TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः

भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः
इदानीं वर्तिकालक्ष्म भूमिबन्धश्च कथ्यते ।
गुल्मान्तरे शुभे क्षेत्रे पद्मिन्यां सरितस्तटे ॥१॥
पार्वतानां च कक्षेषु वापिकाननान्तरे ।
भौमा लवणपिण्डाः स्युर्मूलेषु च महीरुहाम् ॥२॥
क्षेत्रेष्वेतेषु या जाताः स्थिराः श्लक्ष्णाश्च पाण्डराः ।
ग्राह्या मृद्वावसासेष्वा विज्ञेया कटुशर्करा ॥३॥
क्षेत्राणामानुपूर्व्येण मृत्तिका कथिता शुभा ।
पेषयेत्कुट्टयित्वा तां ततः कल्कं समाचरेत् ॥४॥
शालिभक्तस्य दातव्यस्तत्र भागो यथोदितः ।
ग्रीष्मर्तौ सप्तमं भागं शीतकाले च पञ्चमम् ॥५॥
षष्ठं शरदि वर्षासु चतुर्थं भागमानयेत् ।
वर्तिकाबन्धनार्थामायान्ति तेन ता ॥६॥
अग्राया शालिवक्क्राभा यवं यव्यां सुखगृहम् ।
कुर्कुटाराग्रसदृशी कर्मभागविकल्पतः ॥७॥
शिक्षाकालेऽङ्गुलद्वन्द्वं प्रमाणेन विधीयते ।
कुथरेखासु शस्यन्ते वर्तिकाः त्र्यङ्गुलोन्मिताः ॥८॥
पटा रेखासु कुर्वीत मानेन चतुरङ्गुलाः ।
इदानीमभिधास्यामो वसुधाबन्धनक्रियाम् ॥९॥
पक्षिका चैव कूटाश्च --- पट एव च ।
तस्य तस्य किभान भूमिबन्धो निगद्यते ॥१०व
पुण्यनक्षत्रवारेषु माङ्गल्यदिवसेषु च ।
क्षतो वासो भुक्ता च कर्ता भर्ताथ शिक्षकः ॥११॥
अनेकवर्णैः कुसुमैर्गन्धैः न कृपापाः ।
नानाधूपैः सुरभिभिरर्चयित्वारभेत ताम् ॥१२॥
नवसूत्रात्तुलमृद्वस्तितजलेन समं समम् ।
नवत्वामात्सदृशं वृक्तनभविद्वात्यपराक्रियः ॥१३॥
लिङ्गसूत्रविनीक्षेतानिकटं सहतं नवः ।
अनुत्ततमनिस्मं च कुर्याद्यावत्क्षितौ समम् ॥१४॥
सुस्थितं जलवक्षायं सम्यगालोक्य धीमता ।
कृत्वा भूमिक्रियामेतां पश्चाद्बन्धनमाचरेत् ॥१५॥
लुचिमलांस्तिस्व व्रीहितण्डुलसन्निभाम् ।
संगृह्य तीर्थमथवा पिष्ट्वा कल्कं समाचरेत् ॥१६॥
तेन पिण्डं प्रकुर्वीत शोषेयेचतमात्तयो ।
शवयेत् कल्कयेद्येन व्यासाद्व्यषव्यस्तुया ॥१७॥
एवमेव चतुष्कोन्ता सप्त वारान् प्रघर्षयेत् ।
हस्तेन संमृशेत् पश्चाद्यथा लोनं च जायते ॥१८॥
अथवा शिक्षिकाभूमौ खरवन्धनमाचरेत् ।
पूर्वोदितस्य कल्कस्य निर्यासे बन्धनं क्षिपेत् ॥१९॥
पञ्चभागप्रमाणेन ग्रीष्मकालेषु शस्यते ।
शरद्यंशत्रयं साधं त्रीनंशा समागमम् ॥२०॥
वर्षाकाले हि भागेन प्रदद्यादिति निश्चयः ।
पञ्चभागप्रमाणेन ग्रीष्मसं --- ॥२१॥
बन्धानयं प्रकुर्वीतापपूर्वकं धिनाक्षितो ।
लेपयेद् रोमकूर्चेण शुष्कां शुष्कामनुक्रमात् ॥२२॥
तोयेन हस्तक्तवचि प्रदातव्यो विचक्षणैः ।
विधिनैवं कृतं श्रेष्ठं शिक्षिकाभूमिबन्धनम् ॥२३॥
बन्धनं कुड्यभूमेश्च यथावत्कथ्यतेऽधुना ।
स्नुहीवास्तुककूश्माण्डकुद्दालीनामुपाहरेत् ॥२४॥
क्षीरमन्यतमस्यापामामीस्येक्षरुकस्य च ।
तेषांणां वागसूत्रे सप्तरात्रं निधापयेत् ॥२५॥
सिंहपासननिम्बानां त्रिफलव्याधेर्द्यातयो ।
समाहरेद्यथालाभं कथया कुटजस्य च ॥२६॥
कषायक्षारयुक्तेन सामुद्र लवणेन च ।
पूर्वा कुढ्यं रामं कृत्वा कषायैः परिषे परिषेभयतु ॥२७॥
चिक्कणां मृदमादाय स्थूलपाषाणवर्जिताम् ।
मानुषांस्ताद्द्विगुणान् स्यवालुकामृदाम् ।
ककुभस्य स्कन्दद्याधान्माषाणां शालमलेरपि ।
श्रीफलानां रसं तद्वद् दद्यात्कालानुरूपतः ॥२९॥
पूर्वकालानुसारेण यत्प्रोक्तं बन्धनं क्षितेः ।
तत्सर्वं सिकतायुक्तं कृत्वैकत्र नवं बुधः ॥३०॥
कुमाद्यमालयापातं म हस्तिचर्मप्रमाणतः ।
विशेषां ष्याथ प्रतिक्षिपेत्तोयं कुर्यादशसन्निभाम् ॥३१॥
विशुद्ध विमलं स्निग्धं पाण्डुरं मृदुलं स्फुटम् ।
पूर्वोदितां समादाय विधिवत्कण्टकर्करीम् ॥३२॥
तां कुट्टयित्वा घृष्ट्वा च कल्कं कुर्याद् विचक्षणः ।
पूर्वोक्तभक्तभागं च निर्यासांश्च प्रदापयेत् ॥३३॥
विष्वङ्क यदि वा दद्यात् कूटसर्करया समम् ।
त्रीन् वारान् लेपयेत्कुड्यं पूर्वोक्तेन विचक्षणः ॥३४॥
हलेन हस्तमालिप्य प्रदद्यात् कूटकूर्तकाम् ।
जायते विधिनानेन कुड्यबन्धनमुत्तमम् ॥३५॥
साम्प्रतं कथयिष्यामः पट्टभूमिनिबन्धनम् ।
बिम्बाबीजानि संगृह्य त्यक्त्वा तेषां मलं बुधः ॥३६॥
एवं विशोध्य निष्पावान् यदि वा शालितण्डुलान् ।
तेषामन्यतमं श्लक्ष्णं पिष्ट्वा पात्रे विपाचयेत् ॥३७॥
पट्टमालिप्य बन्धेन पूर्वोक्तमिवा विधिमा चरेत् ।
पूर्वोक्तनिर्यासा पुना विधात्तयः कटशर्कराम् ॥३८॥
तोयेन तां प्रचांकृत्य पटमालेखयेत्तया ।
अनेन विधिना बन्धश्चित्रकर्मणि शस्यते ॥३९॥
विधिनान्येन वा कुर्यात् सादानां भूमिबन्धनम् ।
प्राद्यद्यामिकतालपङ्कनिर्यास समन्विताम् ॥४०॥
निर्याससंयुतां दद्यात्त्रिस्ततः कटशर्कराम् ।
पाटायनां भूमिबन्धोऽयं विक्षेप्तव्यः प्रयत्नतः ॥४१॥
गोमयेन कटंपेने शैस्तदनन्तरम् ।
कटशर्करयुक्तिवारास्त्राक्तर्चकेन च ।
यथा पन्यत्तास्वां पश्चाद् भूमिबन्धः कटेपिहः ॥४२॥
इति निगदितमेवं लक्षणं वर्तिकाना-
मिहकपदकुड्यक्ष्मानिविविविधेश्च ।
इदमखिलमवैति ग्रन्थतो योऽर्थतश्च ।
प्रतिवति स विधातुर्विभ्रमस्यास्य योगात् ॥४३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T20:00:08.7030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काळज्वर

  • m  Typhus fever. 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.