TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रयोविंशत्यधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - त्रयोविंशत्यधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।



त्रयोविंशत्यधिकशततमोऽध्यायः
सनातन उवाच॥
श्रृणु नारद वक्ष्यामि चतुर्दश्या व्रतानि ते॥
यानि कृत्वा नरो लोके सर्वान्कामानवाप्नुयात् ॥१॥

चैत्रशुक्ल चतुर्दश्यां कुंकुमागरुचन्दनैः॥
गन्धाद्यैर्वस्त्रमणिभिः कार्यार्या महती शिवे ॥२॥

वितानध्वजछत्राणि दत्वा पूज्याश्च मातरः॥
एवं कृत्वार्चनं विप्र सोपवासोऽथवैकभुक् ॥३॥

अश्वमेधाधिकं पुण्यं लभते मानवो भुवि॥
अत्रैव दमनार्चां च कारयेद्गंधपुष्पकैः ॥४॥

समर्पयेत्सुपूर्णायां शिवाय शिवरूपिणे॥
राधकृष्णचतुर्द्दश्यां सोपवासो निशागमे ॥५॥

लिंगमभ्यर्चयेच्चैवं स्नात्वा धौतांबरः सुधीः॥
गंधाद्यैरुपचारैश्च बिल्वपत्रैश्च सर्वतः ॥६॥

दत्वा मंत्रं द्विजाग्र्याय भुंजीत च परेऽहनि॥
एवमेव तु कृष्णासु सर्वासु द्विजसत्तम ॥७॥

शिवव्रतं प्रकर्तव्यं धनसंतानमिच्छता॥
राधशुक्लचतुर्दश्यां श्रीनृसिंहव्रतं चरेत् ॥८॥

उपवासविधानेन शक्तोऽशक्तस्तथैकभुक्॥
निशागमे तु संपूज्य नृसिंहं दैत्यसूदनम् ॥९॥

उपचारैः षोडशभिः स्नानैः पंचामृतादिभिः॥
ततः क्षमापयेद्देवं मन्त्रेणानेन नारद ॥१०॥

तत्पहाटककेशांत ज्वलत्पावकलोचन॥
वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते ॥११॥

इति संप्रार्थ्य देवेशं व्रती स्यात्स्थंडिलेशयः॥
जितेंद्रियो जितक्रोधः सर्वभोगविवर्ज्जितः ॥१२॥

एवं यः कुरुते विप्र विधिवद्व्रतमुत्तमम्॥
वर्षे वर्षे स लभते भुक्तभोगो हरेः पदम् ॥१३॥

ॐकारेश्वरयात्रा च कार्यात्रैव मुनीश्वर॥
दुर्लभं वार्चनं तत्र दर्शनं पापनाशनम् ॥१४॥

किमत्र बहुनोक्तेन पूजाध्यानजपेक्षणम्॥
यद्भवेत्तत्समुद्दिष्टं ज्ञानमोक्षप्रदं नृणाम् ॥१५॥

अत्र लिंगव्रतं चापि कर्त्तव्यं पापनाशनम्॥
पंचामृतैस्तु संस्नाप्य लिंगमालिप्य कुंकुमैः ॥१६॥

नैवेद्यैश्च फलैर्धूपैर्दीपैर्वस्त्रविभूषणैः॥
एवं यः पूजयेत्पैष्टं लिंगं सर्वार्थसिद्धिदम् ॥१७॥

भुक्तिं मुक्तिं स लभते महादेवप्रसादतः॥
ज्येष्ठशुक्लचतुर्दश्यां दिवा पंचतपा निशः ॥१८॥

मुखे ददेद्धेमधेनुं रुद्रव्रतमिदं स्मृतम्॥
शुचिशुक्लचतुर्दश्यां शिवं संपूज्य मानवः ॥१९॥

देशकालोद्भवैः पुष्पैः सर्वसंपदमाप्नुयात्॥
नभः शुक्लचतुर्दश्यां पवित्रारोपणं मतम् ॥२०॥

तत्स्वशाखोक्तविधिना कर्तव्यं द्विजसत्तम॥
शताभिमंत्रितं कृत्वा ततो देव्यै निवेदयेत् ॥२१॥

पवित्रारोपणं कृत्वा नरो नार्यथवा यदि॥
महादेव्याः प्रसादेन भुक्तिं मुक्तिमवाप्नुयात् ॥२२॥

भाद्रशुक्लचतुर्दश्यामनन्तव्रतमुत्तमम्॥
कर्त्तव्यमेकभुक्तं हि गोधूमप्रस्थपिष्टकम् ॥२३॥

विपाच्य शर्कराज्याक्तमनंताय निवेदयेत्॥
गन्धाद्यैः प्राक् समभ्यर्च्यः कार्पासं पट्टजं तु वा ॥२४॥

चतुर्दशग्रंथियुतं सूत्रं कृत्वा सुशोभनम्॥
ततः पुराणमुत्तार्य सूत्रं क्षिप्त्वा जलाशयें ॥२५॥

निबघ्नीयान्नवं नारी वामे दक्षे पुमान्भुजे॥
विपाच्य पिष्टपक्वं तत्प्रदद्याद्दक्षिणान्वितम् ॥२६॥

स्वयं च तन्मितं चाद्यादेवं कुर्याद्व्रतोत्तमम्॥
द्विसप्तवर्षपर्यंतं तत उद्यापयेत्सुधीः ॥२७॥

मंडलं सर्वतोभद्रं धान्यवर्णैः प्रकल्प्य च॥
सुशोभने न्यसेत्तत्र कलशं ताम्रजं मुने ॥२८॥

तस्योपरि न्यसेद्धैमीमनंतप्रतिमां शुभाम्॥
पीतपट्टांशुकाच्छन्नां तत्र तां विधिना यजेत् ॥२९॥

गणेशं मातृकाः खेटाँल्लोकपांश्च यजेत्पृथक्॥
ततो होमं हविष्येण कृत्वा पूर्णाहुतिं चरेत् ॥३०॥

शय्यां सोपस्करां धेनुं प्रतिमां च द्विजोत्तम॥
प्रदद्याद्गुरवे भक्त्या द्विजानन्यांस्चतुर्दश ॥३१॥

संभोज्य मिष्टपक्वान्नैर्दक्षिणाभिः प्रतोषयेत्॥
एवं यः कुरुतेऽनंतव्रतं प्रत्यक्षमादरात्॥। १२३-३२॥

सोऽप्यनंतप्रसादेन जायते भुक्तिमुक्तिभाक्॥
कदलीव्रतमप्यत्र तद्विधानं च मे श्रृणु ॥३३॥

नरो वा यदि वा नारी रंभामुपवनस्थिताम्॥
स्नात्वा संपूजयेद्गंधपुष्पधान्यांकुरादिभिः ॥३४॥

दधिदूर्वाक्षतैर्द्द्वीपैर्वस्त्रपक्कान्नसंयैः॥
एवं संपूज्य मंत्रेण ततः संप्रार्थयेद्र्वती ॥३५॥

अप्सरो मरकन्याभिर्नागकन्याभिरार्चिते॥
शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते ॥३६॥

इति संप्रार्थ्यं कन्यास्तु चतस्रो वा सुवासिनीः॥
संभोज्यां शुकसिद्वरकज्जलालक्तचर्चिताः ॥३७॥

नमस्कृत्य निजं गेहं समाप्य नियमं व्रजेत्॥
एवं कृते व्रते विप्र लब्ध्वा सौभाग्यमुत्तमम् ॥३८॥

इह लोके विमानेन स्वर्गलोके व्रजेत्परम्॥
इषकृष्णचतुर्द्दश्यां विषशस्त्रांबुवह्निभिः ॥३९॥

सर्पश्वापदवज्राद्यैर्हतानां ब्रह्मघातिनाम्॥
चतुर्द्दश्यां क्रियाश्राद्धमेकोद्दिष्टविधानतः ॥४०॥

कर्तव्यं विप्रवर्गं च भोजयेन्मिष्टपक्वकैः॥
तर्पणं च गवां ग्रासं बलिं चैव श्वकाकयोः ॥४१॥

कृत्वाचम्य स्वयं पश्चाद्भुंजीयाद्बंधुभिः सह॥
एवं यः कुरुते विप्र श्राद्धं संपन्नदक्षिणम् ॥४२॥

स उद्धृत्य पितॄन्गच्छेद्देवलोकं सनातनम्॥
इषशुक्ल चतुर्द्दश्यां धर्मराजं द्विजोत्तम ॥४३॥

गंधाद्यैः सम्यगभ्यर्च्य सौवर्णं भोज्य वाङवम्॥
दद्यात्तस्मै धर्मराजस्त्रायते भुवि नारद ॥४४॥

एवं यः कुरुते धर्मप्रतिमादानमुत्तमम्॥
स भुक्त्वेह वरान्भोगान्दिवं धर्माज्ञया व्रजेत् ॥४५॥

ऊर्ज्जकृष्णचतुर्द्दश्यां तैलाभ्यंगं विधूदये॥
कृत्वा स्नात्वार्चयेद्धर्मं नरकादभयं लभेत् ॥४६॥

प्रदोषे तैलदीपांस्तु दीपयेद्यमतुष्टये॥
चतुष्पथे गृहाद्ब्राह्मप्रदेशे वा समाहितः ॥४७॥

वत्सरे हेमलंब्याख्ये मासि श्रीमति कार्तिके॥
शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति ॥४८॥

स्नात्वा विश्वेश्वरो देवो देवैः सह मुनीश्वर॥
मणिकर्णिक तीर्थे च त्रिपुंड्रं भस्मना दधत् ॥४९॥

स्वात्मानं स्वयमभ्यर्च्य चक्रे पाशुपतव्रतम्॥
ततस्तत्र महापूजां लिंगे गन्धादिभिश्चरेत् ॥५०॥

द्रोणपुष्पैर्बिल्वदलैरर्कपुष्पैश्च केतकैः॥
पुष्पैः फलैर्मिष्टपक्वैर्नैवेद्यैर्विविधैरपि ॥५१॥

एवं कृत्वैकभुक्तं तु व्रतं विश्वेशतोषणम्॥
लभते वांछितान्कामानिहामुत्र च नारद ॥५२॥

ब्रह्मकूर्चव्रतं चात्र कर्तव्यमृद्धिमिच्छता॥
सोपवासः पञ्चगव्यं पिबेद्रात्रौ जितेंद्रियः ॥५३॥

कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा॥
श्वेतायाः क्षीरमुदितं रक्तायाश्च तथा दधि ॥५४॥

गृहीत्वा कर्बुरायाश्च घृतमेकत्र मेलयेत्॥
कुशां बुना ततः प्रातः स्नात्वा सन्तर्प्यं देवताः ॥५५॥

ब्रह्मणांस्तोषयित्वा च भुञ्जीयाद्वाग्यतः स्वयम्॥
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपातकनाशनम् ॥५६॥

यच्च बाल्ये कृतं पापं कौमारे वार्द्धकेऽपि यत्॥
ब्रह्मकूर्चोपवासेन तत्क्षणादेव नश्यति ॥५७॥

पाषाणव्रतमप्यत्र प्रोक्तं तच्छृणु नारद॥
सोपवासो दिवा नक्तं पाषाणाकारपिष्टचकम् ॥५८॥

प्रार्च्य गन्धादिभिर्गौरीं घृतपंक्वमुपाहरेत्॥
व्रतमेतच्चरित्वा तु यथोक्तं द्विजसत्तम ॥५९॥

ऐश्वर्यसौख्यसौभाग्यरूपाणि प्राप्नुयान्नरः॥
मार्गशुक्लचतुर्दश्यामेकभुक्तः पुरोदितम् ॥६०॥

निराहारो वृषं स्वर्णं प्रार्च्य दद्याद्द्विजातये॥
परेऽह्नि प्रातरुत्थाय स्नात्वा सोमं महेश्वरम् ॥६१॥

पूजयेत्कमलैः पुष्पैर्गंधमाल्यानुलेपनैः॥
द्विजान्सम्भोज्य मिष्टान्नौस्तोषयेद्दक्षिणादिभिः ॥६२॥

एतच्छिवव्रतं विप्र भुक्तिमुक्तिप्रदायकम्॥
कर्तॄणामुपदेष्टॄणां साह्यानामनुमोदिनाम् ॥६३॥

पौषशुक्लचतुर्दश्यां विरूपाक्षव्रतं स्मृतम्॥
कपर्दीश्वरसांनिध्यं प्राप्स्याम्यत्र विचिंत्य च ॥६४॥

स्नात्वागाधजले विप्र विरूपाक्षं शिवं यजेत्॥
गंधमाल्यनमस्कारधूपदीपान्नसंपदा ॥६५॥

तत्स्थं द्विजातये दत्त्वा मोदते दिवि देववत्॥
माघकृष्णचतुर्द्दश्यां यमतर्पणमीरितम् ॥६६॥

अनर्काभ्युदिते काले स्नात्वा संतर्पयेद्यमम्॥
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये ॥६७॥

तिलदर्भांबुभिः कार्यं तर्प्पणं द्विजभोजनम्॥
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः ॥६८॥

अंत्यकृष्णचतुर्दश्यां शिवरात्रिव्रतं द्विज॥
निर्जलं समुपोष्यात्र दिवानक्तं प्रपूजयेत् ॥६९॥

स्वयंभुवादिकं लिंगं पार्थिवं वा समाहितः॥
गंधाद्यैरुपचारैश्च सांबुबिल्वदलादिभिः ॥७०॥

धूपैर्दीपैश्च नैवेद्यैः स्तोत्रपाठैर्जपादिभिः॥
ततः परेऽह्नि संपूज्य पुनरेवोपचारकैः ॥७१॥

संभोज्य विप्रान्मिष्टान्नैर्विसृजेल्लब्धदक्षिणान्॥
एवं कृत्वा व्रतं मर्त्यो महादेवप्रसादतः ॥७२॥

अमर्त्यभोगान् लभते दैवतैः सुसभाजितः॥
अंत्यशुक्लचतुर्दश्यां दुर्गां संपूज्य भक्तितः ॥७३॥

गन्धाद्यैरुपचारैस्तु विप्रान्संभोजयेत्ततः॥
एवं कृत्वा व्रतं विप्र दुर्गायाश्चैकभोजनः ॥७४॥

लभते वांछितान्कामानिहामुत्र च नारद॥
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥७५॥

केदारोदकपानेन वाचिमेधफलं भवेत्॥
उद्यापने तु सर्वांसां सामान्यो विधिरुच्यते ॥७६॥

कुंभाश्चतुर्दशैवात्र सपूगाक्षतमोदकाः॥
सदक्षिणांशुकास्ताम्रामृन्मयाश्चाव्रणा नवाः ॥७७॥

तावंतो वशदंडाश्च पवित्राण्यासनानि च॥
पात्राणि यज्ञसूत्राणि तावत्येव हि कल्पयेत् ॥७८॥

शेषं प्रागुक्तवत्कुर्याद्वित्तशाठ्यविवर्ज्जितः ॥७९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थभागे द्वादशमासस्थितचतुर्दशीव्रतवर्णनं नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-05-08T04:08:23.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

face lathe

  • अनीकन कातनयंत्र 
  • (also facing lathe) 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.