभिस्तच्च तुल्यमानैर्विभाजयेत् ।
एकैकं च पुनर्भागं चतुर्धा तेषु भाजयेत् ॥१६०॥
द्विभागायामविस्तारा शाला मध्ये विधीयते ।
भागिकश्चतुरश्रश्च दिछा लानृत्रितये भ्रमः ॥१६१॥
वामदक्षिणतः शाले तां ये भवतः शुभे ।
ते वृत्ते संविधातव्ये संमुखे च परस्परम् ॥१६२॥
शाला तु खुमागंस्याच्छालार्धभागार्धविस्तृतः ।
कल्प्यस्तेनैव मानेन सच्चावा भ्रमणं भवेत् ॥१६३॥
जगत्येषां समाख्याता चक्रवालेति नामतः ।
दिवाकराय कर्तव्या सग्रहायाथवेन्दवे ॥१६४॥
समक्षवायभद्रा यामात्रिषुक्तायं वा पुन ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥१६५॥
गर्भाट्कोणगसूत्रेण सर्वतो वृत्तमालिखेत् ।
बहिस्त्रिपदविस्तारं कन्दं कुर्याच्चतुष्पदम् ॥१६६॥
शालायां च द्विपदायामां विस्तारात्सार्धभागिकाम्  ।
शेषं तु भद्र शालायाः समन्ताद् भ्रमणं भवेत् ॥१६७॥
भद्र स्योभयतो वृत्ते द्विभागायतविस्तृते ।
शाले च वृत्तयोरन्तर्भागिकायामविस्तृती ॥१६८॥
याम्यसौम्यापरास्वेवं दिक्षु भद्र त्रयं भवेत् ।
साधमायामविस्तारास्तदर्धभ्रमणान्विताः ॥१६९॥
शाला विदिक्षु कर्तव्याः शोभनाश्चतसृष्वपि ।
भद्र मध्ये स्थितां शालां हित्वा प्राच्या तु सा भवेत् ॥१७०॥
सार्धमायामविस्तारास्तत्तदर्धभ्रमणान्विता ।
सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥१७१॥
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।
पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ॥१७२॥
साधभागद्वयस्तमिता देवागारस्य बाह्यतः ।
अमण संविद्यातव्य कर्णशालाश्च कर्णगाः ॥१७३॥
कर्णमानं बहिर्वृत्तं भ्रमयित्वासारन्दतः ।
भद्रो पभद्र कर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥१७४॥
पदद्वयसमायामा पदत्रितयविस्तृता ।
भागिकाभ्रमणोपेता शालाः कुर्वीत भद्र जाः ॥१७५॥
द्वे भद्रा त्पार्श्वयोः शाले द्वे च प्रतिरथाश्रये ।
भागिकायामविस्तारा कुर्यादर्धपरिभ्रमे ॥१७६॥
वौ हल्यायामतः साधभागा शालार्धकर्णगा ।
तासां तदर्धमानेन विधातव्यः परिक्रमः ॥१७७॥
प्रविष्टौ तु पदाधेन भद्रा न् प्रतिरथावुभौ ।
इत्येषा जगती प्रोक्ता मानतश्चन्द्र मण्डला ॥१७८॥
अथ वृत्ता --- ब्रूमो जगतीः षड्यथाक्रमम् ।
पञ्चभागायताः क्षेत्रा विस्तरेण चतुष्पदाः ॥१७९॥
विद्ध्यादायतं वृत्तं चमस्यां भवभागिकः ।
मध्ये स्यात् त्रिपदास्तामा सद्विपदविस्तृताः ॥१८०॥
मत्तवारणसंयुक्ता प्रतोल्यालङ्कृता शुभा ।
सोपानशुण्डिकाप्रान्तं --- गण्डितमण्डिता ॥१८१॥
उक्तेयं मातुलिङ्गीति जगत्यमरवल्लभा ।
अस्या एव यदा पृष्ठे द्विभागायामविस्तृतिः ॥१८२॥
शाला पूर्वक्रमेण स्यात्तदा ज्ञेया घटीति सा ।
तद्रू पे तद्यतालालं द्वे शाले वामदक्षिणे ॥१८३॥
यदि पश्चिमशाला च तत्रेस्यायमती जगती तदा ।
घटीकर्णेषु सर्वेषु द्विभागायामविस्तृती ॥१८४॥
यदि स्युर्भ्रमसंयुक्ता शाला प्राग्वद विभाजिता ।
कुरुयेर्धायंतरिक्षे द्वे च पृष्टे वार्तन्तदूर्य ॥१८५॥
कालिङ्गीयं भवेदेवं पार्श्वयो अंयुर्लमदात्रेषु ।
एतस्यां तु यदा शाला शुण्डिकाननसंस्थिता ॥१८६॥
वृत्तायतविनिर्माणा जगती स्यात् --- ।
एता वृत्तायताः ।
ब्रूमोऽथाष्टाश्रिसंस्थाना जगतीः शुभलक्षणाः ॥१८७॥
चतुरश्रीकृतं क्षेत्रं सपादैर्दशभिर्भजेत् ।
परित्यजेत्ततः सूत्रं कर्णे कर्णे पदत्रयम् ॥१८८॥
सपादांश्चतुरो भागान् मध्यभागेऽवशेषयेत् ।
संसिध्यते च साष्टाश्रि तस्यार्धे स्यात्सुरालयः ॥१८९॥
अष्टाश्रिमध्यभागस्थः --- शेषं भ्रमणं भवेत् ।
प्रासादश्च चतुर्द्वारश्च चतुर्भिर्मण्डपैर्युतः ॥१९०॥
प्रासादसाकसूत्र मुखलिङ्गं निवेशयेत् ।
मूलकन्दार्धतः कन्दा क्रमादिक्षु च ॥१९१॥
तुल्यप्रमाणकानष्टौ चतुर्भागविभाजिता ।
भ्रमशालाश्च पूर्वोक्तक्रमेण परिकल्पयेत् ॥१९२॥
सोपानशुण्डिकागण्डस्ता गोपुराद्यैरलङ्कृताः ।
करव्यासामेरुपेता ववा सर्वायमुदाहृता ॥१९३॥
कृत्वा पूर्ववदष्टाश्रि क्षेत्रं भद्रं द्विधा भजेत् ।
कुर्याद्भागार्धकं भद्रे पक्षयोश्च विनिर्गतम् ॥१९४॥
तद्विस्तारं भजेत् षड्भिर्निर्गमस्तैस्त्रिभिः पदैः ।
परिक्रमो भवेत् -- पार्श्वयोः पृष्ठतोऽग्रतः ॥१९५॥
शेषं शाला युगं कार्यं भागद्वितयमायतम् ।
साधभागिकविस्तारं संघचेस्यरस्यं च ॥१९६॥
अनेनैव प्रकारेण भद्रे भद्रे भवेद्गतिः ।
कर्णभद्रं विधातव्यं त्रिपदायामविस्तृति ॥१९७॥
चतुर्धा भाजिते तस्मिन् भागेन भ्रमणं भवेत् ।
शेषं तु शाला विज्ञेया द्विपदायामविस्तृता ॥१९८॥
विदिगन्तेषु सर्वेषु न्यासोऽयमतिसुन्दरः ।
मूलशाला तु कन्दार्धे भ्रमश्चाधीभ्रमं ततः ॥१९९॥
मातृकेयं समाख्याता जगतुपसरचन्दितकिन्नरोशप्रदिति ।
भद्रं --- पदेभ्यः स्याद्भागत्रितयनिर्गतम् ॥२००॥
चतुर्भागिकविस्तारं त्रिपदायामकन्दकम् ।
तदा स्याच्छेखरा नाम भद्र त्रितयभूषिता ॥२०१॥
नित्यप्रमुदितानेकदेववृत्तदकृतास्पदा ।
प्रागष्ट्य श्रीकृते क्षेत्रे चतुर्भागविभाजिते ॥२०२॥
द्विभागायामविस्तारे प्रासादे दशमे भ्रमे ।
अश्रिभिः समविस्तारादासष्टौ--- प्रकल्पयेत् ॥२०३॥
सदा भागप्रविस्तारान् तांश्च कुर्यात्पृथक्पृथक् ।
निर्गमेण चतुर्भागान् भागिक भ्रमणान्वितान् ॥२०४॥
द्विभागायामविस्तारं मध्ये शालाद्वयं भवेत् ।
पद्मगर्भेयमित्युक्ता प्रजापतिमनःप्रिया ॥२०५॥
भवेदार्यादिदेवीनां सदा चित्तप्रसादिनी ।
विधाय क्षेत्रमष्टासृतवदर्धायामविस्तृतौ ॥२०६॥
मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ।
भद्रं भवेद् द्वादशभिस्तैश्चतुर्भिर्विनिर्गमः ॥२०७॥
तस्य भद्रा णां निर्गमोऽपि चतुष्पदः ।
विस्तारः षट्पदस्तेषां चतुर्भिस्तं विभाजयेत् ॥२०८॥
भागार्धेन शाला स्याद्भागत्रितयसमायता ।
भ्रमश्च स्यात्तु कर्तव्यो भागं तत्पार्श्वयोः रुद्रा या ॥२०९॥
द्विभागायामविस्तारे शाले स्यातां पदभ्रमे ।
इयमंशुमती प्रोक्ता जगती शुभलक्षणा ॥२१०॥
विधाय क्षेत्रमष्टाश्रि तदर्धायामविस्तृति ।
मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ॥२११॥
प्रासादसमविस्तारं भद्रं कृत्वा ततो भजेत् ।
चतुर्दशभिरस्य स्यान्नितिर्यमो दशभिश्च तैः ॥२१२॥
मौलिकभ्रमणस्यान्ते त्रिपदायतविस्तृता ।
शालातिशोभना कार्या साधभागभ्रमान्विता ॥२१३॥
द्विपदायामविस्तारे भागिकभ्रमणान्विते ।
कर्तव्ये पार्श्वयोस्तस्याः शाले द्वे चारुदर्शने ॥२१४॥
प्रतिभद्रं विधातव्यं भागपञ्चकविस्तृतम् ।
भागत्रयं प्रविष्टं च तत्र शाला त्रिभागिकी ॥२१५॥
भागद्वितयविस्तारा भागिकभ्रमणान्विता ।
पार्श्वयोः प्रतिभद्र स्य कर्णिके भागनिर्गमे ॥२१६॥
सार्धभागायते स्यातां कर्णाः शालायुगान्विताः ।
पूर्ववच्छुण्डिकाद्यं च कमलेयमुदाहृता ॥२१७॥
चतुर्दशविभक्तासु सप्तस्वस्तिषु कल्पयेत् ।
निर्गमायामतुल्यासु शालाः पञ्च पृथक्पृथक् ॥२१८॥
अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम् ।
इति विज्ञेय समाख्याता शाला वज्रधरप्रिया ॥२१९॥
इत्थं जगत्यश्चतुरश्रसंस्थाः ।
स्पदायतां वर्तुलसन्निवेशाः ।
वृत्तायता थस्तियुताश्चयः सम्यग् ।
जङ्घाः सदा शिल्पिभिरप्रमत्तैः ॥२२०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगतीलक्षणाध्यायो नामैकोनसप्ततितमः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T19:53:26.0000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Orchidales

  • आमर गण, ऑर्किडेलीझ 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.