TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तदशोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तदशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


सप्तदशोऽध्यायः

ऋषय ऊचुः ॥

साधु सूत महाभाग त्वयातिकरुणात्मना ॥ श्रावितं सर्वपापाघ्नं गङ्गामाहात्म्य मुत्तमम् ॥१॥

श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः ॥ किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम् ॥२॥

सूत उवाच ॥

श्रृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा ॥ पुष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत् ‍ ॥३॥

नानाख्यानेतिहासाड्यं गङामहात्म्यमघप्रणाशि त्वत्तो मुने कारुणणिकादभीष्टम् ‍ ॥४॥

नारद उवाच ॥ अहोऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् ॥ गाङ्गेयमाहात्म्यघप्रणाशि त्वत्तो मुनेकारुणिकादभीष्टम् ॥५॥

ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव ॥ नानोपदेशैः सुविमुग्धचि तं प्रबोधयन्ति प्रसभं प्रसन्नम् ॥६॥

ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैंति विष्णुः ॥ ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी ॥७॥

ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् ॥ भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम् ॥८॥

प्रवृत्तं च निवृत्तं च यत्कर्म हरितोषणम् ॥ तदा ख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद ॥९॥

सनक उवाच ॥

साधु साधु मुनिश्रेष्ठ भक्तस्त्वं पुरुषोत्तमे ॥ भूयो भूयो यतः पृच्छेश्चरित्रं शार्ङ्गधन्वनः ॥१०॥

व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च ॥ प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा ॥११॥

यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः ॥ इजामुत्र सुखं तस्य तपोवृद्धिश्च जायते ॥१२॥

येन केनाप्युपायेन हरिपूजापरायणाः ॥ प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः ॥१३॥

मार्गशीर्षे सिते पक्षे द्वादश्यां जलशायिनम् ॥ उपोषितोऽर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः ॥१४॥

स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् ॥ गन्धपुष्पाक्षतेर्धूपै दीपैर्नैवेद्यपूर्वकैः ॥१५॥

वाग्यतो भक्तिभावेन मुनिश्रेष्ठार्चयेद्धरिम् ॥ केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत् ॥१६॥

अष्टोत्तरशतं हुत्वा वह्न्रो घृतातिलाहुतीः ॥ रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः ॥१७॥

स्नापयेत्प्रस्थपयसा नारायणमनामयम् ॥ गीतैर्वाद्यैश्च नैवेद्येर्भक्ष्यैर्भोज्यैश्व केशवम् ॥१८॥

त्रिकालं पूजयेद्भक्तया महालक्ष्म्या समन्वितम् ॥ पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम् ॥१९॥

पूर्ववत्पूजयेद्देवं वाग्यतो नियतः शुचिः ॥ पायसं घृतसंमिश्रं नालिकेरफलान्वितम् ॥२०॥

मन्त्रेणानेन विप्राय दद्याद्भक्तया सदक्षिणम् ॥ केशवः केशिहा देवः सर्वसंप्रत्प्रदायकः ॥२१॥

परमान्नप्रदानेन मम स्यादिष्टदायकः ॥ ब्राह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह ॥२२॥

नारायण परो भृत्वा स्वयं भुञ्जीत वाग्यतः ॥ इति यः कुरुते भक्तया केशवार्चनमुत्तमम् ॥२३॥

स पौंडरीकयज्ञस्य फलमष्टगुणं लभेत् ॥ पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ॥२४॥

नमो नारायणायेति पूजयेत्प्रयतो हरिम् ॥ पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत् ॥२५॥

रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः ॥ धूपैदीपैश्च नैवेद्यैर्गन्धैःपुष्पैर्मनोरमैः ॥२६॥

तृणैश्च गीतवाद्याद्यैः स्तोत्रेश्चाप्यर्चयेद्धरिम् ॥ कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम् ॥२७॥

सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ॥ नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः ॥२८॥

मंत्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् ॥ द्विजांश्च भोजेयच्छत्तया स्वयमाद्यात्सबान्धवः ॥२९॥

एवं संपूजयेद्भक्तया देवं नारायणं प्रभुम् ॥ अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात् ॥३०॥

माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः ॥ नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः ॥३१॥

पूर्वमानेन पयसा स्नापयेन्माधवं तदा ॥ पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा ॥३२॥

रात्रौ जागरणं कुर्यात्पूर्ववद्भक्तिसंयुतः ॥ कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत् ॥३३॥

प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् ॥ सदक्षिणं सवस्रं च सर्वपापविमुक्तये ॥३४॥

माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः ॥ तिलदानेन महता सर्वान्कामान्प्रयच्छतु ॥३५॥

मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः ॥ ब्राह्मणान्भोजयेच्छक्तया संस्मरन्माधवं प्रभुम् ॥३६॥

एवं यः कुरुते भक्तया तिलदाने व्रतं मुने ॥ वाजपेय शतस्यासौ संपूर्ण फलमाप्नुयात् ॥३७॥

फाल्गुनस्य सिते पक्षे द्वादश्यां समपोषितः ॥३८॥

अष्टोत्तरशतं हुत्वा घृतमिश्रतिलाहुतीः ॥ पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः ॥३९॥

रात्रौ जागरणं कुर्याकत्रिकालं पूजयेत्तथा ॥ प्रातःकृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः ॥४०॥

व्रीह्याढकं च विप्राय दद्याद्वस्रं सदक्षिणम् ॥ नमो गोविन्द सर्वेश गोपिकाजनवल्लभ ॥४१॥

अनेन धान्य दानेन प्रीतो भव जगद्ग्रुरो ॥ एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः ॥४२॥

गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः ॥ चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः ॥४३॥

नमोऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् ॥ क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः ॥४४॥

तथैव स्नापयेद्विप्र घृतप्रस्थेन सादरम् ॥ कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्रती ॥४५॥

ततः कल्ये समुत्थाय प्रातःकृत्यं समाप्य च ॥ अष्टोत्तरशतं हुत्वा मध्वाज्यतिलमिश्रितम् ॥४६॥

सदक्षिणंच विप्राय दद्याद्वै तण्डुलाढकम् ॥ प्राणरूपी महाविष्णुः प्राणदः सर्ववल्लभः ॥४७॥

तण्डुलाढकादानेन प्रीयतां मे जनार्दनः ॥ एवं कृत्वा नरो भक्तया सर्वपापविवर्जितः ॥४८॥

अत्याग्निष्टोमज्ञस्य फलमष्टगृणं लभेत् ॥ वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम् ॥४९॥

द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिसंयुतः ॥ जागरं तत्र कर्त्तव्यं त्रिकालार्चनसंयुतम् ॥५०॥

नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् ॥ अष्टोत्तरशतं प्रार्च्यं विधिवन्मधुसूदनम् ॥५१॥

विपापो ह्यश्वमेधानामष्टानां फलमाप्नुयात् ॥ ज्येष्ठमासे सिते पक्षे द्वादश्यामुपवासकृत् ॥५२॥

क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्रमम् ॥ नमस्रिविक्रमायेति पूजयेद्भक्तिसंयुतः ॥५३॥

जुहुयात्पायसेनैव ह्यष्टोशताहुतीः॥ कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्प येत् ॥५४॥

अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् ॥ देवदेव जगन्नाथ प्रसीद परमेश्वर ॥५५॥

उपायनं च संगृह्य ममाभीष्टप्रदो भव ॥ ब्राह्मणान्भोजयेच्छक्तया स्वयं भुञ्जीत वाग्यतः ॥५६॥

एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् ॥ सोऽष्टानां नरमेधानां विपापः फलमाप्नुयात् ॥५७॥

आषाढशुक्लद्वाश्यामुपवासी जितेन्द्रियः ॥ वामनं पूर्वमानेन स्नापयेत्पयसा व्रती ॥५८॥

नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् ॥ हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः ॥५९॥

सदक्षिणं च दध्यन्नं नालिकेरफलान्वितम् ॥ भक्त्तया प्रदद्याद्विप्राय वामनार्चनशीलिने ॥६०॥

वामनो बुद्धिदो होता द्रव्यस्थो वामनः सदा ॥ वामनस्तारकोऽस्माच्च वामनाय नमो नमः ॥६१॥

अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्विजान् ॥ कृत्वै वमग्निष्टोमानां शतस्य फलमाण्नुयात् ॥६२॥

श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् ॥ क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती ॥६३॥

नमोऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् ॥ जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने ॥६४॥

कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् ॥ दातव्यं चैव विप्राय क्षीराढकमनुत्तमम् ॥६५॥

दक्षिणां च सवस्रां वै प्रदद्याद्धेमकुण्डले ॥ मन्त्रेणानेन विप्रेन्द्र सर्वकामाथसिद्धये ॥६६॥

क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते ॥ क्षीरादानेन सुप्रीतो भव सर्वसुखप्रदः ॥६७॥

सुखप्रदत्वाद्विप्रांश्च भोजयेच्छक्ति तो व्रती ॥ एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत् ॥६८॥

मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः ॥ स्नापयेद्रोणपयसा त्दृषीकेशं जगद्गुरुम् ॥६९॥

त्दषीकेश नमस्तुभ्यामिति संपूजयेन्नरः॥ चरुणा मधुयुक्तेन शतमष्टोत्तर हुनेतः ॥७०॥

जागरादीनि निर्वर्त्य दद्यादात्मविदे ततः ॥ सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः ॥७१॥

त्दृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे ॥ मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः ॥७२॥

भोजयेद्ब्राह्मणाञ्शक्तया स्वयं चाश्र्नीतवाग्यतः ॥ सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत् ॥७३॥

आश्विने मासि शुक्लायां द्वादश्यांसमुपोषितः ॥ पद्मनाभं च पयसा स्नापयेद्भक्तितःशुचिः ॥७४॥

नमस्ते पद्मनाभाय होमं कुयार्त्सवशक्तितः ॥ तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः ॥७५॥

जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् ॥ दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम् ॥७६॥

पद्मनाभ्ज्ञ नमस्तुभ्यं सर्वलोकपितामह ॥ मधुदानेन सुप्रीतो भव सर्वसुखप्रदः ॥७७॥

एवं यः कुरुते भक्त्तया पद्मनाभव्रतं सुधीः ॥ ब्रह्ममेधसहस्रस्य फलमाप्नोति निश्चितम् ॥७८॥

द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः ॥ क्षीरेणाकढकमानेन दध्ना वाज्येन तावता ॥७९॥

नमो दामोदरायेति स्नापयेद्भक्तिभावतः ॥ अष्टोत्तरशतं हुत्वा मध्वाज्याक्ततिलाहुतीः ॥८०॥

जागरं नियतः कुर्यात्र्रिकालार्चनतत्परः ॥ प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः ॥८१॥

पुनरष्टोत्तरशतं जुहुयात्सघृतैस्तिलैः ॥ पञ्चभक्ष्ययुतं चान्नं दयाद्विप्राय भक्तितः ॥८२॥

दामोदर जगन्नाथ सर्वकारणकारण ॥ त्राहि मां कृपया देव शारणागतपालक ॥८३॥

अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने ॥ दक्षिणां च यथाशक्तया ब्राह्मणांश्चापि भोजयेत् ॥८४॥

एवं कृत्वा व्रतं सम्यगश्र्नीयाद्बन्धुभिः सह ॥ अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते ॥८५॥

एवं कुर्याद्वती यस्तु द्वादशीव्रतमुत्तमम् ॥ संवत्सं मुनिश्रेष्ठ स याति परम पदम् ॥८६॥

एकमासे द्विमासे वा यः कुर्याद्भक्तितत्परः ॥ तत्तत्फलमवाप्नोति प्राप्नोति च हरेः पदम् ॥८७॥

पूर्णं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ॥ मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर ॥८८॥

स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥८९॥

मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशोभनम् ॥ घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम् ॥९०॥

अलंकृतं पुष्पमाल्यैर्वितानध्वजराजितम् ॥ छादितं शुक्लवस्त्रेण दीपमालावि भूषितम् ॥९१॥

तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलंकृतम् ॥ तस्योपरि न्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान् ॥९२॥

एकेन शुक्लवस्त्रेण सम्यक्संशोधितेन च ॥ सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान् ॥९३॥

लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती ॥ हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ॥९४॥

स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी ॥ तन्मूल्यं वा द्विजश्रेष्ठ काञ्चनं च स्वशक्तितः ॥९५॥

सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्जयेत् ॥ यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः ॥९६॥

अनन्तशायिनं देवं नारायणमनामयम् ॥ पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः ॥९७॥

नामभिः केशवाद्यैश्च ह्युपचाराप्प्रकल्पयेत् ॥ रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः ॥९८॥

जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः ॥ त्रिकालमप्रर्चयेद्देव यथाविभविस्तरम् ॥९९॥

ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ॥ तिलहोमान्व्याहृतिभिः सहस्त्रं काग्येद्विजैः ॥१००॥

ततः संपूजयेद्देवं गन्धपुष्पदिभिः क्रमात् ॥ देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः ॥१०१॥

दद्याद्वदशविप्रेभ्यो दध्यन्नं पायसं तथा ॥ अपूपैर्दशभिर्युक्तं सघृतं च सदक्षिणम् ॥१०२॥

देवदेव जगन्नाथ भक्तानुग्रहविग्रह ॥ अृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव ॥१०३॥

अनेनोपायनं दत्त्वा प्रार्थये त्प्राञ्जलिः स्थितः ॥ आधाय जानुनी भूमौ विनयावनतो व्रती ॥१०४॥

नमो नमस्ते सुरराजराज नमोऽस्तु ते देव जगन्निवास ॥ कुरुष्व संपूर्ण फलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय ॥१०५॥

इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् ॥ दद्यादर्ध्यं च देवाय महालक्ष्मीयुताय वै ॥१०६॥

लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने ॥ अर्ध्यं गृहाण देवेश लक्ष्म्या च सहितः प्रभो ॥१०७॥

यस्य स्मृत्या च नामोक्तया तपोयज्ञक्रियादिषु ॥ न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥१०८॥

इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते ॥ प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत् ॥१०९॥

ब्राह्मणान्भोजयेत्पश्चाच्छक्त्तया दद्याच्च दक्षिणाम् ॥ भुञ्जीत वाग्यतः पश्चात्स्वयं बंधुजनैर्वृतः ॥११०॥

आसायं श़ृणुयाद्विष्णोः कथां विद्वज्जनैः सह ॥ इत्येव कुरुते यस्तु मनुजो द्वादशीव्रतम् ॥१११॥

सर्वान्कामान्स आप्नोति परत्रेह च नारद ॥ त्रिसप्तकुलसंयुक्तः सर्वपापविवर्जितः ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सप्तदशोऽध्यायः ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:33:12.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

functional consolidation

  • कार्यात्मक एकत्रीकरण 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site