TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टसप्ततितमोऽध्याय

श्री नारदीयमहापुराणम् - अष्टसप्ततितमोऽध्याय

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अष्टसप्ततितमोऽध्याय
सनत्कुमार उवाच ॥
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ॥ मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रुणु ॥१॥
यस्य संधारणात्सद्यः सर्वे नश्यंत्युपद्रवाः ॥ भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥२॥
एकदाहं गतो द्रष्टं रामं रमयतां वरैम ॥ आनंदवनिकासंस्थं ध्यायंतं स्वात्मनः पदम्‍ ॥३॥
तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ॥ नमस्कृत्य तदादिष्टमासनं स्थितवान्‍ पुरः ॥४॥
तत्र सर्वं मया वृंत्त  रावणस्य वधांतकम्‍ ॥ पृष्टं प्रोवाच राजेंद्रः श्रीरामः स्वयमादरात ॥५॥
ततः कथंते भगवान्मारुतेः कवचं ददौ ॥ मह्मं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित्‍ ॥६॥
भविष्यदेतन्निर्द्दिष्टं बोल भावेन नारद ॥ श्रीरामेणांजनासूनोर्भुक्तिमुक्तिप्रदायकम्‍ ॥७॥
हनुमान्‍ पूर्वतः पातु दक्षिणे पवनात्मजः ॥ पातु प्रतांच्यामक्षघ्नः सौम्ये सागरतारकः ॥८॥
उर्द्ध पातु कपिश्रेष्ठः केसारिप्रियनंदनः ॥ अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावानि ॥९॥
लंकाविदाहकः पातु सर्वापद्धयो निरंतरम्‍ ॥ सुग्रीवसचिवः ॥ पातु मस्तकं वायुनंदनः ॥१०॥
भालं पातु भ्रुवोर्मध्ये निरंतरम्‍ ॥ नेत्रे छायापहारी च पातु नः ल्पवगेश्वरः ॥११॥
कपोलौ कर्णमूलं च पातु श्रीरामकिंकरः ॥ नासाग्रम्ख्जनासुनूः पातु वक्रं हरीश्वरेः ॥१२॥
पातु कंठे तु दैत्यारिः स्कंधौ पातु सुरारिजित्‍ ॥ भुजौ पातु महातेजाः करौ च चरणायुधः ॥१३॥
नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥ वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥१४॥
लंका निभंजनः पातु पृष्ठदेशे निरंतरम्‍ ॥ नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥१५॥
गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः ॥ ऊरु च जानुनी पातु लंकाप्रासादभंजनः ॥१६॥
जंघे पातु कपिश्रेष्ठी गुल्फौ पातु महाबलः ॥ अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥१७॥
अङानि पातु सत्त्वाढ्यः पातु पादांगुलीः सदा ॥ मुखांगानि महाशूरः पातु रोमाणि चात्मवान्‍ ॥१८॥
दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु ॥ स्थितं व्रजंतमासीनं पिबंतं जक्षतं कपिः ॥१९॥
लोकोत्तरगुणः श्रीमान्‍ पातु त्र्यंबकसंभवः ॥ प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि ॥२०॥
स्थलेंऽतरिक्षे हाग्रौं वा पर्वते सागरे द्रुमे ॥ संग्रामे संकटे घोरे विराड्‌रुपधरोऽवतु ॥२१॥
डाकिनीशाकिनीमारीकालरात्रिरीचिकाः ॥ शयानं मांविभुः पातु पिशाचोरगराक्षसीः ॥२२॥
दिव्यदेहधरो धीमान्सर्वसत्त्वभयंकरः ॥ साधकेंद्रावनः  शश्वत्पातु सर्वत एव माम ॥२३॥
यद्रूपं भीषणं दृष्ट्रा पलायंते भयानकाः ॥ स सर्वरुपाः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥२४॥
स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरेः ॥ सूर्यमंडलगः श्रीदःपातु कालत्रयेऽपि माम्‍ ॥२५॥
यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ॥ देवा मनुष्यास्तिर्यंचः स्थावरा जङुमास्तथा ॥२६॥
सभया भयनिर्मुक्ता भवंति स्वकृतानुगाः ॥ यस्यानेककथाः पुण्याः श्रूतंते प्रतिकल्पके ॥२७॥
सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ॥ वैधात्रधातृ प्रभृति यत्किंचिद्दश्यतेऽत्यलम्‍ ॥२८॥
विद्धि व्याप्तं यथा कीशरुपेणानंजनेन तत्‍ ॥ यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत्‍ ॥२९॥
ऋग्यजुः सामरुपश्व प्रणवास्त्रिवृद्धश्वरः ॥ तस्मै स्वस्मै च सर्वस्मै  नतोऽस्म्यात्मसमाधिना ॥३०॥
अनेकानन्तब्रह्माण्डधृते ब्रह्मवरुपिणे ॥ समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरुपिणे ॥३१॥
नमो हनुमते तस्मै नमो मारुतसूनवे ॥ नमः श्रीरामभक्ताय श्यामाय महते नमः ॥३२॥
नमो वानर वीराय सुग्रीवसक्यकारिणे ॥ लंकाविदहनायाथ महासागरतारेणे ॥३३॥
सीताशोकविनाशाय राममुद्राधराय च ॥ रावणांतनिदानाय नमः सर्वोत्तरात्मने ॥३४॥
मेघनादमखध्वंसकारणाय नमोनमः ॥अशोकवनविध्वंसकारिणे जयदायिने ॥३५॥
वायुपुत्राय वीराय आकाशोदरगामिने ॥ वनपालशिरश्छेत्रे लंकाप्रासादभंजिने ॥३६॥
ज्वलत्कांचनवर्णाय दीर्घलांगूलधारिणे ॥ सौमित्रिजयदात्रे च रामदूताय ते नमः ॥३७॥
अक्षस्य बधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ॥ लक्ष्मणांगमहाशक्तिक्षतविनाशिने ॥३८॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः ॥ ऋक्षवानरखीरौप्रासादाय नमोनमः ॥३९॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्राय ते नमः ॥ विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ॥४०॥
महारिपुभयघ्नाय भक्तत्राणैककारिण ॥ परप्रेरितमन्त्राणां मंत्राणां स्तंभकारिणे ॥४१॥
पयःपाषाणतरणकारणाय नमोनमः ॥ बालार्कमंडग्रासकारिणे दुःखहारिणे ॥४२॥
नखायुधाय भीमाय दन्तायुधधराय च ॥ विहंगमाय शवाय वज्रदेहाय ते नमः ॥४३॥
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ॥ करस्थशैलशस्त्राय राम शस्त्राय ते नमः ॥४४॥
कौपीनिवाससे तुभ्यं रामभक्तिरताय च ॥ दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥४५॥
कृत्याक्षतव्यथाघ्नाय सर्वल्केशहराय च ॥ स्वाम्यज्ञापार्थसंग्रामसमख्यसंजयकारिणे ॥४६॥
भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ॥ किल्किलावुवकाराय घोरशब्द  कराय च ॥४७॥
सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे ॥ सदा वनफलाहारसंतृप्ताय विशेषतः ॥४८॥
महार्णवशिलाबद्धसेतुबंधाय ते नमः ॥ इत्येतत्कथितं विप्र मारुतेः कवचं शिवम्‍ ॥४९॥
यस्मै कस्मै न दातव्यं रक्षणीय़ं प्रयत्नतः ॥ अष्टगंधैर्विलिख्याथ कवचं धारयेत्तु यः ॥५०॥
कंठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ॥ किं पुनर्बहुनोक्तेन साधितं लक्षमादरात्‍ ॥५१॥
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत्‍ ॥५२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरुपणं नामाष्टसप्ततितमोऽध्याय ॥७८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:30:42.7070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

paroxysmal tachycardia

  • समावेगी हृद्क्षिप्राता 
  • संवेगी हृदक्षिप्रता 
  • संवेगी हृदशीघता 
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.