TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः
इदानीं द्रा विडान् ब्रूमः प्रासादाञ्शुभलक्षणान् ।
एकभूम्यादयस्ते स्युर्यावद्द्वादशभूमिकाः ॥१॥
पीठान्यपि च कथ्यन्ते तेषां पञ्चैव लक्षणैः ।
तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥२॥
पीठमाद्यं भवेत्तेषु पादबन्धनमुत्तमम् ।
स्त्रीबन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥३॥
प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् ।
पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ॥४॥
एतानि पञ्च पीठानि प्रोक्तानीह समासतः ।
उत्सेधं भागविंशत्या विभजेत् पादबन्धने ॥५॥
खुरकः पञ्चभागः स्याद्द्वौ भागौ पद्मपत्रिका ।
भागिकी कणिका कार्या त्रिभागं कुमुदं भवेत् ॥६॥
कण्ठस्तु भागेनैकेन कण---श्च द्विभागिकः ।
पट्टिका भागमेकं स्याद्भागिकी पद्मपट्टिका ॥७॥
त्रिभागिकं कपोतं च कुर्यान्नासिकया सह ।
भागमेकं भवेच्छेद पादबन्धाख्यपीठके ॥८॥
पद्मपत्र्याः प्रवेशः स्यात्खुरकादङ्गुलद्वयम् ।
ग्रासः षडङ्गुलस्तस्याः कुमुदं सप्तनिर्गमम् ॥९
प्रवेशमानं तावत्स्याद्यावद्विच्छेदपट्टिका ।
षडङ्गुलप्रवेशं च च्छेदपट्टस्य कारयेत् ॥१०॥
समस्तत्रं विधातव्यं छेदस्य कणिकस्य च ।
निर्गमेण पुनस्तस्माद् द्व्यङ्गुला कण्ठपट्टिका ॥११॥
अङ्गुलत्रितयं तस्याः पद्मपत्रीविनिर्गमः ।
कापोत्तस्य --- तस्या स्यादङ्गुलत्रयम् ॥१२॥
पट्टिकानां समसूत्रच्छेदानां च संष्टिथः ।
पादबन्धोऽयमाख्यातः श्रीबन्धः कथ्यतेऽधुना ॥१३॥
पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् ।
तीडवर्तिचतुर्भाग द्विभागा पद्मपत्रिका ॥१४॥
कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः ।
छेदमेकं पदं विद्याद्भागं मेडथराथं तथा ॥१५॥
मकरं भागमेकं च भागं मकरपट्टिकाम् ।
छेदमेकं पदं विद्यात्कण्ठमेकं पदं तथा ॥१६॥
पट्टिकां भागमेकं च वेदी भागं ततः परा ।
छेदमेकपदं कुर्यात्ततः कण्ठं द्विभागिकम् ॥१७॥
पट्टिका भागमेकं च --- पद्मपत्रिका ।
कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥१८॥
छेदं च भागिकं कुर्यात्पीठे श्रीबन्धनामनि ।
श्रीबन्धोऽयं समाख्यातो वेदीबन्धोऽथ कथ्यते ॥१९॥
भागैरेकान्नविंशत्या पीठस्याच्छोतिं भजेत् ।
नीडवर्तिश्चतुर्भागा द्विभागा पद्मपत्रिका ॥२०॥
कणिकां पदिकां विद्यात्कुमुदं त्रिपदं तथा ।
कुर्वीत पदिकं छेदं तद्वन्मेण्ठस्तरं बुधः ॥२१॥
भागेनैकेन मकरं तथा मकरपट्टिकाम् ।
छेदं पदं --- कण्ठं भागिका पद्मपत्रिका ॥२२॥
कर्तव्या भागिकीं कुर्यात्कुमुदं च त्रिभागिकम् ।
छेदमेकपदं विद्यात्ततः कण्ठं द्विभागिकम् ॥२३॥
पट्टिकां भागिकीं कुर्याद्भागिकीं --- पट्टिकाम् ।
द्विभागो रसनापट्टाश्छादस्तु पट्टिको भवेत् ॥२४॥
इति प्रतिक्रमं पीठं क्षुरबन्धोऽधुनोच्यते ।
विभजेद्भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥२५॥
नीरवर्तिश्चतुर्भागा --- पद्मपत्रिका ।
कणिका भागमेकं स्याद्द्विभागं कुमुदं ततः ॥२६॥
भागं मेडथाक्षेपो मकरो भागिकस्तथा ।
भागमेकं विधातव्या ततो मकरपट्टिका ॥२७॥
छेदा मकरपदं कुर्यात्कण्ठमेकं पदं ततः ।
पट्टिकां भागिकीं विद्याद्भागिकी पद्मपत्रिका ॥२८॥
कपोतं त्रिपदं कुर्यात्ततो नासिकया सह ।
छेदश्च भागिकः कार्यः क्षुरबन्धोऽयमीरितः ॥२९॥
पीठपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् ।
पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥३०॥
सन्ति चान्यानि पीठानि लक्ष्मभेदादनेकधा ।
तेषां मध्ये प्रकृष्टत्वादेतत्पञ्चकमीरितम् ॥३१॥
प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् ।
तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥३२॥
स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः ।
चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥३३॥
कर्णस्यार्धं ततः कृत्वा गर्भादृक् बहिर्नयेत् ।
तदग्रयोः सूत्रपातात् स्यादन्यचतुरश्रकम् ॥३४॥
कूटं कुर्याद् द्विभागेन समस्तत्राद्विचक्षाणः ।
सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥३५॥
एवं सर्वेषु कूटेषु सलिलान्तरमिष्यते ।
यदायतं भवेत्सूत्रचतुर्भागविभाजिते ॥३६॥
गर्भो द्विभागिकस्तेन भागिका भित्तिरुच्यते ।
गर्भकर्णार्धमादाय कोणास्तं लाञ्छयेत्पुनः ॥३७॥
अष्टसृ---मध्ये स्यादेवं --- बहिः ।
एवं पद्मतलच्छन्दो विधाटव्यो विचक्षणैः ॥३८॥
महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे ।
पूर्वं यः कीर्तितश्छन्दः सम्पाता सूत्रयेकृताः ॥३९॥
तेषु संपादयेद् --- दिग्विदिगन्तरे ।
कर्णार्धं दापयेत्तत्र बाह्यभागविनिर्मितार्गतम् ॥४०॥
---ण्डीग्रेय्योर्दिशोर्मध्ये लाञ्छनं यद्व्यवस्थितम् ।
नैरृतीयाम्ययोर्मध्ये तस्मात्तत्र प्रसारयेत् ॥४१॥
नैरृतीयाम्ययोर्मध्याद्वाय्वम्बुपदिगन्तरौ ।
चाय्वम्बुपदिशोर्मध्यादीशसोमदिगन्तरे ॥४२॥
तृतीयां --- कूटस्य जलान्तरम् ।
कूटयोरुभयोर्मध्ये सूकराननसन्निभम् ॥४३॥
महापद्मतलच्छन्दः प्रोक्तोऽयं राजपूजितः ।
इदानीं वर्धमानस्य तलच्छन्दोऽभिधीयते ॥४४॥
चतुरश्रं भजेत्पञ्चदशधा क्षेत्रमादितः ।
कूटं द्विभागिकं --- सलिलान्तरम् ॥४५॥
पञ्जरं साध --- भागिकं सलिलान्तरम् ।
चतुर्भागा भवेच्छाला द्विविदध्या च पञ्जरे मः ॥४६॥
अर्धभागं प्रवेशस्तु शालास्वत्र जलाध्वनः ।
अष्टाङ्गुलविनिष्क्रान्ते बाह्यतः शुभदर्शने ॥४७॥
भागपादं प्रवेशः स्यात्पञ्जरान्तजलाध्वनः ।
अर्धभागं प्रवेशस्तु --- ॥४८॥
जलान्तरं तृतीयं च कर्तव्यं भागसम्मितम् ।
अनन्तरं प्रकुर्वीत पञ्जरं साधभागिकम् ॥४९॥
भागमेकं तलच्छन्दो यथावदभिधीयते ।
चतुरश्रं समं क्षेत्रमष्टाविंशतिधा भजेत् ॥५०॥
कुर्यात्कूटं चतुर्भागं --- सलिलान्तरम् ।
त्रिभागं पञ्जरं तद्वद्द्विभागं सलिलान्तरम् ॥५१॥
शालां षड्भागिकीं कुर्याज्जलमार्गं द्विभागिकम् ।
त्रिभागं पञ्जरं भूयश्चन्द्र शालाविभूषितम् ॥५२॥
पुनर्द्विभागिकं कुर्याच्चतुर्थं सलिलान्तरम् ।
विदधीत चतुर्भागं रथकं च सुशोभनम् ॥५३॥
एवं दिक्षु समस्तासु समैर्भागैः प्रकल्पयेत् ।
चतुर्भागे ततः क्षेत्रे गर्भं कुर्याद्द्विभागिकम् ॥५४॥
स्वस्तिके वर्धमाने च भागिक्यो भित्तयः स्मृताः ।
स्वस्तिकोऽयं तलच्छन्दः कथितोऽतिमनोहरः ॥५५॥
इदानीं सर्वतोभद्र तलच्छन्दोऽभिधीयते ।
चतुरश्रीकृते क्षेत्रे गर्भं कुर्याद्द्विभागिकम् ॥५६॥
कुर्यात्त्रिभागिकं कूटं जलमार्गं द्विभागिकम् ।
त्रिभागिकं ततः कूटं तोयमार्गं द्विभागिकम् ॥५७॥
शालाष्टभागिकी कुर्याज्जलवर्त्मद्विभागिकम् ।
भूयस्त्रिभागिकं कूटं द्विभागं सलिलान्तरम् ॥५८॥
त्रिभागिकी च रथिका भवेद्दिक्षु चतुर्दश ।
चतुरश्रीकृते क्षेत्रे अष्टाविंशतिधा भजेत् ॥५९॥
कुर्यात्त्रिभागिकं कूटं चतुर्धा प्रविभाजिते ।
भागिक्यो भित्तयः कार्यास्तथा गर्भो द्विभागिकः ॥६०॥
इत्येष सर्वतोभद्र स्तलच्छन्दो विधीयते ।
एते प्रोक्ता निरन्धाराः सान्धारांस्तु प्रचक्ष्महे ॥६१॥
चतुरश्रीकृतं क्षेत्रं भजेद्द्वादशभिः पदैः ।
चतुर्भागो भवेद्गर्भो भागिक्यो भित्तयः स्मृताः ॥६२॥
भागिकान्धारिका तद्वद्द्विभागा बाह्यभित्तयः ।
एवमेते तलच्छन्दाः पद्माद्याः परिकीर्तिताः ॥६३॥
पीठान्युक्तान्येवमेतानि पञ्च ।
प्रासादानां नामभिर्लक्षणैश्च ।
पञ्चप्रोक्ता ये तलच्छन्दभेदा-
स्तैर्विज्ञातैः पूज्यतामेति लोके ॥६४॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे पीठपञ्चकाध्यायो नामैकषष्टितमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:43:29.6800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

निचकणे

  • स.क्रि. १ ( कों . ) हिसक्याने स्थानापासून अलग करणे ; स्थानभ्रष्ट करणे ; हालवणे ; बाजूला सारणे ; कचकावणे ; लचकणे ; लाथेने मनुष्याचा अवयव तत्काळ वांकविणे . २ झरणे ; पाझरणे ; द्रवणे . 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site