TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २०१

भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १५१ ते २०१

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः - १५१ ते २०१
द्वादशांशो य उत्सेधो भागानां सम --- ।
तं कृत्वा पञ्चभिर्भागैस्ते द्विस्तैर्द्वितीया भवेन्मही ॥१५१॥
पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः ।
गर्भा गर्भं विधातव्यं भूमिकानां प्रवेशनम् ॥१५२॥
वेदिका च ततः कार्या सार्धभागसमुच्छिता ।
पादोनद्विपदा घण्टा विभजेत्तां त्रिभिः पदैः ॥१५३॥
पदं स्यात्कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता ।
अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥१५४॥
कर्परं सार्धभागेन कुर्यात्सामलसारकम् ।
सीस्तन चाभागायाः सार्धभागचतुष्टयात् ॥१५५॥
घण्टाया विस्तरः कार्यस्तं भजेत्षड्भिरंशकैः ।
चतुर्भिः कन्दविस्तारात् --- ॥१५६॥
सार्धभागः समुत्सेधः कलशस्य तदर्धतः ।
शिखरस्य त्रिभागेन शुकनासा विधीयते ॥१५७॥
विस्ताराद् गर्भमानेन हीना वाष्टांशतो भवेत् ।
विस्ताराथ सपादेन शूरसेनस्तदूर्ध्वतः ॥१५८॥
द्वितीयभूमिकातुल्य आद्यभूमेः स ऊर्ध्वतः ।
शालाविस्तारतुल्यास्तु शूरसेनास्त्रयो मताः ॥१५९॥
शाला नागरिकाश्चाष्टौ ग्राहग्रासविराजिताः ।
य इमं कारयेद्धन्यः प्रासादं स्वस्तिकं शुभम् ॥१६०॥
तस्यानुजन्म शातानां स्वस्तिश्रीभाजनं भवेत् ।
स्वस्तिकप्रासादः ।
अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥१६१॥
प्रासादं लक्षणोपेतं शक्रादिसुरवल्लभम् ।
पूर्वोक्तलक्षणोपेते स्वस्तिके दवमध्यदे ॥१६२॥
भद्रे शृङ्गं प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम् ।
पुरस्तान्मण्डपं कुर्यात्सर्वलक्षणसंयुतम् ॥१६३॥
इत्येष कथितः सम्यग्वज्रस्वस्तिकसंज्ञितः ।
य इमं कारयेद्धन्यः प्रासादं सर्वकामदम् ॥१६४॥
स स्याद्भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते ।
वज्रस्वस्तिकप्रासादः ।
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥१६५॥
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे ।
कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥१६६॥
तद्वृत्तं विभजेत्क्षेत्रं चतुःषष्ट्या पदैस्ततः ।
कर्तव्या विस्तरेणास्मिन्नष्टौ शालाश्चतुष्पदाः ॥१६७॥
पल्लवी वृत्तसूत्रेण बाह्यतो भद्र कर्णिके ।
कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥१६८॥
विभागायामविस्तारौ सलिलान्तरभूषितौ ।
परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥१६९॥
अष्टास्वपि च दिक्ष्वेवं माना कर्मभिरन्विता ।
गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥१७०॥
कर्तव्याः पूर्वमानेन स्वस्तिकोक्तेन तद्विदा ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥१७१॥
सोऽत्राष्टाविंशतिविधः कर्तव्य सूत्र भूमिका ।
द्वितीया पञ्चभिर्भागैः पदपादोज्झिताः पृथक् ॥१७२॥
अन्याः स्युर्भूमयः पञ्च वेदी व्यंद्भिः द्विभागिकाः ।
चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मर्यिउ!ताः ॥१७३॥
चतस्रः पुनरन्याश्च युक्ता द्र विडकर्मभिः ।
घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥१७४॥
शूरसेनः शुकाघ्रा च स्तम्भिकाकूटभक्तयः ।
रेखाश्च पूर्ववत्कार्याः प्रासादस्यास्य जानता ॥१७५॥
प्रासादस्यास्य कर्ता यस्तथा कारयिता च यः ।
प्राप्नुतामिव लोकं तौ नित्यानन्दसुखोदयम् ॥१७६॥
हर्म्यतलकप्रासादः ।
अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम् ।
चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥१७७॥
ततः कर्णार्धसूत्रेण तस्मिन् वृत्तं समालिखेत् ।
वर्तुलं कारयेत्क्षेत्रमशीतिपदभाजितम् ॥१७८॥
शालाश्चाष्टौ विधातव्याः पूर्वदिक्षु चतुष्पदाः ।
पल्लवी वृत्तसूत्रेण बाह्यतो भद्र कर्णिके ॥१७९॥
कुर्याच्छालाद्वयस्यान्तः कोणानां च त्रयं त्रयम् ।
द्विभागायामविस्तारसलिलान्तरभूषिताः ॥१८०॥
एवं कोणा विधातव्या विंशतिश्चतुरुत्तरा ।
परिवर्तनमन्योन्यमेषां कुर्याद्यथाक्रमम् ॥१८१॥
एतत्सामप्रमाणेन गर्भं भित्तिं च वेदिकाम् ।
जङ्घां च भूमिशिखरं पूर्ववत्परिकल्पयेत् ॥१८२॥
अष्टौ च मञ्जरीः कुर्याद्युक्ता नागरकर्मणा ।
रुद्रे श्वरसमायुक्ता नीरधारोपशोभिताः ॥१८३॥
घण्टाकूटाश्च रेखा च स्तम्भिकाः शूरसेनकः ।
शुकाघ्रास्कन्धविस्तारकलशेन समन्वित ॥१८४॥
स्वस्तिकोक्तविधानेन विदध्यादुदयाचलम् ।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥१८५॥
स्यात्पञ्चत्रिंशता भाज्यो --- तत्र भूमिका ।
पञ्चभागोच्छ्रिता कार्या ततोऽन्याः सप्त भूमयः ॥१८६॥
पदपादोच्छ्रिता भागद्वयो यो तु वेदिका ।
--- सर्वलक्षणसंयुता ॥१८७॥
प्रासादं यस्त्विमं सम्यग्भक्तिमान् कारयेन्नरः ।
शाश्वतं पदमाप्नोति स दुष्प्रापं सुरैरपि ॥१८८॥
उदयाचलप्रासादः ।
इदानीं प्रक्रमायातः कथ्यते गन्धमादनः ।
स्वलक्षणप्रमाणाढ्यक्षितिस्मिन्नुदयाचले ॥१८९॥
कुर्वीत मञ्जरीरष्टौ युक्ता द्रा विडकर्मभिः ।
कूटाश्च मणिकाः कार्या नानाकर्मभिरन्विताः ॥१९०॥
स्थानेषु शूरशेना --- पुरोरेखात्रयं भवेत् ।
शुकनासां च घण्टां च स्कन्धं शिखरमेव च ॥१९१॥
कूटा --- स्तम्भिका कुम्भं पूर्ववत् परिकल्पयेत् ।
य इमं कारयेद्धन्यः प्रासादं मण्डनं भुवः ॥१९२॥
विद्याधराधिपः श्रीमान्स भवेन्नात्र संशयः ।
भुङ्क्ते च विविधान् भोगान् सुरस्त्रीभिश्च सेव्यते ॥१९३॥
गन्धमादनप्रासादः ।
उदयस्य विभेदेन रेखा याः पञ्चविंशतिः ।
लतिनागरभौमानां ताः कथ्यन्ते यथागमम् ॥१९४॥
लतिनां स्याद्वारंगतो नागराणां तु कूटकः ।
भूमिजानां विधातव्या माथायाः पुरतो भुवः ॥१९५॥
शिखरं व्यासकर्णाभ्यां तुल्यं स्यादधमोत्तमम् ।
भाजनीयचतुर्युक्तविंशस्यादनन्तरम् ॥१९६॥
--- भागरेखास्तावत्य ईरिताः ।
संख्या सा शोभना भद्रा सुरूपा सुमनोरमा ॥१९७॥
शुभा चैव तथा शान्ता कावेरी च सरस्वती ।
लोका च करवीरा च कुमुदा पद्मिनी तथा ॥१९८॥
कनका विकटा देवरम्या च रमणी तथा ।
वसुन्धरा तथा हंसी विशाखा नन्दिनीति च ॥१९९॥
जया च विजया चैव सुमुखा च प्रियानता ।
इत्येताः कीर्तिता रेखाः --- या पञ्चविंशतिः ॥२००॥
रेखा एताः ।
एताः शुभफलाः सर्वाः कर्तुः कारयितुस्तथा ।
चतुरश्रचतुष्कमेवमुक्तं वृत्ताः सप्त च भूमिजा इमे ॥२०१॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे भूमिजप्रासादाध्यायो नाम पञ्चषष्टितमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-09-20T03:19:40.5730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

endoblastic

  • अंतःप्ररोहणी 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site