TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकाशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकाशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


नामैकाशीतितमोऽध्यायः
श्रीसनत्कुमार उवाच ॥
अथ कृष्णस्य मंत्राणां वक्ष्ये भेदान् मुनीश्वर ॥ यान्समाराध्य मनुजाः साधयंतीष्टमात्मनः ॥१॥  
शक्तिश्रीमारपूर्वश्व श्रीशक्तिस्मरपूर्वकः ॥ मारशक्तिमापूर्वो दशार्णा मनवस्त्रयः ॥२॥
मुनिः स्त्रान्नारदश्र्छन्दो गायत्री देवता पुनः ॥ कृष्णो गोविंदनामात्र सर्वकप्रदो नृणाम् ॥३॥
चक्रैः पूर्ववदंगानि त्रयाणामपि कल्पयेत् ॥ ततः किरीटमनुना व्यापकं हि समाचरेत् ॥४॥
सुदर्शनस्य मनुना कुर्याद्दिग्बंधनं तथा ॥ विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम् ॥५॥
द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् ॥ तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः ॥६॥
शखचक्रधनुर्बाणपाशांकुशधरारुणम् ॥ दोभ्यां धृतं धमंतं च वेणू कृष्णादिवाकरम् ॥७॥
एवं धात्वा जपेन्मत्रान्पञ्चलक्षं पृथक्‍ सुधीः ॥जुहुयात्तद्दशांशेन पायसेन ससर्पिषा ॥८॥
एवं सिद्धे मनौ मंत्री कुर्यात्काम्यानि पूर्ववत् ॥। श्रीशक्तिकामः कृष्णाय गोविंदायाग्निसुन्दरी ॥९॥  
रव्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयोऽस्य तु ॥ बीजै रमाब्धियुमार्णैः षडंगानि प्रकल्पयेत् ॥१०॥
विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् ॥ किं बहूक्तेन मंत्रोऽयं सर्वाभीष्टफलप्रदः ॥११॥
श्रीशक्तिस्मरपूर्वोजन्मा शक्तिरमांतिकः ॥ दशाक्षरः स एखादौ प्रोक्तः शक्तिरमायुतः ॥१२॥
मन्त्रो षोदशरव्यर्णौ चक्रैरंगानि कल्पयेत् ॥ वरदाभयहस्ताभ्यां श्लिष्यंतं स्वांगके प्रिये ॥१३॥
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् ॥ ध्यात्वैवं प्रजपेल्लदशकं तद्दशांशत ॥१४॥
आर्ज्यैहुत्वा ततः सिद्धौ भवेताम मन्त्रनायकौ ॥ सर्वकामप्रदौ सर्वसंपत्सौभाग्यदौ नृणाम् ॥१५॥
अष्टादशार्णः कामांतो मनुः सुत धनप्रदः ॥ नारदोऽस्य मुनिश्छंदो गायत्री देवता मनोः ॥१६॥
कृष्णः कामो बीजमुक्तं शक्तिर्वह्रिप्रिया मता ॥ षडीर्याढ्येन बीजेन षडंगानि समाचरेत् ॥१७॥
पाणौ पायसपक्कं च दक्षे हैयंगवीनकम् ॥ वामे दधिद्दिव्यादिगंबरो गोपीसुतोऽवतु ॥१८॥
ध्यात्वैवं प्रजपेन्मंत्रं द्वात्रिशल्लक्ष मानतः ॥ दशांश जुहुयादग्नौ सिता ढ्येन पयोंऽधसा ॥१९॥
पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत ॥ पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखां बुजे ॥२०॥
क्षीरेण कदलीपक्कैर्दध्रा हैयंगवेन च ॥ पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ॥२१॥
यद्यदिच्छति तत्सर्व तर्पणादेव सिद्धयति ॥ वाक्कामो ङेयुतं कृष्णपदं माया ततः परम् ॥२२॥
गोविंदाय रमा पश्वाद्दशार्णं च समुद्धरेत् ॥ मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धगौ ॥२३॥
द्वाविंश त्यक्षरो मन्त्रो वागीशत्वप्रदायकः ॥ ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः ॥२४॥
विद्याप्रदश्व गोपालः कामो बीजं प्रकीर्ति तम् ॥ शक्तिस्तु वागभवं विद्याप्राप्तये विनियोजना ॥२५॥
वामोर्द्धहस्ते दधतं विद्यापुस्तकमुत्तमम् ॥ अक्षमालां च दक्षोर्द्धस्फटिकीं मातृका मयीम् ॥२६॥
शब्दब्रह्मः यं वेणुमधः पाणिद्वये पुनः ॥ गायत्रीगीतवसनं श्यामलं कोमलच्छविम् ॥२७॥
बर्हावतंसं सर्वज्ञं सेवितं मुनिपुंगवेः ॥ धयत्वेबं प्रमदवेषविलासं भुवनेश्वरम् ॥२८॥
वेदलक्षं जपेन्मंत्रं किंशुकेस्तद्दशांशतः ॥ हुत्वा तु पूजयेन्मन्त्री विंशत्यर्ण विधानतः॥२९॥  
एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः । अदृष्टान्यपि शास्त्राणि तस्य गंगातरंगत् ॥३०॥
तारः कृष्णयुगं पश्वान्महाकृष्ण इतीरयेत् ॥ सर्वज्ञ त्वंप्रशब्दंति सीदमेऽग्रिश्व मारम् ॥३१॥
णांते विद्येश विद्यामाशु प्रयच्छ ततश्व से ॥ त्रयस्त्रिंशदक्षरोऽयं महाविद्याप्रदो मनुः ॥३२॥
नारदोऽस्य मुनिश्छन्दोऽनुष्टुप्‍ कृष्णोऽस्य देवता ॥ पादैः सर्वेण पंचांगं कृत्वा ध्यायेत्ततो हरिम् ॥३३॥
दिव्योद्याने विवस्वत्प्रति ममणिमय मण्डपे योगपीठे मध्ये यः सर्ववेदांगमयसुरतरोः संनिविष्टो मुकुन्दः ॥
वेदैः कल्पद्रुरुपैः शिखरिशतसमालंबिकोशैश्वतुर्भीर्न्यायैस्तर्कै पुराणैः स्मृतिभिरभिवृतस्तादृशैश्वामराद्यैः ॥३४॥
दद्याद्विभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानस्पृक्पूर्णकुंभौ स्मरललितपुर्दिव्यभूषांग रागः ॥
व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्धवेन श्रियमरुणरुचिर्बवीवल्लभो नः ॥३५॥
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् ॥ अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित् ॥३६॥
तारो नमो भगवते नन्दपुत्राय संवदेत् ॥ आनन्दपुषे दद्यादृषार्णं तदनंतरम् ॥३७॥
अष्टाविंशतिवर्णोऽयं मंत्रः सर्वेष्टदायकः ॥ नंदपुत्रादं ङेत श्यामलांगपदं तथा ॥३८॥
तथा बालवपुःकृष्णं गोविंद च तथा पुनः ॥ दशार्णोऽतो भवेन्मंत्रो द्वात्रिंशदक्षरान्वितः ॥३९॥
अनयोर्नारदऋषिश्र्छंदस्तूष्णिगनुष्टभौ ॥ देवता नन्दपुत्रस्तु विनियोगोऽखिलाप्तये ॥४०॥
चक्रैः पंचागंमर्चास्यादंगदिक्पालहेतिभिः ॥ दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम् ॥४१॥
करे दधानं देवीभ्यांश्लिष्टं संचिंतयेद्विभुम् ॥ लक्षं जपो दशांशेन जुहुयात्पायसने तु ॥४२॥
एताभ्यां सिद्धमंत्राभ्यां मंत्री कुर्याद्यथेप्सितम् ॥ प्रणवः कमला माया नमो भगवते ततः ॥४३॥
नंदपुत्राय तत्पश्वाद्वालान्ते वपुषे पदम् ॥ ऊनविंशतिवर्णोऽयं मुनिर्ब्रह्मा समीरितः ॥४४॥
छंदोऽनुष्टुप्‍ देवता च कृष्णो बालवपुः स्वयम् ॥ मन्त्रोऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः ॥४५॥
तारो हद्धगवान्ङेंतो रुक्मिणीवल्लभाय च ॥ वह्रिजायावधिः प्रोक्तो मंत्रः षोडशवर्णवान् ॥४६॥
नारदोऽयं मुनिश्छन्दोऽनुष्टुप्‍ च देवता मनोः ॥ रुक्मिणीवल्लभश्वंद्रदृग्वेदांगाक्षिवर्णकैः
पञ्चांगानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम् ॥४७॥
तापिच्छच्छविरंकगाम प्रियतमां स्वर्णप्रभामंबुजप्रोद्यमभुजां स्ववामभुजयाश्लिष्यन्स्वचित्तशया ॥
श्लिष्यंतीं स्वयमन्यहस्तविलत्सौवर्णवीत्रश्विरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः ॥४८॥
ध्यात्वैवं प्रजपेल्लंक्ष रक्तैः प्रद्मैर्दशांशतः ॥४९॥
त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् ॥ अंगैर्नारदमुख्यैश्व लोकेशैश्व तदायुधैः ॥५०॥
एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्व मंत्रिणे ॥ लीलादंडपदाब्जोऽपि जनसंसक्तदाः पदम् ॥५१॥
दंडांते वा धरावह्रिरधीशाढ्योऽथ लोहितः ॥ मेघश्यामपदं पश्वाद्धगवन् सलिलंसदृक्‍ ॥५२॥
विष्णो इत्युक्ता ठद्वयं स्यादेकोनत्रिंशर्दवान् ॥ नारदोऽस्य मुनिश्र्छंदोऽनुष्टुप च देवता मनोः ॥५३॥
लीलादंडहरिः प्रोक्तो मन्वब्धियुगवह्रिभिः ॥ वेदैः पंचांगकं भागैर्मंत्रवर्णोत्थितैः क्रमात् ॥५४॥
संमोह्यंश्व निजवामकरस्थलीदंडेन गोपयुवतीः परसुंदरीश्व ॥
दिश्यन्निजप्रियसखांसगदक्षहस्तो देव श्रियं निहतकंस उरुक्रमो नः ॥५५॥
लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः ॥ त्रिमर्धक्तैस्ततोऽभ्यर्चेदंगं दिक्पालहेतिभि ॥५६॥
लीलादंड हरिं यो वै भजते नित्यमादरात् ॥ स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा ॥५७॥
सद्यारुढा स्मृतिस्तोयं केश्वावाढ्यधरायुग्म् ॥ भयाग्रिवल्लभामंत्रः सप्तार्णः सर्वसिद्धिदः ॥५८॥
ऋषिः स्यान्नरदश्र्छंदो उष्णिग्गोवल्लभस्य तु ॥ देवतापूर्ववच्चकैः पञ्चांगानि तु कल्पयेत् ॥५९॥
ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्रयन्दधदृक्षिणस्थवेणुम् ॥
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः ॥६०॥
सप्तलक्षं जपेन्मंत्रं दशांशं जुहुयात्ततः ॥ गोदुग्धैः पूजयेत्पीठे स्यादंगैः प्रथमावृतिः ॥६१॥
सुवर्णपिंगलां गौरपिंगलां रक्तपिंगलाम् ॥ गुडपिंगां बभ्रुवर्णां चोत्तमां कपिलां तथा ॥६२॥
चतुष्कपिङुलां चोत्तमां शुभाम् ॥ गोगणाष्टकमभ्यर्च्य लोकेशानायुधैर्युतान् ॥६३॥
संपूज्यैवं मनौ सिद्ध कुर्यात्काम्यानि मंत्रवित् ॥ अष्टोत्तरसहस्त्र यः पयोभिदिनशो हुनेत् ॥६४॥
पक्षात्सगोगणो मुक्तो दशार्णे चाष्ययं विधिः ॥ तारो त्दृद्रगवान् ङेंत श्रीगोविंदस्तथा भवेत् ॥६५॥
द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः ॥ छंदः प्रोक्तं च गायत्री श्रीगोविन्दोऽस्य देवता ॥
चन्द्राक्षियुगभूतार्णैः सर्वैः पंचांगकल्पनम् ॥६६॥
ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशंगांशुकम तिसुभगं शंखवेत्रे कराभ्याम् ॥६७॥
बिभ्राणं गोसहस्त्रैर्वृतममरपतिं पौढहस्तैककुंभप्रश्वोतत्सौधधारास्त्रपितमभिनवांभोजपत्राभनेत्रम् ॥६८॥
रविलक्षं जपेन्मंत्र दुग्धैर्हुत्वा दशांशतः ॥ यजेच्च पूर्वद्धोष्ठस्थितं वा प्रतिमादिषु ॥६९॥
पूर्वोक्ते वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥ तत्रा वाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम् ॥७०॥
रुक्मिणीं सत्य पार्श्वयोरिंद्रमग्रतः ॥ पृष्ठतः सुरभिं चेष्टा केसरेष्वंगपूजनम् ॥७१॥
कालिंद्याद्या महिष्योऽष्टौ वसुपत्रेषु संस्थिताः ॥ पीठकोणेषु बद्धादिकिंकणीं च तथा पुनः ॥७२॥
दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्स्कौस्तुभौ ॥ अग्रतो वनमालादिर्दिक्ष्वष्टसु तथा स्थिताः ॥७३॥
पांचजन्यं गदा चक्रं वसुदेवश्व देवकी ॥ नंदगोपो यशोदा च सगोगोपालगोपिकाः ॥७४॥
इंद्राद्याश्व स्थित बाह्ये वज्राद्याश्व ततः परम् ॥ कुसुदः कुसुदाक्षश्व पुंडरीकोऽथ वामनः ॥७५॥
शकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ विष्वक्सेन्श्व संपूज्यः स्वात्मा चार्ष्यस्ततः परम् ॥७६॥
एककालं त्रिकालं वा यो गोविंद यजेन्नरः ॥ स चिरायुर्निरातंकी धनधान्यपतिर्भवेत् ॥७७॥
स्मृतिः सद्यान्विता चक्री दक्षकर्णायुतोधरा ॥ नाथाय ह्रदयांतोऽयं वसुवर्णो महामनु॥७८॥
मुनिर्ब्रह्मास्य गायत्री छंदः कृष्णोऽस्य देवता ॥ वर्णद्वंद्वैश्व सर्वेण पंचांगान्यस्य कल्पयेत् ॥७९॥
पंचवर्षमतिलोलमंयणे धावमानमतिचं चलेक्षणम् ॥ किंकिणीवलयहारनूपुरै रंजितं नमत गोपबालकम् ॥८०॥
एवं ध्यात्वा जपेदष्टलक्षं मंत्री दशांशतः ॥ ब्रह्मवृक्षस मिद्धिश्व जुहुयात्पायसेन वा ॥८१॥
प्रागुक्ते वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥ तत्रावाह्यार्चयेत्कृष्णं मंत्री वै स्थिरमानसः ॥८२॥
केसरेषु चतुर्दिक्षु विदिक्ष्वंगानि पूजयेत् ॥ वासुदेव बलं दिक्षु प्रद्युम्रमनिरुद्धकम् ॥८३॥
विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्मणर्क्षजे ॥ लोकेशान्सा युधान्बाह्ये एवं सिद्धो भवेन्मनुः ॥८४॥
तारः श्रीभुवनाकामो ङेतं श्रीकृष्णमीरयेत् ॥ श्रीगोविंद ततः प्रोच्य गोपीजनपदं ततः ॥८५॥
वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः ॥ मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत् ॥८६॥
माधवीमंडपासीनौ गरुडेनाभिपालितौ ॥ दिव्य क्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत् ॥८७॥
पूजनं पूर्ववाच्चास्य कर्तव्यं वैष्णवोत्तमैः ॥ चक्री मुनिश्वरोपेतः सर्गी चैकाक्षरो मनुः ॥८८॥
कृष्णोति द्वयक्षरः प्रोक्तः कामादिः स्यात्रिवर्णकः ॥ सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि ॥८९॥
पंचाक्षरश्व कृष्णाय कमरुद्धस्तथा परः ॥ गोपालायाग्रिजायांतो रसवर्णः प्रकीर्तितः ॥९०॥
कामः कृष्णपदं ङेंतं  वह्रिजायांतकः परः ॥ कृष्णगोविंदकौ ङेंतौ सप्ताणैः सर्वसिद्धिदः ॥९१॥
श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः ॥ कृष्णगोविंदकौ ङेंतौ ह्रदंतोऽन्यो नवाक्षरः ॥९२॥
ङेंतौ च कृष्णगोविंदौ तथा कामः पुटः परः ॥ कामः शार्ङी धरासंस्थो मन्विंद्वाढ्यश्व मन्मथः ॥९३॥
श्यामलांगाय ह्रदयं दशार्णः सर्वसिद्धिदः ॥बालांते वयुषे कृष्णायाग्निजायांतिमोऽपरः ॥९४॥
द्विठांते बालवपुषे कामः कृष्णाय संवदेत् ॥ ततो ध्यायन्स्वह्रदये गोपीजनमनोहरम् ॥९५॥
श्रीवृन्दोविपिनप्रतोलिषु नमत्संफुल्लवल्लीततिष्वंतर्जालविघट्टनैः सुरभिणा वातेन संसोविते ॥
कालिंदापुलिनै विहारिणमथो राधैकजीवतुकं वंदे नन्दकिशोरमिंदुवदनं स्निग्धांबुदाडंबरम् ॥९६॥
पूर्वोक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर ॥ देवकीसुतवर्णांते गोविंदपदमुच्चरेत् ॥९७॥
वासुदेवपदं प्रोच्य संबुद्धयंतं जगत्पतिंम् ॥ देहि मे तनयं पश्वात्कृष्ण त्वामहमीरयेत् ॥९८॥
शरणं गत इत्यंतो मन्त्रो द्वात्रिंशदक्षरः ॥ नारदोऽस्य मुनिश्छंदो गायत्री चाप्यनुष्टुभम् ॥
देवः सुतप्रदः कृष्णः पादैः सर्वेण चांगकम् ॥९९॥
विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ॥ प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ॥१००॥
लक्षं जपोऽयुतं होमस्तिलैर्मधुरसंप्लुतैः ॥ अर्चा पूर्वोदिते पीठे अंगलोकेश्वरायुधैः ॥१०१॥
एवं सिद्धे मनौ मंत्री वंध्यायामपिपुत्रवान् ॥ तारो माया ततः सांत सेंदुष्वांतश्व सर्ववान् ॥१०२॥
सोऽहं वाह्रप्रियांतोऽयं मंत्रो वस्वक्षरः परः ॥ पंचब्रह्मत्मकस्यास्य मंत्रस्य मुनि सत्तमः ॥१०३॥
ऋषिर्ब्रह्मा च परमा गायत्री छंद ईरितम् ॥परंज्यातिः परं देवता परिकीर्तितम् ॥१०४॥
प्रणवो बीजमाख्यांत स्वाहा शक्तिरुदाह्रता ॥ स्वाहेति ह्रदयं सोऽहं वेति शिरो मतम् ॥१०५॥
हंसश्वेति शिखा प्रोक्ता हल्लेखा कवचं स्मृतम् ॥ प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च ॥१०६॥
स ब्रह्मा स शिवो विप्र स हरिः सैव देवराट् ॥ स सर्व रुपः सर्वाख्यः सोऽक्षरः परमंः स्वराट् ॥१०७॥
एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः ॥ पूजाप्रणवपीठेऽस्य सांगावरणकैर्मता ॥१०८॥
एवं सिद्धे मनौ ज्ञानं साधकेंद्रस्य नारद ॥ जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ॥१०९॥
कामो ङेंतो त्दृषीकेशो ह्रदयांतो गजाक्षरः ॥ ऋषिर्ब्राह्यास्य गायत्री छंदो गायत्रमीरितम् ॥११०॥
देवता तु ह्रषीकेशो विनोयोगोऽखिलाप्तये ॥ कामो बीजं तथायेति शक्तिरस्य ह्युदाह्रता ॥१११॥
बीजेनैव षडंगानि कृत्वा ध्यानं समाचरेत् ॥ पुरुषोतममंत्रोक्तं सर्वं वास्य प्रकीर्तितम् ॥११२॥
लक्षं जपोऽयुतं होमो घृतेनैव प्रकीर्तितः ॥ तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः ॥११३॥
श्रीबीजं च चतुर्थ्यंतः श्रीधरो ङेंतकस्तथा ॥ त्रैलोरयमोहनः शब्दो नमोंऽमनुरिरितः ॥११४॥
ऋषिर्ब्रह्मा च गायत्री छ्न्दः श्रीधरदेवता ॥ श्रीबीजं शक्तिरापेति बीजैनैव षडंगकम् ॥११५॥
पुरुषोत्तवद्धयानपूजादिक्मिहोदितः ॥ लक्षं जपस्तथा होम आज्येनैव दशांदशः ॥११६॥
सुगंध्श्वेतपुष्पैस्तु पूजां होमादिकं चरेत् ॥ एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम् ॥११७॥
अच्युतानन्तगोविंदपदं ङेंत नमोंतिमम् ॥ मंत्रोऽस्य शौनकऋषिर्विराट् छंदः प्रकीर्तितम् ॥११८॥
एषां पराशरव्यासनारदा ऋषयः स्मृताः ॥ विराट् छ्न्दः समाख्यांत परब्रह्मत्मको हरिः ॥११९॥
देवताबीजशक्ति तु पूर्वोक्त साधकैर्मते ॥ शंखचक्रधरं देवं चतुर्बाहुं किरीटिनम् ॥१२०॥
सर्वैरिप्यायुधैर्युक्तं गरुडोपरि संस्थितम् ॥ सनकादिमुनींद्रैस्तु सर्वदेवैरुपासितम् ॥१२१॥
श्रीभूमिसहितं देवमुदयादित्यसन्निभम् ॥ प्रातरुद्य त्सहस्त्रांशुमंडलोपनकुंडलम् ॥१२२॥
सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि ॥ अभयं वरदं देवं प्रयच्छंतं मुदान्वितम् ॥१२३॥
एवं ध्यात्वा र्चयेत्पीठे वैष्णवे सुसमाहितः ॥ आद्यावरणसंर्गः स्याच्चशंखगदासिभिः ॥१२४॥
मुशलाढ्यधनुःपाशांकुशे प्रोक्तं द्वितीयकम् ॥ सनकादिकशाक्तेयव्यासनारदशौनकैः ॥१२५॥
तृतीयं लोकपालैस्तु चतुर्थं परिकेर्तितम् ॥ लक्षं जपो दशांशेन घृतेन हवनं स्मृतम् ॥१२६॥
एवं सिद्धे मनौ मंत्री प्रयोगानप्युपाचरेत् ॥ श्रीवृक्षमूले देवेशं ध्यायन्वै रोगिणं स्मरन् ॥१२७॥
स्पृष्ट्रा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज ॥ रोगिणां रोग निर्मुक्तिं कुर्यान्मंत्री तु मंडलात् ॥१२८॥
कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये ॥ वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत् ॥१२९॥
रविवारे जले स्थित्वा नाभिमात्रे जपेतु यः ॥ अष्टोत्तरसहस्त्रं वै स ज्वरं नाशयेद्‍ ध्रुवम् ॥१३०॥
विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् ॥ ध्यात्वा कृष्णं लभेत्कन्यां वांछिता चापि नारद ॥१३१॥
वसुदेवप्दं प्रोच्य निगडच्छेशब्दतः ॥ वासुदेवाय वर्मास्त्रे स्वाहांतो मनुरीरितः ॥१३२॥
नारदोऽस्य ऋषिश्छन्दो गायत्री कृष्णदिवता ॥ वर्म बीजं शिरः शक्तिरन्यत्सर्व दशार्णवत् ॥१३३॥
पवनदीर्घेदुयुक्ता झिंटी शयुर्जलम् ॥ अत्रिर्व्यासाय ह्रदयं मनुरष्टाक्षरोऽवतु ॥१३४॥
ब्रह्मानष्टुप्‌ मुनिश्छन्दो देवः सत्यवतीसुतः ॥ आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनांगकम् ॥१३५॥
व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविधानिधिम् ॥
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहांगद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेसिद्धये ॥१३६॥
जपेदष्टसहस्त्राणि पायसैर्होममाचरेत् ॥ पूर्वोक्तपीठे न्यासस्य पूर्वमंगानि पूजयेत् ॥१३७॥
प्राच्यादिषु यजेत्पैलं वैशंपायनजैमिनी ॥ सुमंतुं कोणभागेषु श्रीशुकं रोमहर्षणम् ॥१३८॥
उग्रश्रवसमन्यांश्व मुनीन्सेंद्रादिकायुधान् ॥ एवं सिद्ध मनुर्मंत्री कवित्वं शोभनाः प्रजाः ॥१३९॥
व्याख्यानशक्तिं कीर्ति च लभते संपदां चयम् ॥ नृसिंहो माधवो दृष्टो लोहितो निगमादिकमः ॥१४०॥
कृशानुजाया पञ्चार्णो मनुर्विषहारः परः ॥ अनंतपंक्तिपक्षीन्द्रा मुनिश्छन्दःसुरा मताः ॥१४१॥
तारवह्रिप्रिये बीजशक्ति मन्त्रस्य कीर्तिते ॥ ज्वलज्वल महामंत्री स्वाहा ह्रदयमीरितम् ॥१४२॥
गरुडेति पदस्यांते चूडानशुचिप्रिया ॥ शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः ॥१४३॥
गरुडेति पदं प्रोच्य प्रभंजयुतं वदेत् ॥ प्रभेदययुगं पश्वाद्वित्रासय विमर्दय ॥१४४॥
प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः ॥ उग्ररुपधरांते तु सर्वविषहरेतिच ॥१४५॥
भीषयद्वितयं प्रोच्य सर्वं दहदहेति च ॥ भस्मीकुरु ततः स्वाहा नेत्रमन्त्रोऽयमीरितः ॥१४६॥
अप्रतिहतवर्णांते बलाय प्रहतेति च ॥ शासनांते तथा हुं फट् स्वाहास्त्रमनुरिरितः ॥१४७॥
पादे कटौ ह्रदि मुखे मूर्न्धि वर्णान्प्रविन्यसेत् ॥१४८॥
तप्तस्वर्णनिभं फणींद्रनिकरैः क्लप्तांग भूषं प्रभुं स्मृर्तणां शययन्तमुग्रमखिलं नृणां विषं तत्क्षणात् ॥
चंच्वग्रप्रचलद्धुजंगमभयं पाण्यार्वरं बिभ्रतं पक्षोच्चरितसामगेतममलं श्रीपक्षिराजं भजे ॥१४९॥
पञ्चलक्षं जपेन्मंत्रं दशांश जुहुयात्तिलैः ॥ पूजयेन्मातृकापीठे गरुडं वेदविग्रहम् ॥१५०॥
चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठ मनुः स्मृतः ॥ दृष्ट्रांगं कर्णिकामध्ये नगान्यंत्रेषु नागान्यंत्रेषु पूजयेत् ॥१५१॥
तद्वहिर्लोकपालांश्व वज्राद्यैर्विलसत्करान् ॥ एवं सिद्धमनुर्मंत्री नाशयेद्धरलद्वयम् ॥ देहांते लभते चापिश्रीविष्णोः परमं पदम् ॥१५२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे कृष्णादि मन्त्रभेदनिरुपणं नामैकाशीतितमोऽध्याय ॥८१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:35:14.8870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mineralogical bottoming

  • खनिजी तलन 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.