संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


प्रामादानामतो लक्ष्म षोडशानां विशेषतः ।
ज्येष्ठमध्यकनिष्ठानां यथावदभिदध्महे ॥१॥
विभज्यते यथा येन प्रागश्चोर्ध्व विधीयते ।
यावद्यस्य प्रमाणं तु तथा तत्तस्य कथ्यते ॥२॥
मेरुः प्रासादराजश्च कैलासश्च हरप्रियः ।
सर्वतोभद्र कश्चैव विमानच्छदनन्दनौ ॥३॥
स्वस्तिको मुक्तकोणश्च श्रीवत्सो हंससंज्ञितः ।
रुचक्रो वर्धमानश्च गरुडश्च गजस्तथा ॥४॥
मृगराजश्च पद्मश्च वलभी चेति ते स्मृताः ।
न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥५॥
सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः ।
विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् ॥६॥
कृत्वा षड्भागिकं मध्यं निर्गमस्तत्र दीयते ।
भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥७॥
पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः ।
प्रासादभित्ति पदिका पदविस्तृतमन्तरम् ॥८॥
पदिका बाह्यभित्तिः स्यादित्येष स तदा स्मृतः ।
द्विपदो वेदिकाबन्धो जङ्घा पञ्चपदोदया ॥९॥
पदार्धेन पदार्धेन मेखलान्तरपत्रके ।
शृङ्गोच्छ्रितिस्त्रिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥१०॥
शिखरस्यास्य कर्तव्यास्तज्ज्ञैः षोडश भूमिकाः ।
स्कन्धॐऽशैर्विस्तृतः षड्भिरंशेनोच्छ्रितमण्डकम् ॥११॥
ग्रीवा वंशोच्छ्रिता कार्या शिखरस्यादिविस्तृतौ ।
षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥१२॥
विस्तृतेरपि भद्रा याः कुर्याद्द्विगुणमुच्छ्रयम् ।
कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ॥१३॥
एवमेष चतुःशृङ्गश्चतुर्द्वारोपशोभितः ।
मेरुर्मेरूपमः कार्यो वाञ्छता शुभमात्मनः ॥१४॥
सर्वस्वर्णमयं मेरुं यद्दत्त्वा पुण्यमाप्नुयात् ।
तमिष्टकाशैलमयं कृत्वा तदधिकं भजेत् ॥१५॥
मेरुः ।
चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम् ।
दशधा विभजेत्स स्यात्कैलासः पुण्यवर्धनः ॥१६॥
ब्रह्मकोष्ठगतो गर्भः शेषं भित्त्यन्धकारिका ।
चतुर्भागं भवेद्भद्रं मूलकर्णौ त्रिभागिकौ ॥१७॥
सप्तभागोच्छ्रिता जङ्घा मेखला चार्धभागिका ।
भागेनान्तरपत्रं स्याद्भागेनाण्डकमुच्छ्रितम् ॥१८॥
ग्रीवाग्रभागमुत्सेधाच्छिखरं दशकोच्छ्रितम् ।
अर्धषष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ॥१९॥
अस्मिन्नन्तरपत्रे तु सूत्रं दत्त्वा सुताडितम् ।
त्रिगुणेन लिखेत्तेन वेणुकोशं मनोरमम् ॥२०॥
अष्टभूम्युच्छ्रयः श्रीमान् मञ्जर्या च विराजितः ।
उच्छ्रयश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ॥२१॥
कार्यं षड्भूमिकं चास्य भद्रं भागार्धनिर्गतम् ।
पाकः सिंहकर्णस्युः समाप्तिर्नायकेन च ॥२२॥
कैलास एष कथितो विशेषेण हरप्रियः ।
कैलासः ।
इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥२३॥
स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः ।
जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥२४॥
जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः ।
तथैव भद्र विस्तारैः कार्यो भागार्धनिर्गतः ॥२५॥
रथिकैका चतुर्भागा ततः सार्धद्विभागिका ।
तासां परस्परं ज्ञेयो भागभागं विधीयते ॥२६॥
षड्भागात् विस्तृतं कार्यं शिखरं सप्तमोच्छ्रितम् ।
षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः ॥२७॥
ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् ।
मूलसूत्रानुसारेण च्छेदः संयुज्यते यथा ॥२८॥
अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी ।
मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥२९॥
मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् ।
जयं लक्ष्मीं यशः कीर्त्तिं सर्वाणीष्टफलानि च ॥३०॥
करोति सर्वतो भद्रं सर्वतोभद्र कः कृतः ।
सर्वतोभद्रः ।
चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥३१॥
विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् ।
भद्रै श्चतुर्भिस्तत्कुर्यात्कर्णप्राग्ग्रीवकैस्तथा ॥३२॥
पञ्चभूमिर्भवत्येष यदि वा त्रिविधा भवेत् ।
हस्तास्त्रिंशद्भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥३३॥
स्याडेकविंशतिर्हस्तात्कनीयान् षोडशाथवा ।
जातिशुद्धो भवेदेको मञ्जर्या वै परो भवेत् ॥३४॥
मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता ।
ज्येष्ठो मिश्रकनिर्माणः स च कौलाशभद्र कृत् ॥३५॥
मध्यमो जातिशुद्धः स्यात्कनीयान् मञ्जरीयुतः ।
पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥३६॥
कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः ।
भागार्धं क्षोभणे कार्यं तलिपं तझलान्तरं ॥३७॥
गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् ।
तस्माद्भद्र स्य निष्कंशं भागेनैकेन कारयेत् ॥३८॥
मिश्रकस्य चतुर्भागं भद्रं कुर्याद्विचक्षणः ।
पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥३९॥
द्विभा रथिका कार्या भूमिः स्याच्चतुरंशका ।
द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥४०॥
चतुर्थे तु त्रिभिर्भागैरर्धहीना तु पञ्चमी ।
उदयो भूमिकाया यः कूटं कुर्यात्तदर्धतः ॥४१॥
अर्धेन कुम्भिकां कुर्यादुच्छालकसमन्विताम् ।
ऊर्ध्वभवस्तु पञ्चम्या वेदिका भागमुच्छ्रिता ॥४२॥
घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रिता ।
घण्टोत्सेधं त्रिभिर्भागैर्विभजेत्तदनन्तरम् ॥४३॥
भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च ।
भागं कण्ठप्रदेशः स्याद्दण्डिकायाः समुच्छ्रितिः ॥४४॥
घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः ।
सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत्तथा ॥४५॥
भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत् ।
पञ्चव्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥४६॥
लतातयो भवेदेषां लताभिस्तं प्रकल्पयेत् ।
मिश्रको मिश्रितैरङ्गैः शुद्ध स्याद्भूमिकान्वितः ॥४७॥
विमानः ।
नन्दनस्य भवेत्सीमा द्वात्रिंशद्धस्तनिर्मितः ।
अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥४८॥
भागैश्चतुर्भिर्गर्भोऽस्य शेषं भित्त्यन्धकारिका ।
भद्रं गर्भसमं कार्यं तदूर्ध्वेनास्य निर्गमः ॥४९॥
द्वौ रथौ पार्श्वतो भूयः सर्वतः कर्णसूत्रतः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला भागसंमिता ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP