TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रिषष्टितमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रिषष्टितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्रिषष्टितमोऽध्यायः
शौनक उवाच ॥
सूत साधो चिरं जीव सर्वशास्त्रविशारदः ॥ यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ॥१॥
श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः ॥ सनंदनमुखोद्धीतान्किं पप्रच्छ ततः परम् ॥२॥
मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः ॥ चरंति लोकान्ससिद्धा लोकोद्धरणतत्परा ॥३॥
नारदोऽपि महाभाग नित्यं कृष्णपरायणः ॥ तेषां समागमे भद्रा का कथा लोकपावनी ॥४॥
सूत उवाच ॥
साधु पृष्टं महाभाग त्वया लोकोपकारिणा ॥ कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ॥५॥
श्रुत्वा सनंदनप्रोक्तान्मोक्षधर्मान्सनातनान् ॥ नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ॥६॥
नारद उवाच ॥
सर्वदेवश्वरो विष्णुर्वेदे तंत्रे च कीर्तितः ॥ समाराध्यः सएवात्र सर्वेः सर्वार्थकांक्षिभिः ॥७॥
कैर्मंत्रैभगवान्विष्णुः समाराध्यो मुनीश्वराः ॥ के देवाः पूजयीयाश्व विष्णुपाद परायणैः ॥८॥
तंत्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् ॥ दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ॥९॥
यैर्मासैः कर्मभिर्यैर्वा जप्यैर्होमादिभिस्त था ॥ प्रीयेत परमात्मा वै तदूब्रूत मम मानदाः ॥१०॥
सूत उवाच ॥ एतच्छुत्वा व चस्तस्य नारदस्य महात्मनः ॥ सनत्कुमारो भगवानुवाचार्कसमद्युतिः ॥११॥
सनत्कुमार उवाच ॥ श्रृणु नारद वक्ष्यामि तंत्रं भागवतं तव ॥ यज्ज्ञात्वाऽमलया भक्त्या साधयेद्विष्णुमव्ययम् ॥१२॥
त्रिपदार्थं चतुष्पादं महातंत्रं प्रचक्षते ॥ भोगमोक्षक्रियाचर्याह्रया पादाः प्रकीर्तिताः ॥१३॥
पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि ॥ पतिस्तत्र शिवोह्येको जीवा स्तु पशवः स्मृताः ॥१४॥
यावन्मोहादिसंयोगाः स्वरुपाबोधलक्षणाः ॥ तावत्पशुमेतेषां द्वैतवत्पश्य नारद ॥१५॥
पाशाः पंचविधास्त्वेषां प्रत्येक तेषु लक्षणम् ॥ पशवास्त्रिविधाश्वापि विज्ञाताः कलसंज्ञिकाः ॥१६॥
तलपाकलसंज्ञश्व सकलश्वेति नामतः ॥ तत्राद्यो मलसंयुक्तो मलकर्म युतः परः ॥१७॥
मलमायाकर्मयुतस्तृतीयः पार्रकीर्तितः ॥ आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ॥१८॥
असमासमलश्वेति द्वितीयोऽपि पुनस्तथा ॥ पक्कापक्कमलेनैव द्विविधः परिकीर्तितः ॥१९॥
शुद्धेऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ ॥ कलादितत्त्वनियतः ॥ सकलः पर्यटत्ययम् ॥२०॥
कर्मानुशशरीरेषु तत्तद्धुवनगेषु च ॥ पाशाः पंच तथा तत्र प्रथमौ मलकर्मजौ ॥२१॥
मायेयश्व तिरोधानशक्तिजो बिंदुजः परः ॥ एकोऽप्यनेकशक्तिर्द्दक्क्रयाच्छादनकोमलः ॥२२॥
तुषकंचुकवद्देकवद्देहनिमित्तं चात्मनामिह ॥ धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ॥२३॥
प्रवाहनित्यं तद्वीजांकुरन्यायेन संस्थितम् ॥ इत्येतौ प्रथमौ चाथ मायेयाद्यान् श्रृणु द्विज ॥२४॥
सच्चिदानंदविभवः परमात्मा सनातनः ॥ पतिर्जयति सर्वेषामेको बीजं विभुः परम् ॥२५॥
मनस्यति न चोदेति निवृत्तिं च प्रयच्छति ॥ वर्वतिं द्दक्क्रियारुपं तत्तेजः शांभंव परम् ॥२६॥
शक्तो मया हरौ भुक्तो पशुगणस्य हि ॥ तच्छक्तिमाद्यामेकांतां विद्रूपाख्यां वदंति हि ॥२७॥
तया चोज्जृंभितो बिंदुर्दिक्क्रयात्मा शिवाभिधः ॥ अशेषतत्त्वजातस्य कारणं विभुख्ययम् ॥२८॥
अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् ॥ कृत्यं कुर्वंति तेनेदं सर्वानुग्राहकं मुने ॥२९॥
चिज्जडानुग्रहार्थायं यस्य विश्वं सिसृक्षतः ॥ आद्योन्मेषोऽस्य नादात्मां शांत्यादिभुवनात्मकः ॥३०॥
तच्छक्तितत्त्वं विप्रेंद्र प्रोक्तं सावयवं परम् ॥ ततो ज्ञानक्रियाशक्तयोस्तथोत्कर्षापकर्षयोः ॥३१॥
प्रसरश्वाप्यभावेन तत्त्वं चैतत्सदाशिवम्  ॥दृक्शाक्रिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ॥३२॥
ईश्वराख्यं तु तत्तत्वं प्रोक्तं सर्वार्थकर्तृकम् ॥ यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ॥३३॥
तत्तत्त्वं चिअव विद्याख्यं ज्ञानरुपं प्रकाशकम् ॥ नारदो बिंदु सकलः तत्त्वमाश्रितौ ॥३४॥
विद्येशाः पुनरैशं तु मंत्रा विद्यामिद्यं पुनः ॥ इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ॥३५॥
साक्षान्निमित्तमी त्रेत्युपादानसबिंदुराट‍ ॥ पंचानां कालराहित्यक्रमो नास्तीति निश्वितम् ॥३६॥
व्यापारवसतो ह्येषां विहिता खल्ल क्रल्पना ॥ तत्त्व वस्तुतः तु शिवाख्यं चित्रशक्तिकम् ॥३७॥
शक्तं यां वृत्तिभेदात्तु विहिताः खलु कल्पनाः ॥ चिज्जडानुग्रहार्थाय कृत्वा वै प्रभुः ॥३८॥
अनादिमलरुद्धानां कुरुतेऽनुग्रहं चिताम् ॥ मुक्तिं भुक्तिं च विश्वेषां स्वव्यापारे समर्थताम् ॥३९॥
विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः ॥ शिवसामान्यरुपो हि मोक्षस्तु चिदनुग्रहः ॥४०॥
सोऽनादित्त्वात्कर्मणो हि तत्तद्धोगं विना भवेत् ॥ तेना नुग्राहकः शम्भुस्तद्धुत्त्यै प्रभुख्य ॥४१॥
कुरुते सूक्ष्मकरणभुवनोत्पत्तिमंजसा ॥ कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ॥४२॥
शक्तयः करणं चात्र मायोपादानमिष्यते ॥ नित्यैका च शिवा शक्त्या ह्यानदिनिधना सती ॥४३॥
साधारणी नराणी वै भुवनानां च कारणम् ॥ स्वभावान्मोद्दजननी स्वचिताजनकर्मभिः ॥४४॥
विभ्वी सूक्ष्मा परा माया विकृतैः परतस्तु सा ॥ कर्माण्यावेक्ष्य विद्यशो मायां विक्षोभ्य शक्तिभिः ॥४५॥
विधत्ते जीवभोगार्थं वयूंषि करणानि च ॥ सृजत्यादौ कालतत्त्वं नानाशक्तिमयी च सा ॥४६॥
भावि भूतं भवश्वेदं जगत्कलयते लयम् ॥ सूते ह्यनंतरं माया शक्तिं नियमनात्मिकाम् ॥४७॥
सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता ॥ अनंतरं च सा माया नित्या विश्वविमोहिनी ॥४८॥
अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि ॥ एकतस्तु नृणां येन कलयित्वा मलं ततः ॥४९॥
कर्तृशक्तिं व्यंजयति तेनेदं तु कला भिधम् ॥ कालेन च नियत्योपसर्गतां समुपेतया ॥५०॥
व्यापारं विदधात्येषा भूपर्यंतं स्वकीयकम् ॥ प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ॥५१॥
प्रकाशरुपं विद्याख्यं तत्त्वं सूते कलैव हि ॥ विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ॥५२॥
विषयान्दर्शयत्येषात्मनांशाकारणंह्यतः ॥ करोति भोग्यं येनासौ करणेन परेण वै ॥५३॥
उद्रबुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् ॥ भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ॥५४॥
भोग्येस्य भोग्यतिर्मासाच्चिद्वयक्तिर्भोग उच्यते ॥ सुखादिरुपा विषयाकारा बुद्धिः समासतः ॥५५॥
भोग्यं भोक्तुश्व स्वेनैव विद्याख्यं करणं तु तत् ॥ यद्यर्कवत्प्रकाशा धीः कर्मत्वाच्च तथापि हि ॥५६॥
करणातरसापेक्षा शक्ता ग्राहयितुं तम् ॥ संबन्धात्कारणाद्यैस्तद्धोगौत्सुचयेन चोदनात ॥५७॥
तच्चष्टाफलयोगाच्च संसिद्धा कर्तृतास्य तु ॥ अकर्तृत्वाभ्युपगमे भोकृत्वाख्या वृथास्य तु ॥५८॥
किं च प्रधानरितं व्यर्थ भवेत्ततः ॥ कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ॥५९॥
भोगस्यासंभवस्तुस्मात्स एवात्र प्रवर्तकः ॥ करणादिप्रयोक्तृत्वं विद्ययौवास्य संमतम् ॥६०॥
अनंतरं कलारागं सूते भिद्यंगरुपकम् ॥ येन भोग्याय जनिता भिद्यंगे पुरुषे पुनः ॥६१॥
क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् ॥ एभिस्तत्त्वैश्व भोक्तृत्वदशायां कलितो यदा ॥६२॥
नित्यस्तदायत्मात्मा तु लभते पुरुषभिधाम् ॥ कलैव पश्वादव्यक्तं सूते भोग्याय चास्य तु ॥६३॥
सप्त ग्रंथिविधानस्य यत्तद्वौस्यकारणम् ॥ गुणानामविभागेऽत्र ह्याधारे क्ष्मादिभागवत् ॥६४॥
आधारोऽपि च यस्तेषां तदव्यक्तं च गीयते ॥ त्रयएव गुणा ह्याषामव्यक्तादेव संभवः ॥६५॥
सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका ॥ गुणतो धीश्व विषयाध्ववसायस्वरुपिणी ॥६६॥
गुणतस्त्रिविद्यां सापि प्रोक्ता कर्मानुसारतः ॥ महत्तत्वादहंकारो जातः संरंभवृत्तिमान् ॥६७॥
संभेदादस्य विषयः प्राप्नोति व्यवहार्यताम् ॥ सत्त्वाद्विगुणभेदेन च पुनास्त्रिविधो भवेत् ॥६८॥
तैजसो राजसश्वेति नामतः ॥ तत्र तैजसतो ज्ञानेंद्रियाणि मनसा सह ॥६९॥
प्रकाशान्व यतस्तस्माद्धोधकानि भवन्ति हि ॥ राजसाच्च क्रियाहेतोस्तथा कर्मेद्रियाणि तु ॥७०॥
तामसाच्चैव जायन्ते तन्मात्रा  भूतयोनयः ॥ इच्छारुपं च संकल्पव्यापारं तत्र वै मनः ॥७१॥
द्विधाधिकारि तच्चितं भोक्तृभोगोपपादकाम् ॥ बहिःकरणभावेन स्वोचितेन यतः सदा ॥७२॥
इंद्रियाणांच सामर्थ्यं संकल्पेनात्मवृत्तिना ॥ करोत्यंतः स्थितं भूयस्ततोऽकरणं मनः ॥७३॥
मनोऽहंकारबुद्धयाख्यमस्त्यन्तः कारणं त्रिधा ॥ इच्छासंरंभबो धाख्या वृत्तयः क्रमतोऽस्य तु ॥७४॥
ज्ञानेंद्रियाणि श्रोत्रं त्वकू चक्षुर्जिह्रा च नासिका ॥ ग्राह्याश्व विषया ह्योषां ज्ञेयाः शब्दादयो मुने ॥७५॥
शब्द स्पर्शरुपसगन्धाः शब्दादयो मताः ॥ वाक्पाणिपादपायूस्थास्तु कर्मेंद्रियाण्यपि ॥७६॥
वचनादान्गमनोत्सर्गानंदेषु कर्मसु ॥ करणानि च सिद्धिना न कृतिः करणैर्विना ॥७७॥
दशधा करणैश्वेष्टां कार्यमाविश्य कार्यते ॥ चेष्टते कार्यमालंब्य विभुत्वात्करणानि तु ॥७८॥
तन्मात्राणि तु खवायुस्तेजोऽम्भः क्ष्मेति पञ्च वै ॥ तेभ्यो भूतान्येकगुणान्याख्यातानि भवंति हि ॥७९॥
इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥ रुपं त्रिषु रसश्वैव द्वयोर्गंधः क्षितौ तथा ॥८०॥
कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् ॥ पाकश्व संग्रश्वैव धारणं चेति कथ्यते ॥८१॥
आशीतोष्णौ महावाद्यौ शीतोष्णौ वारितेजसोः ॥ भास्वदग्नौं जले शुक्लं क्षितौ शुक्लंद्यनेकधा ॥८२॥
रुपं त्रिषु रसोऽभः सु मधुरः षडिधः क्षितौ ॥ गन्धः क्षितावसुर भिः सुरभिश्व प्रकीर्तितः ॥८३॥
तन्मात्रं तद्धूतगुणं करणं पोषणं तथा ॥ भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् ॥८४॥
इमानि पञ्चभूतानि संनिविष्टानि सर्वतः ॥ पञ्चभूतात्मकं सर्वं जगत्सथावरजङुमम् ॥८५॥
शरीरसंनिविष्टत्वमेषां तावन्निरुप्यते ॥ देहेऽस्थिमांसकेशत्वङ्‌खदन्ताश्व पार्थिवाः ॥८६॥
मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः ॥ ह्रदिं पंक्तौः पित्ते तेजस्तद्धर्मदर्शनात् ॥८७॥
प्राणदिवृत्तिभेदेन वायुश्वैवात्र संस्थितः ॥ वियत्सर्वासु नाडीषु गर्भवृत्यनुषंगतः ॥८८॥
प्रयोक्यादिमहीप्रांतदंडार्थसाधनम् ॥ प्रत्यात्मनियतं बोगभेदतो व्यवसीयते ॥८९॥
तत्त्वान्येवं कलाद्यानि प्रतिपुनियतानि हि ॥ देहेषु कर्मवशतः सर्वेषु विचरंति हि ॥९०॥
मायेयश्वैव पाशोऽयं येनावृतमिदं जगत् ॥ अशुद्धाध्वा मतो ह्येष धरण्यदिकलावधिः ॥९१॥
तत्र भूमण्डलस्थोऽसौ स्थावरो जङुमात्मकः ॥ स्थावरा गिरिवृक्षाद्या जङुमस्तिविधः पुनः ॥९२॥
स्वेदजाश्वांडजाश्वैव तथैव च जरायुजाः ॥ चराचरेषु लक्षाणां चतुराशीतियोनयः ॥९३॥
भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः ॥ प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ॥९४॥
तत्रापि भारते खण्डे ब्राह्यणदिकुलेषु च ॥ महापुण्यवशेनैव जनिर्भवति दुलभा ॥९५॥
जनिश्व पुं स्त्रियोर्योगः शुक्रशोणितयोगतः ॥ बिंदुरकेः प्रविशति यदा गर्भे द्वयात्मकः ॥९६॥
तदा रजोऽधिके नारी भवेद्रेतोऽधिके पुमान् ॥ मलकर्मादिपाशेन कश्विदात्मा नियंत्रितः ॥९७॥
जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते ॥ अथ तत्राह्रतैर्मात्रा पोषितः ॥९८॥
पक्षमासादिकालेन वर्धते वपुरत्र द्दि ॥ दुःखाद्यः पीडितश्वैवच्छन्नदेहो जरायुणा ॥९९॥
एवं तत्र स्थितो गर्भे प्रारज्न्मोत्थं शुभाशुभम् ॥ स्मरंस्तिष्टति दुःखात्मा पीड्यमानो मुहुर्मुहुः ॥१००॥
कालक्रमेण बालोऽसो मातर ॥ संपीडितो निःसरत योनियंत्रादवाङ्‌मुखः ॥१०१॥
क्षणं तिष्ठति निश्वेष्टस्ततो रोदितुमिच्छति ॥ ततः क्रमेण स शिशुर्वधमानो ॥ १०२॥
बालपौगंडभेदेन युवत्वं प्रतिपद्यते ॥ एवं क्रमेण लोकेऽस्मिन्देहिनांदेहसंभेवः ॥१०३॥
मानुषं दुर्लभं प्राप्य सर्वलोकेपकारकम् ॥ यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ॥१०४॥
सहारश्वैव निद्रा च भयं मैथुनमेव च ॥ पश्वादीनां च सर्वेषां साधारणमितीरितम् ॥१०५॥
चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मघातकः ॥ मनुष्याणामयं धर्मः खबंधच्छे दनात्मकः ॥१०६॥
पाशबंधनाविच्छेदी दीक्षयैव प्रजायते ॥ अतो बंधनविच्छित्त्यै मंत्रदीक्षां समाचरेत् ॥१०७॥
दीक्षाज्ञानाख्यया शक्तया ह्यप ध्वंसितबन्धनः ॥ शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ॥१०८॥
स्वशक्तयात्मिकया दृष्ट्या शिवं ध्यायति ॥ यजते शिवमंत्रैश्व खपरेषां हिताय सः ॥१०९॥
शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दशा ॥ शिवशक्यादिभिः सार्द्धं पश्चात्यात्मगतावृतिः ॥११०॥
अंतःकरणवृत्तियां बोधाख्या सा महेश्वरम् ॥ न प्रकाशयितुं शक्ता पाशत्वन्निगडादिवत् ॥१११॥
दीक्षैव परमो हेतुः पाश्विच्छेदने पुनः ॥ अतः शास्त्रोक्त विधिना मत्रदीक्षां समाचरेत् ॥११२॥
दीक्षितस्तंत्रविधिना स्ववर्णाचारतत्परः ॥ अनुष्ठान प्रकुर्वीत नित्यनमित्तिकात्मकम् ॥११३॥
निजवर्णाश्रमाचारान्मनसापि न लंघयेत् ॥ यो यस्मिन्नाश्रमे तिष्ठन्दीक्षां प्राप्नोति मानवः ॥११४॥
स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्मानुपालयेत् ॥ कृतान्यापि न कर्माणि बंधनाय भवंति हि ॥११५॥
एकं तु फलदं कर्म मंत्रानुष्ठानसंभवम् ॥ दीक्षितोऽभिलषेद्धोगाद्यल्लोकगतानसौ ॥११६॥
मंत्राराधनसामर्थ्यात्तद्धुक्ता मोक्षमश्नुते ॥ नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ॥११७॥
कंचित्कालं पिशाचत्वं प्राप्यांते मोक्षमश्नुते ॥ तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ॥११८॥
अनुष्ठानं च तेनास्य दीक्षां प्राप्याऽनुमीयते ॥ नित्यनैमित्तिकाचार पालकस्य नरस्य तु ॥११९॥
दीक्षावैकल्यविरहत्सद्यो मुक्तिस्तु जायते ॥ तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ॥१२०॥
दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः ॥ दृष्टार्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ॥१२१॥
कृतेऽपि विफलं तस्य प्रायश्वितं पदे पदे ॥ कायेन मनसा वाचा गुरुभक्तिपरस्य च ॥१२२॥
प्रायश्वित्त भवेन्नैव सिद्धिस्तस्य पदे पदे ॥ गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ॥१२३॥
मिथ्याप्रयुक्तमन्त्रस्तु प्रायश्वित्ती भवेद्धुरु ॥१२४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृह्दुपाख्याने तृतीयपादे त्रिषष्टितमोऽध्यायः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T06:38:18.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खोत

  • पु. १ गांव सार्‍यानें घेणारा अधिकारी गांवाचा सारा भरणारा वतनदार ; वसुलाचा इजारदार ; जकातीचा इजारदार ; ( सामा .) मक्तेदार ; सरकारांतुन नफा - तोटा आपले अंगावर पतकरुन जकात किंवा कांहीं एक जिन्नस सर्व आपण घ्यावा , मग आपण विकणें तर विकावा अशा रीतीनें काम करणारा इजार दार . २ ( कांहीं ठिकाणी ) सरकारासाठीं गांवचा वसुल जमा करणारा पिढीजाद कामदार ; तसेंच या कामासाठीं तात्पुरता नेमलेला कामगार .' ( याचे अधिकार , हक्क यासाठी रत्‍नागिरी ग्याझेटियर पृ . २०४ . पहा .) कोंकणांत जुन्या वतनी हक्कामुळें किंवा पिढीजाद मुलकी अधिकारामुळें खोत हा जमिनदार बनलेला असतो व कुळांकडुन वाटेल तितका वसुल घेत राहातो .' ३ दक्षिण कोंकणांतील एक ब्राह्मण जात ; जवळ जात . ' गोविंद खोत .' ( खेत ?) समाशब्द - 
  • ०करी पु. जमिनींचा किंवा जमिनींच्या उप्तन्नांचा मक्तेदार किंवा इजारदार , खोत . खोतकी - गी - उप्तन्नांचा मक्तेदार किंवा इजारदार , खोत . खोतकी - गी - स्त्री . खोतांचें काम , हुद्दा . 
  • ०खराबा पु. १ ज्या गांवाची ज्यास खोती सांगितली त्या गांवच्या खराब जमीनी कांहीं एक ठराव करुन ( सरकारणें ) खोताच्या माथीं मारणेम ; खराबा मक्त्यानें देणें . २ अशा खराब जमिनी . 
  • ०धारा पु. जमिनीबद्दल कुलांकडुन जमीनदाराला मिळावयाचा खंड . ०पट्टी - स्त्री . खोताच्या नफ्याकरितां बसविलेला फळा , कर . 
More meanings
RANDOM WORD

Did you know?

भारतीय विवाहसंस्थेचा पाया केव्हां घातला गेला?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.