TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षोडशाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - षोडशाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


षोडशाधिकशततमोऽध्यायः
सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम्‍ ॥ यानि कृत्वा नरो भक्तया सूर्यसायुज्यमाप्नुयात्‍ ॥१॥
चैत्रे तु शुक्लसप्तम्यां बहिः स्नानं समाचरेत्‍ ॥ स्थंडिले गोमयालिप्ते गौरमृत्तिकयास्तृते ॥२॥
लिखिताष्टदलं पद्मं कर्णिकायां विभावम्‍ ॥ विन्यसेत्पूर्वपप्त्रे तु देवौ द्वौ कृतधातुकौ ॥३॥
आग्नेयं च न्यसेत्पत्रे गंधर्वौ कृत्कारकौ ॥ दक्षिणे च न्यसेत्पत्रे तथैव राक्षसद्वयम्‍ ॥४॥
आकृतौ द्वौ न्यसेत्पत्रे नैऋते मुनिसत्तम्‍ ॥ काद्रवेयौ महानागौ पश्चिमे कृतचारकौ ॥५॥
वायव्य यातुधानौ द्वौ उत्तरे च ऋषिद्वयम्‍ ॥ ऐशान्ये विन्यसेत्पत्रे ग्रहमेको द्विजोत्तम ॥६॥
तेषां संपूजनं कार्यं गंधमाल्यानुलेपनैः । दीपैर्धूपैः सनैवैद्यैस्तांबूलक्रमुकादिभिः ॥७॥
एवं संपूज्य होमं तु घृतेनाष्टशंत चरेत्‍ ॥ सूर्यस्याष्टाष्ट चान्येषां प्रदद्यादाहुतीः क्रमात्‍ ॥८॥
नाममंत्रैण वेद्यां वा ततः पूर्णाहूतिं ददेत ॥ दक्षिणां च ततो देया द्विजेभ्यः शक्तितो द्विज ॥९॥
एतत्कृत्वा विधानं तु सर्वसौख्यम्‍ वाप्नुयात्‍ ॥ देहांते मण्डलं भानोर्भत्त्वा गच्छेत्परं पदम्‍ ॥१०॥
वैशाखशुक्लसप्तम्यां जह्रुनां जाह्रवी स्वयम्‍ ॥ क्रोधात्पीता पुनस्त्यक्ता कर्ण रंध्रात्तु दक्षिणात्‍ ॥११॥
तां तत्र पूजयेत्स्नात्वा प्रत्यूषे विमले जले ॥ गंधपुष्पाक्षताद्यैश्व सर्वैरेवोपचारकैः ॥१२॥
ततो घटसहस्त्रं तु देयं गंगाव्रते त्विदम्‍ ॥ भक्तया कृतं सप्तकुलं नयेत्स्वर्गमसंशयः ॥१३॥
कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते ॥ तिलमात्रं तु सौवर्णं विधाय कमलं शुभम्‍ ॥१४॥
वस्त्रयुग्मावृत्तं कृत्वा गंधधूपादिनार्चयेत्‍ ॥ नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे ॥१५॥
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥इति संप्रार्थ्य देवेशं सूर्ये चास्तमुपागते ॥१६॥
सोदकुभं तु तत्पद्मं कपिला च द्विजेऽर्पयेत्‍ ॥ तद्दिने तूपवस्तव्यं भोक्तव्यं च परेऽहनि ॥१७॥
संभोज्य ब्राह्मणान्भक्तया व्रतसाकल्यमाप्नुयात्‍ ॥ निंबव्रतं तत्रैव तद्विधानं श्रृणुष्व मे ॥१८॥
निंबपत्रैः स्मृता पूजा भास्करस्य द्विजोत्तम ॥ खरवोल्कायेति मंत्रेण प्रणवावाद्येन नारद ॥१९॥
निंबपत्रं ततोऽश्रीयाच्छयेद्धूमौ च वाग्यतः ॥ द्विजान्परेऽह्रि संभोज्य स्वयं भुंजीत्‍ बंधुभिः ॥२०॥
निंबपत्रव्रत चैतत्कर्तृणां सर्वसौख्यदम्‍ ॥ सप्तमी शर्कराख्यैषा प्रोक्ता तच्चापि मे श्रृणु ॥२१॥
अमृतं पिबतो हस्तात्सूर्यस्यामृतबिंदवेः ॥ निष्पेतुर्भुवि चोत्पन्नाः शालिमुद्द्रयवेक्षवः ॥२२॥
शर्करा च ततस्तस्मादिक्षुसारामृतोपमा ॥ इष्टा खेरतः पुण्या शर्करा हव्यकव्ययोः ॥२३॥
शर्करासप्तमी चैव वाजिमेधफलप्रदा ॥ सर्वदुःखोपशमनी पुत्रसंततिवर्धिनी ॥२४॥
अस्यांतु शर्करादानं शर्कराभोजनं तथा ॥ कर्तव्यं हि प्रयत्नेन व्रतमे तद्रविप्रियम्‍ ॥२५॥
यः कुर्यात्परया भक्तया स वै सद्धातिमाप्नुयात्‍ ॥ ज्येष्ठे तु शुल्कसप्तम्यां जात इंद्रो रविः स्वयम्‍ ॥२६॥
तं संपूज्य विधानेन सोपवासो जितेंद्रियः ॥ स्वर्गातं लभते विप्र देवेंद्रस्य प्रसादतः ॥२७॥
आषाढशुल्कसप्तम्यां विवस्वान्नाम भास्करः ॥ जातस्तं तत्र संप्रार्च्य गन्धपुष्पादिभिः पृथक्‌ ॥२८॥
लभते सूर्यसायुज्यं विप्रेंद्रात्र न संशयः ॥ श्रावणे शुक्लसप्तम्यामव्यंगाख्यं व्रतं शुभम्‍ ॥२९॥
कार्पासं तु चतुर्हस्तं सार्द्धं वस्त्रं हि गोपतेः ॥ पूजांते प्रीतये देयं व्रतमेतच्छुभावहम्‍ ॥३०॥
यदि चेद्धस्तयुक्तेयं तदा स्यात्पापनाशिनी ॥ अस्यां दानं जपो होमः सर्वं चाक्षय्यताम व्रजेत्‍ ॥३१॥
भाद्रे तु शुक्लसप्तम्याममुक्ताभरणव्रत‍म्‍ ॥ सोमस्य तु महेशस्य पूजनं चात्र कीर्तितम्‍ ॥३२॥
गंगादिभिः षोडशभिरु पचारैः समर्चनम्‍ ॥ प्रार्थ्यं प्रणम्य विसृजेत्सर्वकामसमृद्धये ॥३३॥
फलसप्तामिका चेयं तद्विधानमुदीर्यते ॥ नालिकेरं च वृंताकं नारंगं बीजपूरकम्‍ ॥३४॥
कूष्मांडं बृहतीपूगमिति सप्त फलानि वै ॥ महादेवस्य पुरतो विन्यस्यापरदोरकम्‍ ॥३५॥
सप्ततन्तुकृतं सप्तगंथियुक्तं द्विजोत्तम्‍ ॥ संपूज्य परया भक्तया धारयेद्वामके करे ॥३६॥
स्त्री नरो दक्षिणे चैव यावद्वर्ष समाप्यते ॥ संभोज्य विप्रान्सप्तैव पायसेन विसृज्य तान्‍ ॥३७॥
स्वयं भुंजीत मतिमान्‍ व्रतसंपूर्तिहेतवे ॥ फलानि तानि देयानि सप्तस्वपि द्विजेषु च ॥३८॥
एवं तु सप्त वर्षाणि कृत्वोपास्य यथाविधि ॥ सायुज्यं कपिलांगां च संपूज्य प्रार्थयेत्ततः ॥३९॥
आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी ॥ तस्यां कृतस्नानपूजो वाचयित्वा द्विजोत्तमान्‍ ॥४०॥
आरभ्य कपिलांगा च संपूज्य प्रार्थयेत्ततः ॥त्वामहं कल्याणि प्रीयतामर्यमा स्वयम्‍ ॥४१॥
पालय त्वं जगत्कृत्स्नं यतोऽसि धर्मसम्भवा ॥ इत्युक्ता वेदविदुषे दत्त्वा कृत्वा च दक्षिणाम्‍ ॥४२॥
नमस्कृत्य स्वयं विप्र विसृजेत्प्राशयेत्स्वयम्‍ ॥ पचगव्यं व्रतं चेत्थं विधाय श्वो द्विजोत्तमान्‍ ।४३॥
भोजयित्वा स्वयं चाद्यात्तदन्नं द्विजशेषितम्‍ ॥ कृतं ह्येतद्वतं विप्र सुभाष्यं श्रद्धायान्वितः ॥४४॥
देवदेवप्रसादेन मुक्तिमुक्तिमवाप्नुयात्‍ ॥ अथ कार्तिकशुक्लायां शाकाख्यं सप्तमीव्रतम्‍ ॥४५॥
तस्यां तु सप्त्शाकानिसस्वर्णकमलानि च ॥ प्रदद्यात्सप्तविप्रेभ्यः शाकाहाररस्ततः स्वयम्‍ ॥४६॥
द्वितीयेऽह्री द्विजा न्भोज्य तेभ्योऽन्नक्षिणाम्‍ ॥ विसृज्य बंधुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ॥४७॥
मार्गस्य सितसप्तम्यां मित्रव्रतमुदाहृतम्‍ ॥ यदिष्णोर्दक्षिणं नेत्रं तदेव कृतवानिह ॥४८॥
अदित्यां कश्यपाज्जज्ञे मित्रो नामा दिवाकरः ॥ अतोऽस्यां पूजणं तस्य यथोक्तविधिना द्विज ॥४९॥
कृत्वा द्विजान्भोजयित्वा सप्तैव मधुरादिना ॥ सुवर्णदक्षिणां दत्वा विसृज्याश्रीत च स्वयम्‍ ॥५०॥
कृत्वैतद्विधिना लोकं सुर्य्यस्य व्रजति ध्रुवम्‍ ॥ द्विजो ब्राह्यं तथा शूद्रः सत्कूले जनम चाप्नुयात्‍ ॥५१॥
पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंज्ञितम्‍ । उपोष्य भानुं त्रिःसन्ध्यं समभ्यर्च्य धरास्थितः ॥५२॥
क्षीरसिक्तान्नसंबद्धं मोदकं प्रस्थसंमितम्‍ ॥ द्विजाय दत्वा भोज्यानासप्ताष्टभ्यश्व दक्षिणाम्‍ ॥५३॥
पृथवी वा सुवर्णं वा विसृज्याश्नीत च स्वयम्‍ ॥ अभयाख्यं व्रतं त्वेतत्सर्वस्याभयदं स्मृतम्‍ ॥५४॥
मार्तंडाख्य्म व्रतं नाम कथयंति द्विजाः परे । एकमेवेति च प्रोक्तमेकदैवतया बुधैः ॥५५॥
माघे तु कृष्णसप्तम्यां व्रतं सर्वाप्तिसंज्ञकम्‍ ॥ समुपोष्य दिने तस्मिन्सम्पूज्यादित्यबिम्बकम्‍ ॥५६॥
सौवर्णं गंधपुष्पाधैः कृत्वा रात्रौ च जागरम्‍ ॥ परेऽह्रि विप्रान्सम्भोज्य पायसेन तु सप्त वै ॥५७॥
दक्षिणां नालिकेराणि तेभ्यो दत्वा गुरुं ततः ॥ सौवर्णं तु खेर्बिम्बं युक्तं दक्षिणया न्यय ॥५८॥
समर्प्य च भृशंप्रार्थ्य विसृज्याद्यात्स्वयं ततः ॥ एतत्सर्वाप्तिदं नाम संप्रोक्त सार्वकामिकम्‍ ॥५९॥
व्रतस्यास्य प्रभावेण द्वैतं सिद्धयेद्धि सर्वथा ॥ माघस्य शुक्लसप्तम्यामचलाख्यं व्रतं स्मृतम्‍ ॥६०॥
त्रिलोचनजयंतीयं सर्वपापहरा स्मृता ॥ रथाख्या सप्तमी चेयं चक्रवर्तित्वदायिनी ॥६१॥
अस्यां समर्च्य सवितुः प्रतिमांतु तु हैमीं हैमाश्वयुक्तरथगां तु ददेत्सहेभाम्‍ ॥ यो भावभक्तिसहितः स गतो हि लोकं शम्भोः स मोदत इहापि च भुक्तभोगः ॥६२॥
भास्करी सप्तमी चेयं कोटिभास्वद्‍ग्रहोपमा ॥ अरुणोदयवेलायामस्यां स्नानं विधीयते ॥६३॥
अर्कस्य च बदर्याश्व सप्त सप्त दलानि वै ॥ निधाय शिरसि स्नायत्सप्तजन्माघशांतये ॥६४॥
पुत्रप्रदं व्रतं चात्र प्राहदित्यः स्वयं प्रभुः ॥ यो माघसितसप्तम्यां पूजयेन्मां पूजयेनमां विधानतः ॥६५॥
तस्याहं पुत्रतां यास्ये स्वांशेन भृशतोषितः ॥ तस्माज्जितेंद्रियो भोत्वा समुपोष्य दिवानिशम्‍ ॥६६॥
पूजयेदपरे चाह्रि होमं कृत्वा द्विजां स्ततः ॥ दध्योदनेन पयसा पायसेन च भोजयेत ॥६७॥
अनेन विधिना यम्तु कुरुते पुत्रसप्तमीः ॥ लभते स तु सत्पुत्रं चिरायुय्षमनामयम्‍ ॥६८॥
तपस्यशुक्लसप्तम्यां व्रतमर्कपुटं चरेत्‍ ॥ अर्कपत्रैर्यदर्कगर्कपत्राणि चाश्नुयात्‍ ॥६९॥
अर्कनाम जपेच्छश्वादित्थं चार्कपुटव्रतम्‍ ॥ धनंद पुत्रदं चैतत्सर्वपाप्रणाशनम्‍ ॥७०॥
त्रिवर्गदमिति प्राहुः केचिदेतद्धूतं द्विज ॥ यज्ञव्रतं तथाप्यन्ये विधिवद्धोमकर्मणा ॥७१॥
सर्वासु सर्वमासेषु सप्तमीषु द्विजोत्तमः ॥ भास्करराधनं प्रोक्तं सर्वकामिकमित्यलम्‍ ॥७२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्तमीव्रतनिरुपणं नाम षोडशाधिकशततमोऽध्यायः ॥११६

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T05:08:08.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

private account

  • निजी लेखा 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.