TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
एकचत्वारिंशोऽध्यायः

श्री नारदीयमहापुराणम् - एकचत्वारिंशोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


एकचत्वारिंशोऽध्यायः

॥ नारद उवाच ॥

आख्यातं भवता सर्वं मुने तत्त्वार्थ कोविद ॥ इदानीं श्रोतुमिच्छामि युगानां स्थितिलक्षणम् ॥१॥

सनक उवाच॥

साधु साधु महाप्राज्ञ मुने लोकोपकारक ॥ युगधर्मान्प्रबक्ष्यामि सर्वलोकोपकारकान् ॥२॥

धर्मो विवृद्धिमायाति काले कस्मिंश्चिदुत्तम॥ तथा विनाशमायाति धर्म्म एव महीतले ॥३॥

कृंत त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ॥ दिव्यैर्द्वादशभिर्ज्ञियं वत्सरैस्तत्र सत्तम ॥४॥

संध्यासन्ध्यांशयुक्तानि युगानि सद्दशानि वै ॥ कालतो वेदितव्यानि इत्युक्तं तत्त्वा दर्शिभिः ॥५॥

आद्ये कृतयुगं प्राहुस्तखेताविधानकम् ॥ ततश्च द्वापरं प्राहुः कलिमंत्यं विदुःक्रमात् ॥६॥

।देवदानवगंधर्वा यक्षराक्षसपन्नगाः ॥ नास न्कृतयुगे विप्र सर्वे देवसमाः स्मृताः ॥७॥

सर्वे हष्टाश्च धर्मिष्ठा न तत्र क्रयविक्रयौ ॥ वेदानां च विभागश्च न युगे कृतसंज्ञके ॥८॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्वाचारतत्पराः ॥ सदा नारायणपरास्तपोध्यानपरायणाः ॥९॥

कामादिदोषनिर्मुक्ताः शमादिगुणतत्पराः धर्मसाधनचित्ताश्च गतासूया अदांभिकाः ॥१०॥

सत्यवाक्यरताः सर्वे चतुराश्रमधर्मिणः ॥ वेदाध्ययनसंपन्नाः सर्वशास्त्रविचक्षणाः ॥११॥

चतुराश्रमयुक्तेन कर्मणा कालयो निना । अकामफसंयोगाः प्रयांति परमां गतिम् ॥१२॥

नारायणः कृतयुगे शुक्लवर्णः सुनिर्मलः ॥ त्रेताधर्मान्प्रवक्ष्यामि श्रृणुष्व सुसमाहितः ॥१३॥

धर्मः पांडुरतां याति त्रेतायां मुनिसत्तम ॥ हरिस्तु रक्ततां याति किंचित्क्लेशान्विता जनाः ॥१४॥

क्रियायोगरताः सर्वे यज्ञकर्मसु निष्ठिताः ॥ सत्यव्रता ध्यानपराःसदाध्यानपरायणाः ॥१५॥

द्विपादो वर्तते धर्मो द्वापरे च मुनीश्वर॥ हरिः पीतत्वमायाति वेदश्चापि विभज्यते ॥१६॥

असत्यनिरताश्चापि केचितत्र द्विजोत्तमाः ॥ ब्राह्मणाद्याश्च वर्णाः स्युः केचिद्रागादिदुर्गुणाः ॥१७॥

केचित्स्वर्गापवर्गार्थ विप्रयज्ञान्प्रकुर्वते ॥ केचिद्धनादिकामाश्च केचित्कल्मषचेतसः ॥१८॥

धर्माधर्मौ समौ स्यातां द्वापरे विप्रसत्तम ॥ अधर्मस्य प्रभावेण क्षीयंते च प्रजास्तथा ॥१९॥

अल्पायुषो भविष्यंति केचिच्चापि मुनीश्वर ॥ केचित्पुण्यरतान् द्दष्ट्रा असूयां विप्र कुर्वते ॥२०॥

कलिस्थितिं प्रवक्ष्यामि तच्छृणुष्व समाहितः धर्मः कलियुगे प्राप्ते पादेनैकेन वर्तते ॥२१॥

तामसं युगमासाद्य हरिः कृष्णत्वमेति च ॥ यः कश्चिदपि धर्मात्मा यज्ञाचारान्करोति च ॥२२॥

यः कश्चिदपि पुण्यात्मा क्रियायोगरतो भवेत् ॥ नरं धर्मरंत दृष्ट्रा सर्वेऽसूयां प्रकुर्वते ॥२३॥

व्रताचाराः प्रणश्यंति ज्ञानयज्ञदयस्तथा ॥ उपद्रवा भविष्यांत ह्यधर्मस्य प्रवतनात् ॥२४॥

असूयानिरताः सर्वे दंभाचारपरायणाः ॥ प्रजाश्वाल्पायुषः सर्वा भविष्यंति कलौ युगे ॥२५॥

नारद उवाच॥ युगधर्माः समाख्यातास्त्वया संक्षेपतो मुने॥ कलिं विस्तरतो ब्रूहि त्वं हि धर्मविदां वरः ॥२६॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम॥ किमा हाराः किमाचाराः भविष्यंति कलौ युगे ॥२७॥

सनक उवाच॥ श्रृणुष्व मुनिशार्दूल सर्वलोकापकारक ॥ कलिधर्मान्प्रवक्ष्यामि वस्तरेण यथातथम् ॥२८॥

सर्वे धर्मा विनश्यंति कृष्णे कृष्णत्वमागते ॥ तस्मात्कलिर्महाघोरः सर्वपातकसंकरः ॥२९॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्र्मुखाः॥ घोरे कलियुगे प्राप्ते द्विजा वेदपराङ्रमुखाः ॥३०॥

व्याजधर्मरताः सर्वे असूयानिरतास्तथा ॥ वृथाहंकारदुष्टाश्च सत्यहीनाश्व पंडिताः ॥३१॥

अहमेवाधिक इति सर्वेऽपि विवदंति च ॥ अधर्मलोलुपाः सर्वे तथा वैतंडिका नराः ॥३२॥

अतः स्वल्पायुषः सर्वे भविष्यंति कलौ युगे ॥ अल्पायुष्ट्रान्मनुष्याणां न विद्याग्रहणं द्विज ॥३३॥

विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ॥ व्युत्क्रमेण प्रजाः सर्वा म्रियंते पापत त्पराः ॥३४॥

ब्राह्मणाद्यास्तथा वर्णाः संकीर्यते परस्परम् । कामक्रोधपरा मूढा वृथासंतापपीडिताः ॥३५॥

शूद्रतुल्या भविष्यंति सर्वे वर्णा कलौ युगे ॥ उत्तमा नीचतां यांति नीचाश्चोत्तमतां तथा ॥३६॥

राजानो द्रव्यनिरतास्तथा ह्यन्यायवर्त्तिनः ॥ पीडयंति प्रजाश्चैव कररैत्यर्थयोजितैः ॥३७॥

शववाहा भविष्यंति शूद्राणां च द्विजातयः ॥ धर्मस्त्रीष्वपि गच्छंति पतयो जारधर्मिणः ॥३८॥

द्विषंति पितरं पुत्रा भर्तारं च स्त्रियोऽखिलाः॥ परस्त्रीनिरतः सर्वे परद्रव्यपरायणाः ॥३९॥

मत्स्यमिषेण जीवंति दुहंतश्चाप्यजीविकाम् । घोरे कलियुगे विप्र सर्वे पापरता जनाः ॥४०॥

सतामसूयानिरता उपहासं प्रकुर्वते ॥ सरित्तीरेषु कुद्दालैर्वापयिष्यंति चौषधीः ॥४१॥

पृथ्वी निष्फलतां याति बीजं पुष्पं विनश्यति ॥ वेश्यालाष्यंशीलेषु स्पृहाकुर्वंति योषितः ॥४२॥

धर्मविक्रायिणो विप्राः स्त्रियश्च भगविक्रयाः वेदविक्रकाश्चान्ये शूद्राचारता द्विजाः ॥४३॥

साधूनां विधवानां च वित्तान्य पहंरति च ॥ न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः ॥४४॥

धर्माचारं परित्यज्य वृथावादैर्विषज्जिताः ॥ द्विजाः कुर्वंति दंभार्थं पितृश्राद्धादिकाः क्रियाः ॥४५॥

अपात्रेष्वेव दानानि प्रयच्छंति नराधमाः ॥ दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते ॥४६॥

न कुर्वंति तथा विप्राः स्त्रानशौचादिकाः क्रियाः ॥ अकाले कर्मनिरता भविष्यंति द्विजाधमाः ॥४७॥

साधुनिंदाश्चैव विप्रनिंदापरास्तथा ॥ न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत् ॥४८॥

यज्विनश्च द्विजानैव धनार्थ राजकिंकराः ॥ ताड्यंति द्विजान्दुष्टाः कृष्णे कृष्नत्वमागते ॥४९॥

दानहीना नराः सर्वे घोरे कलियुगे मुने ॥ प्रतिग्रहं प्रकुर्वति पतितानामपि द्विजाः ॥५०॥

कलेः प्रथपादेऽपि विंनिंदंति हरिं नराः ॥ युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति ॥५१॥

शूद्रस्त्रीसंगनिरता विधवासंगलो लुपाः ॥ शूद्रान्नभोगनिरता भविष्यंति कलौ द्विजाः ॥५२॥

विहाय वेदसन्मार्गं कुपथाचारसंगताः॥ पाषंडाश्चभविष्यंतिश्रमनिंडकाः ॥५३॥

न चद्विजा तिशुश्रूषां कुर्वंति चरणोद्धवाः ॥ द्विजातिधर्मान्गृह्रन्ति पाखण्डलिङिनोऽधमाः ॥५४॥

काषायपरिवीताश्च जटिला भस्मधूलिताः शूद्राधर्मान्प्रवक्ष्यंती कूटयुक्तिपरायणाः ॥५५॥

द्विजाःस्वाचामुत्स्सृज्यपरपाकन्नभोजिनः ॥ भविष्यंतिदुरात्मानः शूद्राः प्रव्रजितास्तथा ॥५६॥

उत्कोचजीविनस्तत्र भविष्यंति कलौ मुने ॥ धर्महीनास्तु पाषंडा कापाला भिक्षवोऽधमाः ॥५७॥

धर्मविध्वंसशीलानां द्विजानां द्विजसत्तम ॥ शूद्रा धर्मान्प्रवक्ष्यंतिह्यरुह्योत्तमानसनम् ॥५८॥

एते चान्येच बहवो नग्ररक्तपटादिकाः पाषंडाः प्रचरिष्यंति प्रीयो वेदविदूषकाः ॥५९॥

गीतवादित्रकुशलाः क्षुद्रधर्ममाश्रयाः॥ भविष्यंतिकऔ प्रायो धर्मविध्वंसका नराः ॥६०॥

अल्पद्रव्या वृथालिंगा वृथाहंकारदूषिताः ॥ हर्तारः परवित्तानां भवितारो नराधमाः ॥६१॥

प्रतिग्रहपरा नित्यं जगदुन्मार्गशी लिनः ॥ आत्मस्तुतिपराः सर्वे परनिंदापरास्तथा ॥६२॥

विश्वस्तघातिनः क्रूरा दयाधर्मविवर्जिताः ॥ भविष्यंति नरा विप्र कलौ चाधर्मबांधवाः ॥६३॥

पर मायुश्च भविता तदा वर्षाणि षोडश ॥ घोरे कलियुगे विप्रं पंचवर्षा प्रसूयते ॥६४॥

सप्तवर्षाश्व युवानोऽतः परे जरा ॥ स्वकर्मत्यागिनः सर्वे कृतघ्रा भिन्नवृत्तयः ॥६५॥

याचकाश्च द्विजा नित्यं भविष्यंति कलौ युगे ॥ परावमानिरताः प्रह्रष्टाः परवेश्मनि ॥६६॥

तत्रैव निंदानिरता वृथाविंश्रभिणो जनाः ॥ निदां कुर्वंति सततं पितृमातृसुतेषु च ॥६७॥

वंदति वाचा धर्मांश्च चेतचा पापलोलुपाः धनविद्यावयोमत्ताः सर्वदुःखपरायणाः ॥६८॥

व्याधितस्करदुभिक्षैः पीडिता अतिमांयिनः । प्रपुष्यंती वृथैवामी न विर्चाय च दुष्कृतम् ॥६९॥

धर्ममार्गप्रणेतारं तिरस्कुर्वंति पापिनः । धर्मकार्ये रंत चैव वृथाविश्रांभिणो जनाः ॥७०॥

भविष्यंति कलौ प्राप्ते राजानो म्लेच्छजातयः ॥ शूद्रा भैक्ष्यरताश्चैव तेषां शुश्रूषणे द्विजाः ॥७१॥

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ॥ न भार्या न पतिश्चैव भवितारोऽत्र संकरे ॥७२॥

कलौ गते भविष्यंति धनाढ्या अपि याचकाः ॥ रस विक्रयिण्श्चापि भविष्यंति द्विजातयः ॥७३॥

धर्मकंचुकसंवीता मुनिवेषधरा द्विजाः ॥ अपण्यविक्रयरता अगम्यागामिनस्तथा ॥७४॥

वेदनिंदापराश्चैव धर्मशास्त्रविनिंदकाः ॥ शूद्रवृत्तयैव जीवंति नरकार्हा द्विजा मुने ॥७५॥

अनावृष्टिभयं प्राप्ता गगनासक्तद्दष्टयः ॥ भविष्यंति कलौ मर्त्या सर्वे क्षुन्द्रयकातराः ॥७६॥

कंदपर्णफलाहारास्तापसा इव मानवाः॥ आत्मानं तारयिष्यंति अनावृष्टयातिदुखिताः ॥७७॥

कामार्ता ह्रस्वदेहाश्च लुब्धा श्चाधर्मतत्पराः ॥ कलौ सर्वे भविष्यंति स्वल्पभाग्या बहुप्रजाः ॥७८॥

स्त्रियः स्वपोषणपरा वेश्या लावण्यशीलिकाः ॥ पतिवाक्यमनाद्दत्य सदान्यगृहतत्पराः ॥७९॥

दुःशीला दुष्टशीलेषु करिष्यंति सदा स्पृहाम् । असद्धृता भविष्यंति पुरुषेषु कुलांगनाः ॥८०॥

चौरादिभयभीताश्च काष्ठयंत्राणि कुर्वते ॥ दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ॥८१॥

गोधूमान्नयवान्नाढ्ये देशे यास्यंति दुःखिताः ॥ निधाय ह्रद्यकर्माणि प्रेर यंति वचः शुभम् ॥८२॥

स्वकार्यसिद्धिपर्यतं बंधुतां कुर्वते जनाः ॥ भिक्षवश्चापि मित्रादिस्नेहसंबधयत्रिताः ॥८३॥

अन्नोपाधिनिमित्तेन शिष्या न्यृह्रंति भिक्षवः ॥८४॥

उभाभ्यामथ पाणिभ्यां शिरःकंडूयनं स्त्रियः ॥ कुर्वंत्यो गुरुभर्तृणामाज्ञामुल्लंघंयति च ॥८५॥

पाषंडालापनिरताः पाषं डजनसंगिनः ॥ यदा द्विजा भविष्यंति तदा वृद्धिं कलिर्व्रजेत् ॥८६॥

यदा प्रजा न यक्ष्यति न होष्यंति द्विजातयः ॥ तदैवं तु कलेर्वृद्धिरनुमेया विचक्षणैः ॥८७॥

अधर्मवृद्धिर्भाविता बालमृत्युरपि द्विज॥ सर्वधर्मेषु नष्टेषु याति निःश्रीकताम जगत् ॥८८॥

एवं कलेः स्वरुपं ते कथितं विप्र सत्तम॥ हरिभक्तिपरानेष न कलिर्बाधते क्कचित् ॥८९॥

ततः परं कृतयुगे त्रेतायां ध्यानमेव च ॥ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥९०॥

यत्कृते दशभिर्वषैस्त्रेतायां शरदा च यत् । द्वापरे यच्च मासेन ह्यहोरात्रेण तत्कलौ ॥९१॥

ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ॥ यदान्पोति तदान्पोति कलौ संकीर्त्य केशवम् ॥९२॥

अहोरात्रं हरेर्नाम कीर्तयंति च ये नराः कुर्वंति हरिपूजां वा न कलिर्बाधते च तान् ॥९३॥

नमो नारायणायेति कीर्तंयति च ये नराः ॥ निष्कामा वा सकामा वा न कलिर्बाधते च तान् ॥९४॥

हरिनामपरा ये तु घोरे कलियुगे द्विज ॥ त एव कृतकृत्याश्च न कलिर्बाधते हि तान् ॥९५॥

हरिपूजापरा ये च हरिनामपरायणाः ॥ त एव शिवतुल्याश्च नात्र कार्या विचारना ॥९६॥

समस्तजगदाधारं परमार्थस्वरुपिणम् ॥ घोरे कलियुगे प्राप्ते विष्णुं ध्यायन्न सीदति ॥९७॥

अहो अति सुभाग्यास्ते सकृद्वै केशवार्चकाः ॥ घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते ॥९८॥

न्यूना तिरिक्तदोषाणां कलौ वेदोक्तकर्मणाम् ॥ हरिस्मरनमेवात्र संपूर्णत्वविधायकम् ॥९९॥

हरे केशव गोविंद वासुदेव जगन्मय ॥ इतीरयंति ये नित्यं नहि तान्बाधते कलिः ॥१००॥

शिव शंकर रुद्रेश नीलकंठ त्रिलोचन ॥ इति जल्पंति ये वापि कलिस्तान्नापि बाधते ॥१॥

महादेव विरु पाक्ष गंगाधर मृडाव्यय ॥ इत्थं वदंति ये विप्र ते कृतार्था न संशयः ॥२॥

जनार्दन जगन्नाथ पीतांबरधराच्युत ॥ इति वाप्युच्चरंतीह च च तेषां कलीर्भयम् ॥३॥

संसारे सुलभाः पुंसां पुत्रदारधनादयः ॥ घोरे कलियुगे विप्र हरिभक्तिस्तु दुर्लभा ॥४॥

कर्मश्रद्धाविहीना ये पाषंडा वेदनिंदकाः ॥ अधर्मनिरता नैव नरकार्हा हरिस्मृतेः ॥५॥

वेदमार्गबहिष्ठानां जनानां पापकर्मणाम् । मनःशुद्धिविहीनानां हरिनान्मैव निष्कृतिः ॥६॥

दैवाधीनं जगत्सर्वामिदं स्थावरजंगमम् ॥ यथाप्रेरितमेतेन तथैव कुरुतें द्विज ॥७॥

शक्तितः सर्वकर्माणि वेदोक्तानि विधाय च ॥ समर्पयेन्महा विष्णौ नारायनपरायणः ॥८॥

समर्पितानि कर्माणि महविष्णौ परात्मनि ॥ संपूर्णता प्रयांत्येव हरिस्मरनमात्रतः ॥९॥

हरिभक्तिरतानां च पापबंधो न जायते ॥ अतोऽतिदुर्लभा लोके हरिभक्तिर्दुरात्मनाम् ॥११०॥

अहो हरिपरा ये कलौ घोरे भयंकरे । ते सुभाग्या महात्मानः सत्संगर हिता अपि ॥११॥

हरिस्माणनिष्ठानां शिवनामरतात्मनाम् ॥ सत्यं समस्तकर्माणि यांति संपूर्णता द्विज ॥१२॥

अहो भाग्यमहो भाग्यं हरिनाम रतात्मनाम् ॥ त्रिदशैरपि ते पूज्याः किमन्यैर्बहुभाषितैः ॥१३॥

तस्मात्समस्तलोलोकानां हितमेव मयोच्यते ॥ हरिनामपरान्मर्यान्न कलिर्बाधत क्कचित् ॥१४॥

हरेर्नामैव नामैव नामैव मम जीवनम् ॥ कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥१५॥

सूत उवाच ॥

एवं स नारदो विप्राः सनकेन प्रबोधितः ॥ परां निर्वृत्तिमात्रपन्नः पुनरेतदुवाच ह ॥१६॥

नारद उवाच ॥

भगवन्सर्वशास्त्रज्ञ स्वयातिकरुणात्मना ॥ प्रकाशितं जगज्ज्योतिः परं ब्रह्म सनातनम् ॥१७॥

एतदेव परं पुण्यमेतदेव परं तपः॥ यः स्मरेत्पुंडरीकाक्षं सर्वपापविनाशनम् ॥१८॥

ब्रह्मन्नाना जगच्चैतदेकचित्संप्रकाशितम् ॥ त्वयोक्तं तग्रतीयेऽहं कथं दृष्टांतमंतरा ॥१९॥

तस्माद्येन यथा ब्रह्म प्रतीतं बोधितेन तु ॥ तदाख्याहि यथा चित्तं सीदत्स्थितिमाप्नुयात् ॥१२०॥

एतच्छ्र्त्वा वचो विप्रो नारदस्य महात्मनः ॥ सनकः प्रत्युवाचेदं स्मरन्नारायणं परम् ॥२१॥

सनक उवाच ॥

ब्रह्मन्नं ध्यानपरो भवेयं सनंदनं पृच्छ यथाभिलाषम् । वेदांतशास्त्रे कुशलस्तवायं निवर्तयेद्वा परमार्यवंद्यः ॥२२॥

इतीरितं समाकर्ण्य सन कस्य स नारदः ॥ सनंदनं मोक्षदधर्मान्प्रष्टुं समुपचक्रमे ॥१२३॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशोऽध्याः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:58:33.8430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

electromagnetically induced

  • विद्युतचुंबकत्व प्रेरित 
RANDOM WORD

Did you know?

पिंपळाच्या झाडाला फक्त शनिवारीच स्पर्श का करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.