TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते १७०

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - १५१ ते १७०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः - १५१ ते १७०
मूले नासापुटः साद्रः सूत्रं गोज्याश्च मध्यगम् ।
यवार्धमात्रा गोजी स्यादुत्तरोष्ठः परस्य यः ॥१०१॥
स ब्रह्मसूत्रादारभ्य विज्ञेयो द्वियवोन्मितः ।
परे त्वधस्तान्नासाया रेखा चार्धाङ्गुलैर्भवेत् ॥१०२॥
परभागेऽधरोष्ठस्य प्रमाणं --- यवं मतम् ।
हनुपर्यन्तलेखाया मध्ये सूत्रं प्रतिष्ठितम् ॥१०३॥
सूत्रात्प्राक्करवीरः स्याद् द्वियवोनाङ्गुलद्वयम् ।
यवार्धं स च दृश्येत श्वैत्यं सार्धयवं ततः ॥१०४॥
--- तारा त्रियवा ज्ञेया शेषमुक्तप्रमाणतः ।
कर्णावर्तादधः कर्णमध्यभागेन संमितम् ॥१०५॥
द्व्यङ्गुलः कर्णविस्तारः कर्णावर्ताच्चतुर्यवे ।
शिरःपृष्ठस्य लेखा स्यादिति ज्ञात्वोक्तमाचरेत् ॥१०६॥
कर्णसूत्राद् बहिर्ग्रीवा विधातव्यैकमङ्गुलम् ।
गलो ग्रीवा च हिक्का च सूत्राद् प्रागङ्गुलोत्तरे ॥१०७॥
हिक्कासूत्राद्भवेदूर्ध्वमंसलेखा तथाङ्गुलम् ।
ब्रह्मसूत्रात्परे भागे स्यादंसोऽङ्गुलसंमिते ॥१०८॥
वक्षोऽङ्गुलं ब्रह्मासूत्रां --- नस्ति कालान्तरे ।
भागमात्रे भवेत्कक्षासूत्रात्पूर्वः स्तनस्य च ॥१०९॥
कक्षातिस्त्रिकलं यावत्पार्श्वलेखा विधीयते ।
दूराग्रभुजस्तस्यादग्रे कर्मानुसारतः ॥११०॥
प्रासादमध्यः सूत्रः स्यादेकादशभिरङ्गुलैः ।
परभागस्य मध्यस्त सूत्रात्स्यादङ्गुलैस्त्रिभिः ॥१११॥
अङ्गुलेन परे भागे सूत्रतो नाभिरिष्यते ।
नाभेरुदरलेखा तु विज्ञातव्याङ्गुलत्रये ॥११२॥
श्रोणी कर्णो भवेन्नाभे मुखमर्धाङ्गुलान्वितम् ।
ब्रह्मसूत्रात्कटिः पूर्वे त्रिभागा त्र्यङ्गुला परे ॥११३॥
ब्रह्मसूत्राश्रित मेढ्रस्तले चा परतो भवेत् ।
पूर्वोक्तः मध्यभेखास्यात्सूत्रात्प्रत्यङ्गुल्यन्तरे ॥११४॥
तस्यैव मूलरेखा च सूत्रात्प्राग् द्व्यङ्गुलेन्तरे ।
मूललेखा परस्योरोः सूत्रात्स्याद्द्विकलेऽन्तरे ॥११५॥
पर्यन्तजानुनो भागे पर्यन्तोपरा जानुतः ।
परभागिका जातर्द्वे सूत्रस्य सम्यक्प्रतिष्ठितम् ॥११६॥
जानुमध्ये गता लेखा बाह्यलेखाश्रिता भवेत् ।
अध्यर्धमात्रं जानु स्यादधोलेखा तु तस्य या ॥११७॥
अर्धाङ्गुलेन सा सूत्रात्पूर्वतः प्रविधीयते ।
सूत्रात्परे पराङ्गुष्ठं मूलपादोनमङ्गुलम् ॥११८॥
मूलादङ्गुष्ठकस्याग्रं सार्धैः स्यादङ्गुलैस्त्रिभिः ।
सूत्रात्परं स्याज्जङ्घाया लेखाङ्गुलचतुष्टये ॥११९॥
तस्यास्तु पूर्वजङ्घाया लेखा स्यादङ्गुलद्वये ।
पूर्वजानु कलामानं शेषं कुर्याद्यथोदितम् ॥१२०॥
परपादतले स्तम्भं यत्तिर्यक्सुप्रतिष्ठितम् ।
तत्प्राक्प्रदेलस्योर्ध्व सार्धया कलया भवेत् ॥१२१॥
प्राग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया कनिष्ठिका ।
कलामात्रं निजाङ्गुष्ठादंधासागं प्रपद्यते ॥१२२॥
यत्पराङ्गुलम्बसूत्रं प्रतिपद्यते ।
यत्पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते ।
मध्येन पूर्वभागाप्ति सबन्धाङ्गुष्ठकस्य तत् ॥१२३॥
पूर्वपाष्णितलादूर्ध्वं विदध्यादङ्गुलत्रये ।
पाष्णेः परस्य पादस्य पूर्वपादं तिरस्कृतम् ॥१२४॥
अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखेत् ।
अथ पार्श्वागतं नामस्थानं पञ्चममुच्यते ॥१२५॥
व्यावर्तितमुखस्यान्ते ब्रह्मसूत्रं विधीयते ।
ललाटबाह्यलेखां च सूत्रस्पृष्टां प्रदर्शयेत् ॥१२६॥
सूत्रात्तु नासिकावंशः संवृद्ध्य द्वाक्षमानतः ।
अपाङ्गो द्विकले सूत्रात्कर्णो यंशात् कलाद्वये ॥१२७॥
कर्णो द्व्यङ्गुलविस्तारः शिरःपृष्ठं कला ततः ।
अस्य मध्यगतं सूत्रमास्यार्धं स्थापयेत् ततः ॥१२८॥
अङ्गुले चिबुकं सूत्राद्धनुमध्यं चतुर्यवे ।
सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गले नतः ॥१२९॥
अङ्गुलेन ततो हिक्का चतुर्भिर्ब्रह्मसूत्रतः ।
मूर्ध्ना श्रवणपाल्यन्तेनैति सूत्रं तदुच्यते ॥१३०॥
ग्रीवायाङ्गुल्यमध्येन मध्यसूत्रं तदुच्यते ।
भागे हिक्कामध्यसूत्रादण्डमूलं कलाद्वये ॥१३१॥
मात्राष्टके च पृष्ठं तो हृल्लेखाप्येवमेव हि ।
स्तनस्य मण्डलं तस्मादङ्गुलेन विधीयते ॥१३२॥
कक्षा च पूर्वभागे स्यात्सूत्रात् पश्चभिरङ्गुलैः ।
मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ॥१३३॥
उभयोरन्तयोः प्राहुर्मध्यमष्टाङ्गुलं बुधाः ।
अङ्गुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्रतः ॥१३४॥
मध्यपृष्ठं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः ।
नाभ्यन्तरेखा नवभिः कटिपृष्ठं कलात्रये ॥१३५॥
उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः ।
मां मा भ्रात्रयेणाभिरष्टाभि सूत्रात् स्फिजो मध्यं प्रचक्षते ॥१३६॥
वस्तिशीर्षे च नवभिः स्फिगन्तोऽष्टभिरङ्गुलैः ।
अष्टभिर्मेढ्रमूलं स्यादूरुमध्यं च सप्तभिः ॥१३७॥
अङ्गुलैः पञ्चभिर्मूलमूरोः पार्श्वात्यमुच्यते ।
चतुर्भिरङ्गुलैः सार्धैः करमध्यं च पृष्ठतः ॥१३८॥
अग्रतः पञ्चभिः सार्धैस्तदेव प्राहुरङ्गुलैः ।
करमध्याङ्गुलैर्मध्यं सूत्रमध्ये विधीयते ॥१३९॥
जान्वर्धे मध्यसूत्रं स्याद्भागो लेखा च जानुतः ।
भवेदुभयतः सूत्रं जङ्घा मध्ये च कीर्तता ॥१४०॥
जङ्घ षडङ्गुला सूत्रं मध्ये स्यान्नलकस्य च ।
उभयोः पार्श्वयोः कार्यो नलकश्चाङ्गुलद्वयम् ॥१४१॥
चतुर्भिरङ्गुलैः पार्ष्णिर्मध्यसूत्राद्विधीयते ।
यथोक्तमानेनाङ्गुल्यस्तथा पादतलं भवेत् ॥१४२॥
पार्श्वागतमिदं प्रोक्तं स्थानं भित्तिकसंज्ञकम् ।
पार्श्वागतस्थानम् ।
अतः परं परावृत्तस्थानकान्यभिदध्महे ॥१४३॥
ऋज्वा गतपरावृत्तं तत्रादावभिधीयते ।
तत्राङ्गुलद्वयं कर्णौ विधातव्यौ पृथक्पृथक् ॥१४४॥
पार्ष्णिपर्यन्तयोर्मध्यं तथा सप्ताङ्गुलं भवेत् ।
अङ्गुलत्रितयं सार्धं पार्ष्णी कार्यौ पृथक्पृथक् ॥१४५॥
कनिष्ठानामिकामध्या दर्शयेच्चतुरङ्गुली ।
अङ्गुष्ठानामिकामध्याकनिष्ठावलिखेन्तरे ॥१४६॥
परावृत्तमिदं शेषमृज्वागतवदादिशेत् ।
अध्यर्धाक्षादिकाद्रू यानि स्थानानि तेषु यत् ॥१४७॥
भवेद्यस्य परावृत्तं तद्वशात्तस्य तद्भवेत् ।
--- यस्य हि यद्दृश्यं स्थानकस्याङ्गमीरितम् ॥१४८॥
तददृश्यं परावृत्ते तस्यादृश्यं च दृश्यते ।
स्थानानी भवितानि --- जीवेषु द्विपदेषु च ॥१४९॥
निर्जीवेष्वपि जानीयाद्यानासनगृहादिषु ।
स्थानानि मूलभूतानि नवैवैतानि वस्तुतः ॥१५०॥
यानि निविशतभक्तानि तद्भेदानि च तान् विदुः ।
मूर्धस्थिता यदा दृष्टा ऋज्वादीनि विलोकयेत् ॥१५१॥
स्थानानि तेषां यन्मानं तदस्मात् तदिहोच्यते ।
विस्तृत्याष्टादश न्यस्येदायत्या द्विगुणानि च ॥१५२॥
अङ्गुल्यन्यादारासूत्रं यथाभागं यथोचितम् ।
आयामस्यार्धदेशे च विस्तारोऽस्याग्रतोऽष्टभिः ॥१५३॥
--- पृष्ठप्रदेशार्द्र --मङ्कयेत् ।
तन्मध्यगामिनी सूत्रे न्यस्येदायतविस्तृते ॥१५४॥
अङ्गानां स्यात्तदवधिर्निर्गमो वष्टमाणकः ।
सूनत्योगतो गर्भसूत्रादित्यादि ॥१५५॥
स्तनगर्भो गर्भसूत्राद्विस्तृतौ स्यात्षडङ्गुलः ।
षडङ्गुलः स्यात्स्तनयोस्तिर्यग्गर्भविनिर्गमः ॥१५६॥
तिर्यग्गर्भात्पृष्ठपक्षौ स्फिजावपि दशाङ्गुले ।
नवाङ्गुले पृष्ठवंशः स्फिजो सप्ताङ्गुलेऽन्तरे ॥१५७॥
कक्षाया मूलमायामाद्गर्भतश्च दशाङ्गुलम् ।
निर्गमोऽग्रेऽङ्गुलं तस्य सूत्रात्सप्त च पृष्ठतः ॥१५८॥
गर्भसूत्रात्ततस्तिर्यक्पादांशोऽष्टादशाङ्गुलः ।
गर्भाद्यवप्रदेशश्च भवेत्पञ्चभिरङ्गुलैः ॥१५९॥
अष्टाभिर्जठरं गर्भात्पार्श्वयोः पुरतोऽपि च ।
उदरस्य --- मं पृष्ठं पश्चात्सप्तभिरङ्गुलैः ॥१६०॥
सार्धैर्द्वादशभिर्मूलमूर्वोरथो मतोऽङ्गुलैः ।
पञ्चाङ्गुलं निर्गमस्तत् --- स्यात्सप्त च पृष्ठतः ॥१६१॥
ऊरुमूलस्य पृष्ठात्तु स्फिजौ त्र्यङ्गुलनिर्गतौ ।
मेढ्रमग्रे ततो ज्ञेयं गर्भसूत्रात्षडङ्गुले ॥१६२॥
तिर्यक्सूत्राज्जानुपार्श्वं सार्धैर्नवभिरङ्गुलै ।
आयामसूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुलः ॥१६३॥
नलकश्च भवेद्गर्भात्तिर्यगस्य षडङ्गुलः ।
गर्भसूत्रात्तु नलकः पृष्ठतश्चतुरङ्गुलः ॥१६४॥
सूत्रान्ताङ्गुल्यपर्यन्तः स्यात्सार्धैः षड्भिरङ्गुलैः ।
अक्षः सार्धाङ्गुले सूत्राद्भवेद्विस्तृतिदर्शनात् ॥१६५॥
चतुर्दशाङ्गुलाः पादो दैर्घ्येणात्र प्रकीर्तितः ।
गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडङ्गुलः ॥१६६॥
जानुनोरक्षश्च स्यादन्तरमङ्गुलं मिथः ।
ऊर्वोरङ्गुलमुद्दिष्टं न भलयोश्चतुरङ्गुलम् ॥१६७॥
ऋज्वागतमिति प्रोक्तमद्वजौ मध्यसूत्रतः ।
परिवर्ततगुलगं सावावप्यङ्गुलद्वयम् ॥१६८॥
तस्मात्सावेस्त सार्धांक्ष्ये त्वङ्गुले परिवर्तनी ।
--- भित्तिकं प्रोक्तं परावृत्तेऽप्ययं विधिः ॥१६९॥
ऋज्वागतार्धर्जुकसाचिसंज्ञाध्यर्धाक्षपार्श्वागतसंज्ञकानि ।
तेषां परावृत्तचतुष्ट्यं च प्रोक्तान्यथो विंशतिरन्तराणि ॥१७०॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T20:12:33.3130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मोस

  • पु. ( बे .) घात . 
  • पु. 
  • ( महानु . ) मार्ग ; पत्ता ; मूस ; शोध ; सुगावा ; माग . ( क्रि० लागणें ; काढणें ; लागणें ) तो मोसु श्रीचरण पंकजां जवळि दीसे । - ऋ ६ . ५५१ . जीविताचा मोसू घेऊनि कैसेनि जाता । - भाए १२० . 
  • कुंपणाला लावण्यासाठीं झाडाच्या तोडलेल्या लहान लहान फांद्या . 
More meanings
RANDOM WORD

Did you know?

Request for Anagha Ashtami Puja vrat Sagrasangit Puja
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.